पूर्वम्: ६।३।९५
अनन्तरम्: ६।३।९७
 
सूत्रम्
द्व्यन्तरुपसर्गेभ्योऽप ईत्॥ ६।३।९६
काशिका-वृत्तिः
द्व्यन्तरुपसर्गेभ्यो ऽप ईत् ६।३।९७

द्वि अन्तरित्येताभ्यां उपसर्गाच् च उत्तरस्य अपित्येतस्य ईकारादेशो भवति। द्वीपम्। अन्तरीपम्। उपसर्गात् नीपम्। वीपम्। समीपम्। समाप ईत्वे प्रतिशेधो वक्तव्यः। समापं नाम देवयजनम्। अपर आह ईत्वमनवर्णादिति वक्तव्यम्। इह मा भूत्, प्रापम्, परापम्। अप्शब्दं प्रति क्रिययोगाभावातुपसर्गग्रहणं प्राद्युपलक्षणार्थम्।
न्यासः
द्व्यन्तरुपसर्गेभ्योऽप ईत्?। , ६।३।९६

"द्वीपम्()" इति। द्विर्गता आपोऽस्मिन्नित्यस्वपदविग्रहो बहुव्रीहिः। यथा--शोभनं मुखमस्याः सुमुखीति। "ऋक्पूरब्धूः" ५।४।७४ इत्यादिनाऽकारः समासान्तः। अन्तर्गता आपोऽस्मिन्नित्यन्तरीपम्()। सङ्गता विगता निर्गता आपोऽस्मिन्निति सपीपम्(), वीपम्(), नीपम्()। "वक्तव्यम्()" इति। व्याख्येयमित्यर्थः। उत्तरत्रापि वक्तवयशब्दस्यायमेवार्थः। व्याख्यानं त्विहापि पूर्ववत्? "विभाषोदरे" इत्यतो विभाषाग्रहणानुवृत्तेव्र्यवस्थितविभाषात्वाल्लभ्यते। अन्यदपि चत्र व्याख्यानं करिष्यामः। "अप्शब्दं प्रति" इत्यादि। इह यं प्रति क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञका भवन्तीति अप्शब्दसय तु क्रियात्वं न सम्भवति; द्रव्यवचित्वात्()। तस्मात्? तं प्रति नास्ति कस्यचिदुपसर्गसंज्ञेति। क्रियते चेदमुपसर्गग्रहणम्()। तत्सामथ्र्याद्यत्र प्रादेरन्यत्रोपसरगतवं दृष्टं तदुपलक्षणार्थमुपसर्गग्रहणं विज्ञायते। यद्येवम्(), अन्तशब्दस्य ग्रहणं न कत्र्तव्यम्(), यथैव हि प्रादय उपसर्गग्रहणेन लक्ष्यन्ते तथान्तःशब्दोऽपि, तस्याङ्कविधिणत्वेपूपसर्गत्वं दृष्टमेव? एवं तह्र्रन्तग्र्रहणेन ज्ञाप्यते--उपसर्गग्रहणोपलक्षितमीत्त्वमनित्यमिति। तेन समापम्(), परापम्(), प्रापमिति सिद्धं भवति॥
बाल-मनोरमा
द्व्यन्तरुपसर्गेभ्योऽप ईत् ९२८, ६।३।९६

द्व्यन्तरुप। कृतसमासान्तस्येति। अकारप्रत्ययान्तस्येत्यर्थः। एभ्य इति। द्वि अन्तर् उपसर्ग-एतेभ्य इत्यर्थः। अपस्येति। अकारप्रत्ययान्तस्याऽप्शब्दस्येत्यर्थः। ईत्स्यादिति। "आदेः परस्ये"ति परिभाषया आदेरकारस्येत्यर्थः। द्वयोर्गता इति। द्वयोः पार्()सयोर्गता आपो यस्मिन्निति विग्रहः। व्यधिकरणपदो बहुव्रीहिः। अकारप्रत्ययः,ईत्त्वं, सवर्णदीर्घश्च। अन्तरीपमिति। अन्तर्गता आपो यस्मिन्निति विग्रहः। प्तीपमिति। प्रतिकूला आपो यस्मिन्निति विग्रहः। उपसर्गात्परत्वादीत्त्वम्। समीपमिति। सङ्गता आपो यस्मिन्निति विग्रहः। उपसर्गात्परस्योदाहरणान्तरमिदम्। समापो देवयजनमिति। श्रुतिरेषा। अत्र उपसर्गात्परत्वाऽभावादीत्त्वं नेति भावः। देवा इज्यन्ते यस्मिन्निति देवयजनं यज्ञभूमिः। "समाप" इति पुंस्त्वं छान्दसम्। भाष्ये तु "समाप ईत्त्वं ने"त्युक्त्वा समापं नाम देवयजनमित्युदाह्मतम्। तत्र समापशब्दो देवयजनविशेषवाच्येव विवक्षितः, "समीपसमृद्धी"ति निर्देशात्, "समीप"मिति भाष्ये उदाहरणाच्च। स्वविति। शोभना आपो यस्येति विग्रहः। "न पूजना"दिति समासान्तनिषेधः। अकृतसमासान्तत्वादीत्त्वं न। स्वपी इति। प्रथम#आद्विवचनमिदम्। अवर्णान्ताद्वेति। अवर्णान्तादुपसर्गात्परस्याऽपस्य ईत्त्वं वा वक्तव्यमित्यर्थः। प्रेपं प्रापमिति। प्रगता आपो यस्येति विग्रहः। परेपं परापमिति। परागता आपो यस्येति विग्रहः।

तत्त्व-बोधिनी
व्द्यन्तरूपसर्गेभ्योऽप ईत् ८०४, ६।३।९६

कृतसमासान्तस्येति। "येन विधि"रिति सूत्रे "आपस्तिष्टन्ति स्वापस्तिष्ठन्ती"ति भाष्यादिति भावः। अन्तरीपमित्यादि। अन्तर्गताः, प्रतिकूलाः, सङ्गताश्चपो अस्मिन्निति विग्रहः। उपसर्गग्रहणं प्रादेरुपलक्षणार्थम्। समाप इति। अनुपसर्गत्वान्नेत्वमिति भावः। भाष्ये तु "समाप ईत्वप्रतिषेधो वक्तव्यः"इत्युक्तम्। स च देवयजनरूपविशेषार्थपरः "समीपसमृद्धी"ति निर्देशात्, "समीपे"मिति भाष्योदाहरणाच्चेति ज्ञेयम्। देवयजनमिति। देवा इज्यन्ते अस्मिन्निति व्युत्पत्त्या यज्ञभूमिः। स्वबिति। "न पूजना"दिति समासान्ताऽभावः।

अवर्णान्ताद्वा। अवर्णान्ताद्वेति। "व्द्यन्त"रिति सूत्रे "ईत्वमनवर्णा"दिति वक्तव्यम्। इह माभूत् "प्रापं पराप"मिति भाष्योक्तेः, "गतिश्चे"ति सूत्रे "प्रेपं परेप"मिति भाष्योक्तेश्चेति भावः।