पूर्वम्: ६।३।९४
अनन्तरम्: ६।३।९६
 
सूत्रम्
सध मादस्थयोश्छन्दसि॥ ६।३।९५
काशिका-वृत्तिः
सध मादस्थयोश् छन्दसि ६।३।९६

छन्दसि विषये माद स्थ इत्येतयोरुत्तरपदयोः सहस्य सध इत्ययम् आदेशो भवति। सधमादो द्युम्निनीरापः। सधस्था।
न्यासः
सध मादस्थयोश्छन्दसि। , ६।३।९५

"सधमादः" इति। सह मादेन वत्र्तत इति "तेन सह" २।२।२८ इत्यादिना बहुव्रीहिः, मादशब्दो घञन्तः। ननु च "मदोऽनुपसर्गे" (३।३।६७) इत्यपा भवितव्यम्()? नैष दोषः; तत्र हि "स्वनहसोर्वा" ३।३।६२ इत्यतो वाग्रहणमनुवर्तते, सां च व्यवस्थितविभाषा। तेन छन्दसि घञेव भविष्यति। अथ एव निर्देशाद्वा। "सधस्थः" ["सधस्थाः"--काशिका मुद्रितः पाठः, "सधस्था"--(काशिका) सं।पं। मुद्रितपाठः] इति। सह तिष्ठीति "सुपि स्थः" ३।२।४ इति कः॥
बाल-मनोरमा
विष्वग्देवयोश्च टेरद्र�ञ्चतावप्रत्यये , ६।३।९५

विष्वग्देवयोश्च। "अद्रि" इति लुप्तप्रथमाकम्। अनयोरिति। विष्वग्देवशब्दयोरित्यर्थः। सर्वनाम्न इति। चकारेण "आ सर्वनाम्नः" इत्यतस्तदनुकर्षादिति भावः। अप्रत्ययान्ते इति। सूत्रे अप्रत्यय इत्यत्र नित्यम् अश्रूयमाणत्वादविद्यमानः प्रत्ययः क्विबादिर्यस्मादिति बहुव्रीह्राश्रयणादिति भावः। प्रकृते अदसष्टेरद्र()आदेशमुदाह्मत्य दर्शयति--अदद्रि अञ्चिति स्थिते इति। अद्र()आदेशोऽयमनिदितामिति नलोपे कृते प्रवर्तते, नलोपस्य परत्वादिति बोध्यम्। यणिति। "रेफादिकारस्ये"ति शेषः। अदद्र()चित्यतः सुबुत्पत्तिः। अदसो। अदसः, असेः, दात्, उ, दः, म इति च्छेदः। "अदस" इत्यवयवषष्ठ()न्तम्। "असे"रिति तद्विशेषणम्। न विद्यते सिर्यस्य स असिः तस्येति विग्रहः। इकार उच्चारणार्थः। दादिति दिग्योगे पञ्चमी। परस्येत्यध्याहार्यम्।