पूर्वम्: ६।३।७९
अनन्तरम्: ६।३।८१
 
सूत्रम्
अव्ययीभावे चाकाले॥ ६।३।८०
काशिका-वृत्तिः
अव्ययीभावे चाकाले ६।३।८१

अव्ययीभावे च समासे अकालवाचिनि उत्तरपदे सहस्य स इत्ययम् आदेशो भवति। सचक्रं धेहि। सधुरं प्राज। अकाले इति किम्? सहपूर्वाह्णम्।
लघु-सिद्धान्त-कौमुदी
अव्ययीभावे चाकाले ९१७, ६।३।८०

सहस्य सः स्यादव्ययीभावे न तु काले। हरेः सादृश्यं सहरि। ज्येष्ठस्यानु पूर्व्येणेत्यनुज्येष्ठम्। चक्रेण युगपत् सचक्रम्। सदृशः सख्या ससखि। क्षत्राणां संपत्तिः सक्षत्रम्। तृणमप्यपरित्यज्य सतृणमत्ति। अग्निग्रन्थपर्यन्तमधीते साग्नि॥
न्यासः
अव्ययीभावे चाकाले। , ६।३।८०

"अकालवाचिनि" इति। अनेन "काले" इति नेह सवरूपस्य ग्रहणम्(), अपि तु कालविशेषवाचिनां पूर्वाह्णादिशब्दानामिति दर्शयति। कुत एतत पुनरवसितम्()? "ग्रन्थान्ताधिके च" ६।३।७८ इत्यत्र ग्रन्थान्तग्रहणात्()। अनेन हि कालवाचिन्युत्तरपदे प्रतिषेधः पर्राप्नोति, स मा भूदिति। तत्र ग्रन्थान्तग्रहणं क्रियते, यदि चात्र "काले" इति स्वरूपग्रहणं स्यात्()। ततस्तेनैव सकलम्(), समुहूत्र्तमित्यत्र सभावः सिद्ध इति तत्र ग्न्थान्तग्रहणमनर्थकं स्यात्()। "सचक्रम्()" इति। "अव्ययं विभक्ति" २।१।६ इत्यादना यौगपद्येऽव्ययीभावः। "सधुरम्()" इति। "ऋक्पूरब्धूः पथामानक्षे" ५।४।७४ इत्यकारः समासान्तः। "सहपूर्वाह्णम्()" इति। तेनैव सूत्रेव साकल्येऽव्ययीभावः॥
बाल-मनोरमा
अव्ययीभावे चाऽकाले ६५२, ६।३।८०

अव्ययीभावे। सहस्य सः स्यादिति। "सहस्य सः संज्ञाया"मित्यतस्तदनुवृत्तेरिति भावः। न तु काले इति। कालवाचके परे सहस्य सो नेत्यर्थः। सचक्रमिति। चक्रेण युगपत्प्रयुक्तमित्यर्थः। सहपूर्वाह्णमिति। समीपादौ अव्ययीभावः। सूत्रे सादृस्येति स्वार्थे ष्यञ्। तद्ध्वनयन्नाह--सदृशः सख्या ससखीति। "सहे"त्यव्ययं सदृशार्थकमिति भावः। गुणभूतेऽपीति। वचनग्रहणसामर्थ्येनाऽव्ययार्थप्राधान्य एव समासप्रवृत्तेः गुणीभूतसादृश्येऽप्राप्त्या तद्ग्रहणमिति भावः। क्षत्राणां संपत्तिः सक्षत्रमिति। क्षत्रियाणामनुरूपं कर्मेत्यर्थः। सहेत्यव्ययमत्र संपत्तौ वर्तत इति भावः। संपत्तिसमृद्धिशब्दयोः पौनरूक्त्यं परिहरति-ऋद्धेरिति। धनधान्यादेस्त्यिर्थः। अनुरूप इति। अनुरूपः=योग्यः, आत्मभावः=स्वभावः। स्वोचितं कर्मेति यावत्। तृणमपीति। "परऽवरयोगे चे"ति क्त्वा। पराऽवरत्वं बौद्धमेव। सहशब्दोऽत्राऽपरिवर्जने वर्तते, न तु तृणसहभावेऽपीति भावः। नन्वेवं सति साकल्ये कथमिदमुदाहरणं स्यादित्यत्र आह--साकल्येनेत्यर्थ इति। पात्रे परिविष्टं सकलं भक्षयतीति यावत्। न त्वत्रेति। तृणभक्षणस्याऽप्रसक्तेरिति भावः। अन्ते इति। "उदाहरणं वक्ष्यते" इति शेषः। सूत्रेऽन्तशब्देन अन्तावयवसाहित्यं विवक्षितमित्यभिप्रेत्योदाहरति-अग्निग्रन्थपर्यन्तमित्यादि। अग्निशब्देनाऽग्निचयनप्रतिपादको ग्रन्थो विवक्षितः। तेनाऽन्तावयवेन सहितं ग्रन्थमिति विग्रहः। अग्निग्रन्थपर्यन्तमिति बहुव्रीहिः। "ग्रन्थ"मित्यन्यपदार्थाध्याहारः। अधीत इति तु समासप्रविष्टम्। अन्तावयवेन अग्निग्रन्थेन सहितं वेदकल्पसूत्रादिभागमधीते इत्यर्थः। अत्र कृत्स्नस्यानध्येतव्यत्वादग्निग्रन्थपर्यन्ताध्ययने तत्कार्त्स्न्यानवगमात्साकल्यात्पृथगुक्तिः।

