पूर्वम्: ६।३।८१
अनन्तरम्: ६।३।८३
 
सूत्रम्
प्रकृत्याऽ‌ऽशिष्यगोवत्सहलेषु॥ ६।३।८२
काशिका-वृत्तिः
प्रकृत्या आशिष्यगोवत्सहलेषु ६।३।८३

प्रकृत्या सहशब्दो भवति आशिषि विषये अगोवत्सहलेषु। स्वस्ति देवत्ताय सहपुत्राय सहच्छात्राय सहामात्याय। अगोवत्सहलेषु इति किम्? स्वस्ति भवते सहगवे, सगवे। सहवत्साय, सवत्साय। सहहलाय, सहलाय। वोपसर्जनस्य ६।३।८१ इति पक्षे भवत्येव सह्बावः।
न्यासः
प्रकृत्याशिष्यगोवत्सहलेषु। , ६।३।८२

पूर्वेणातिप्रसक्तस्य सभावस्य प्रकृतिभावेन निवृत्तिः क्रियते। नेति वक्तव्ये प्रकृत्येति वचनं वैचित्र्यार्थम्()
बाल-मनोरमा
प्रकृत्याऽ‌ऽशिषि ८४१, ६।३।८२

प्रकृत्याशिषि। "सहस्य सः संज्ञाया"मित्यतः सहस्येत्यनुवृत्तं प्रथमया विपरिणम्यते। तदाह--सहशब्द इति। प्रकृत्येति। स्वभावेन स्थितः स्यादित्यर्थः। सभावो नेति यावत्। स्वस्तीति। "भूया"दिति शेषः। सहपुत्रायेति। "तेन सहे"ति समासे कृते, आसीर्योगान्न सभावः। एवं-सहामात्यायेति।

अगोवत्सेति। गोवत्सहलेषु परतः सहस्य प्रकृतिभावो नेत्यर्थः। सगवे इति। "राज्ञे स्वस्ती"ती शेषः।