पूर्वम्: ६।३।८५
अनन्तरम्: ६।३।८७
 
सूत्रम्
तीर्थे ये॥ ६।३।८६
काशिका-वृत्तिः
तीर्थे ये ६।३।८७

तीर्थशब्द उत्तरपदे यत्प्रत्यये परतः समानस्य स इत्ययम् आदेशो भवति। सतीर्थ्यः। समानतीर्थे वासी ४।४।१०६ इति यत्प्रत्ययः।
न्यासः
तीर्थे ये। , ६।३।८६

"सतीर्थ्यः" इति। पूर्ववत्? कर्मधारयं कृत्वा तद्धितः कत्र्तव्यः। समाने तीर्थे वसतीति सतीर्थ्यः॥
बाल-मनोरमा
तीर्थे ये १०००, ६।३।८६

तीर्थे ये। यशब्दादकारान्तात्सप्तम्येकवचनम्, अकारो न विवक्षितः, प्रत्यय इति विशेष्यमद्याहार्यम्। "यस्मिन् विधि"रिति तदादिविधिः। तदाह--यादौ प्रत्यये इति। नाऽत्रयप्रत्ययान्ते तीर्थशब्दे परे इति व्याख्यातुं शक्यते, "समानतीत्थे वासी"ति समानतीर्थशब्दात्कृतसमासादेव वासीति तद्धितार्थे यप्रत्ययविधानात्। स च यप्रत्ययोऽन्तरङ्गे सभावे कृते एव भवति। "समर्थानां प्रथमाद्वे"ति सूत्रेण परिनिष्ठितादेव तद्धितोत्पत्तेर्वक्ष्यमाणत्वात्कृतेऽपि सभावे एकदेशविकृतन्यायेन भूतपूर्वगत्या वा समानतीर्थशब्दसत्त्वात्। अतो युप्रत्ययपरकत्वं समानशब्दस्य कथमित्यत आह--विवक्षिते इति। सतीथ्र्य इति। समाने तीर्थे वासीत्यर्थः। अत्र सामीप्ये सप्तमी। समानशब्दस्त्वेकपर्यायः। तीर्थशब्दो गुरौ, तदाह--एकगुरुक इति। तद्धितार्थे समासप्रवृत्तयो तद्धितं दर्शयति--समानेति। "निपानागमयोस्तीर्थमृषिजुष्टजले गुरौ" इत्यमरः।

तत्त्व-बोधिनी
तीर्थे ये ८५०, ६।३।८६

तीर्थे ये। अकारो न विवक्षितः। "प्रत्यये"इति विशेष्यं तु व्याख्यानाल्लभ्यते। तेन "यस्मिन्विधि"रिति तदादिविधिरित्याह---यादौ प्रत्यय इति।