पूर्वम्: ६।३।९१
अनन्तरम्: ६।३।९३
 
सूत्रम्
समः समि॥ ६।३।९२
काशिका-वृत्तिः
समः समि ६।३।९३

सम् इत्येतस्य समि इत्ययम् आदेशो भवति अञ्चतौ वप्रत्ययन्ते उत्तरपदे। सम्यक्, सम्यञ्चौ, सम्यञ्चः।
लघु-सिद्धान्त-कौमुदी
समः समि ३४०, ६।३।९२

वप्रत्ययान्तेऽञ्चतौ। सम्यङ्। सम्यञ्चौ। समीचः। सम्यग्भ्याम्॥ ,
न्यासः
समः समि। , ६।३।९२

बाल-मनोरमा
समः समि , ६।३।९२

समः समि। "समी"ति लुप्तप्रथमाकम्। "अञ्चतावप्रत्यये" इत्यनुवर्तते। तदभिप्रेत्य शेषपूरणेन सूत्रे व्याचष्टे--अप्रत्ययेति। समीच इति। "अचः" इति लोपे "चौ" इति दीर्घः।

तत्त्व-बोधिनी
विष्वग्देवयोश्च टेरद्यञ्चतावप्रत्यये ३७०, ६।३।९२

विष्वग्देवायोश्च। चकारेण "आ सर्वनाम्नः"इत्यतः "सर्वनाम्ना"लभ्यते, इत्याह--अनयोः सर्वनाम्नश्चेति। अप्रत्ययान्तेऽञ्चताविति। अविद्यमानः प्रत्ययोऽप्रत्ययः---क्विन्क्विबादिः। "अञ्चतौ वप्रत्यये"इति पाठे तु "वप्रत्ययान्तेऽञ्चतौ"इति व्याख्येयम्। विष्वग्देवयोस्तूदाहरणं--विष्वगञ्चतीति विष्वद्यङ्। देवानञ्चतीति देवद्यङ्ङिति बोध्यम्।

तत्त्व-बोधिनी
समः समि ३७३, ६।३।९२

समः समि। "समी"त्यविभक्तितो निर्देशः। एवं "तिरसस्तिरी"त्यपि। सङ्गतमञ्चतीति--सम्यङ्। समीच इति। अल्लोपे "चौ" इथि दीर्घः। सह अञ्चतीति।