तत्त्व-बोधिनी
अव्ययीभावे चाऽकाले ५७७, ६।३।८०

चक्रेण युगपदिति। अत्र केचित्--युगपच्चक्रमिति समासेनैव भवितव्यं, युगपच्छब्दस्याप्यव्ययत्वात्, किं तु चक्रेणैककालमित्यादि विग्रहीतुमुचितमित्याहुः। सहपूर्वाह्णमिति। साकल्येऽव्ययीभावः। गुणभूतेऽपीति। यदि सादृश्य इति नोच्येत, तर्हि यत्र सादृश्यं प्रधानमवगम्यते तत्रैव स्यात्, अव्ययार्थप्राधान्यस्याऽव्ययीभावे औत्सिर्गिकत्वादिति भावः। अन्त इति। "इदानीमेतावान् प्रदेशोऽध्येतव्य"इति यावतो ग्रन्थप्रदेशस्य परिग्रहः कृतस्तदपेक्षा समाप्तिरिहाऽन्तशब्देन विवक्षिता। सा चाऽसकलेऽप्यध्ययने भवतीति साकल्यात्पृथगुच्यते। साग्नीति। अग्निशब्दस्तत्प्रतिपादकग्रन्थे वर्तते। स टच तृतीयान्तो नित्यं समस्यते। न चैवमग्निना सहेति प्रयोगो दुर्लभ इति वाच्यम्। साहित्यमात्रविवक्षायां तत्प्रयोगस्योपपत्तेः। अन्तत्वविवक्षायां तु समासस्य नित्यत्वादग्निग्रन्थपर्यन्तमित्यस्वपदविग्रहो दशितः। यत्तु केचित्--अग्निरन्तोऽस्येति प्रथमान्तेनाऽग्रेरन्तत्वमिति षष्ठ()न्तेना वा विग्रहः, समासोऽपि प्रथमान्तेन षष्ठ()न्तेन वेत्याहुः। तन्न। सहशब्दस्यान्तवाचकत्वाऽभावात्। अन्तत्वस्य तु सुतरामलाभात्। सहयुक्ते तृतीयाया न्याय्यत्वाच्च। "सतृणमत्ती"त्यत्र साकल्यस्येव साग्नीत्यत्रान्तत्वस्यापि साहित्येद्योत्यतया तत्र तृतीयान्तेन समासं स्वीकृत्य इह तत्परित्यागस्य निष्प्रमाणत्वाच्च। अत्रेदं बोध्यम्---"तदधीते"इत्यध्वेतृप्रत्ययस्य वैकल्पिकत्वास्ताग्नीत्यत्राऽण्नोक्तः। कृतेऽप्यध्येत्रणि "सर्वादेः सादेश्च लुग्वक्तव्यः"इति वक्ष्यमाणत्वात्साग्नीत्येव रूपमिति