पूर्वम्: ६।३।७०
अनन्तरम्: ६।३।७२
 
सूत्रम्
रात्रेः कृति विभाषा॥ ६।३।७१
काशिका-वृत्तिः
रात्रेः कृति विभाषा ६।३।७२

रात्रेः कृदन्त उत्तरपदे विभाषा मुमागमो भवति। रात्रिञ्चरः, रात्रिचरः। रात्रिमटः, रात्र्यटः। अप्राप्तविभाषा इयम्। खिति हि नित्यं मुम् भवति। रत्रिम्मन्यः।
न्यासः
रात्रेः कृति विभाषा। श्र् , ६।३।७१

"कृदन्त उत्तरदे" इति। कथं पुनस्तदन्तविधिर्लभ्यते, यावता ज्ञापितमेतत्()--"उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तर्विधिर्नास्ति" (पु।प।पा।२६) इति। रात्रिशब्दादनन्तरस्य कृतयप्रत्ययस्यासम्भवात्? तदन्तविधिरविज्ञायत इति चेत्()? अयुक्तमेतत्(); सम्भवति हि रातरेरनन्तरः कृत्प्रत्ययः। रात्रिरिवाचरतीति "अचारे सर्वप्रातिपदिकेभ्यः क्विव्? वा" (वा।१८७) इति क्विप्(), "सनाद्यन्ता धातवः" ३।१।३२ इति धातुसंज्ञा, तृच्(), इट्(), गुणायादेशौ--रात्रयितेति। तदेवं सम्भवत्यनन्तरे कृत्प्रत्यये तत्रैव स्यात्? न तदन्ते? नैष दोषः; "अरुर्द्विषदजन्तस्य" ६।३।६६ इत्यतोऽन्तग्रहणमनुवर्तते, तेन तदन्त एव कार्यं विज्ञायत इति। एवं तह्र्रचारक्विबन्तस्यापि रात्रिशब्दस्य कृदन्त उत्तरपदे स्यात्()। भवतु। अथ तु नेष्यते? व्यवस्थितविभाषाऽङ्गीकत्र्तव्या। गौणत्वाद्वा रात्रिशब्दस्य न भविष्यति। गौणत्वं पुनः प्राथमकल्पिकादर्थदपेतत्वात्(), यथा--वाहीको गौरित्यत्र गोशब्दस्य। "रात्रिञ्चरः" इति। रात्रौ चरतीति "चरेष्टः" ३।२।१६ इति टः, उपपदसमासः। "रात्रिमटः" इति। अटतीत्यटः, पचाद्यच्(), "रात्र्यटः" ["रात्रावटः" इति मुद्रितः पाठः] इति। "सप्तमी" (२।१।४०) इति योगविभागात्? समासः। "अप्राप्तविभाधेयम्()" इति। ननु च खिदपि कृदस्ति--रात्रिम्मन्यमिति, अत्र हि "अरुर्द्विषदजन्तस्य" ६।३।७५ इति नित्यं प्राप्नोति, "रात्रिञ्चरः" इत्यादौ न केनचित्? प्राप्नोति; एवञ्च प्राप्ते चाप्राप्त इयं विभाषा युक्तेत्यत आह--"खिति हि नित्यं मुम्? भवति" इति। पूर्वविप्रतिषेधेनेत्यभिप्रायः। अत्र हि पूर्वविप्रतिषेध आश्रीयते, खिति पूर्वेण नित्यं मुम्भवति। एवञ्च खितोऽन्यदेव कृदन्तमस्य वचनस्यावकाशः। न च केनचित्? तत्र प्राप्नोतीति युक्तमस्याप्राप्तविभाषात्वम्()॥
बाल-मनोरमा
रात्रेः कृति विभाषा ९९३, ६।३।७१

रात्रेः कृति। अस्य उत्तरपदाधिकारस्थत्वेन "प्रत्ययग्रहणे तदन्तग्रहण"मिति तु इह न भवति। कृतः धातुप्रकृतिकत्वेन रात्रेः कृतोऽसंभवात्तदन्तविधिरित्यभिप्रेत्य आह--कृदन्ते परे इति। रात्रेर्मुम्वा स्यादित्यर्थः। रात्रिञ्चरः, रात्रिचर इति। सुप्युपपदे चरेष्टः, उपपदसमासः, सुब्लुकि पक्षे मुम्। रात्रिमटः रात्र्यट इति। सुप्युपपदे मूलविभुजादित्वात्कः। उपपदसमासः, सुब्लुकि पक्षे मुम्। रात्रिमटः रात्र्यट इति। सुप्युपपदे मूलविभुजादित्वात्कः। उपपदसमासः। सुब्लुक् पक्षे मुम्। ननु ननु "रात्रिम्मन्यः" इत्यत्रापि मुम्विकल्पः स्यादित्यत आह--अखिदर्थमिति। खिति त्विति। खिति तु इमं मुम्विकल्पं बाधित्वा पूर्वविप्रतिषेधेन "अरुर्द्विषदजन्तस्ये"ति नित्यमेव मुमो विधानं कृदधिकारे वक्ष्यत इत्यर्थः। रातिरम्मन्य इति। "आत्ममाने खश्चे"ति खश्। खशः शित्त्वेन सार्वधातुकत्वात्तस्मिन्परे "दिवादिभ्यः श्यन्" इति श्यनि खित्त्वान्नित्य "आत्ममाने खश्चे"ति खश्। "खशः शित्त्वेन सार्वधातुकत्वात्तस्मिन्परे "दिवादिभ्यः श्यन्" इति श्यनि खित्त्वान्नित्यं मुमिति भावः।

तत्त्व-बोधिनी
रात्रेः कृति विभाषा ८४४, ६।३।७१

रात्रेः कृति। उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणाऽभावेऽपि रात्रिशब्दात्परत्र कृतोऽसंभवात्कृदन्त उत्तरपदेऽयं विधिरित्याशयेनोदाहरति---रातिं()रचर इथि। यद्यप्याचारक्विबन्ताण्ण्वुलादिः संभवति, तथापि विलम्बितोपस्थितिकत्वात्स न गृह्रत इति भावः। नित्यमेवेति। पूर्वविप्रतिषेधेनेति भावः। रात्रिम्मन्य इति। "आत्ममाने खश्चे"ति खश्। खशः सार्वधातुकत्वात्तस्मिन्परे श्यन्।