पूर्वम्: ६।३।१३८
अनन्तरम्: ६।४।२
 
प्रथमावृत्तिः

सूत्रम्॥ अङ्गस्य॥ ६।४।१

पदच्छेदः॥ अङ्गस्य ६।१ ७।४।९७

अर्थः॥

अधिकारः अयम् आसप्तमाध्यायपरिसमाप्तेः। यत् इतः ऊर्ध्वम् अनुक्रमिष्यामः अङ्गस्य इत्येवं तद्वेदितव्यम्

उदाहरणम्॥

वक्ष्यति हलः। हूतः, जीनः, संवीतः॥
काशिका-वृत्तिः
अङ्गस्य ६।४।१

अधिकारो ऽयम् आसप्तमाध्यायपरिसमाप्तेः। यदित ऊर्ध्वम् अनुक्रमिष्यामः अङ्गस्य इत्येवं तद् वेदितव्यम्। वक्ष्यति हलः ६।४।२ हूतः। जीनः। संवीतः। अङ्गस्य इति किम्? निरुतम्। दुरुतम्। नामि दीर्घः ६।४।६ अग्नीनाम्। वायूनाम्। अङ्गस्य इति किम्? क्रिमिणां पश्य। पामनां पश्य। अतो भिस ऐस् ७।१।९ वृक्षैः। प्लक्षैः। अङ्गस्य इति किम्? ब्राह्मणभिस्सा। ओदनभिस्सिटा। अङ्गाधिकारः कृतो ऽन्यार्थो नामि दीर्घत्वाद्यपि व्यवस्थापयति इति तदर्थम् अर्थवद्ग्रहणपरिभाषा नाश्रयितव्या भवति। अङ्गस्य इति सम्बन्धसामान्ये एषा षष्ठी यथायोगं विशेषेषु अवतिष्ठते। अथ वा प्रातिपदिकार्थमात्रम् अविवक्षितविभक्त्यर्थम् अधिक्रियते। ततुत्तरत्र यथायोगं विपरिणम्यते। ततो ऽकारान्तादङ्गात् भिस ऐसित्येवम् आद्यपि सम्यक् सम्पन्नं भवति।
न्यासः
अङ्गस्य। , ६।४।१

"अधिकारोऽयम्()" इति। स्वरितलिङ्गासङ्गात्()। इह केचित्? प्रागभ्यासविकारेभ्योऽयमङ्गाधिकारो युक्त इति मन्यन्ते। एवं हि "गुणो यङ्लुकोः" (७।४।८२) इत्यस्मिन्? सत्रे लुग्ग्रहणं न कत्र्तव्यं भवति; यङ्लुक्यापि प्रत्ययलक्षणेन गुणस्य सिद्धत्वात्()। यदि पुनरा सप्तमाध्यायपरिसमाप्तेरयमङ्गाधिकारः स्यात्(), ततोऽवश्यं लुग्ग्रहणं कत्र्तव्यम्(), न ह्रन्यथा यङ्लुकि गुणः सिध्यति; "न लुमताङ्गस्य" १।१।६२ इति प्रतिषेधादित्येदं तेषामभिप्रायः। वृत्तिकारस्तु--यदि प्रागभ्यासविकारेभ्योऽयमङ्गाधिकारः स्यात्(), ततो वव्रश्चेत्यत्र वृश्चतेर्लिटि द्विर्ववचने कृते हलादिशेषात्? प्राक्? सम्प्रसारणं पूर्वप्रतिषेधेन, "उभयेषाम्()" इति वचनसामथ्र्याद्धापरमपि हलादिशेषं बाधित्वा सम्प्रसारणं स्यात्(), ततश्च "सम्प्रसारणाच्च" ६।१।१०४ इति पूर्वरूपत्वे "उरत्()" ७।४।६६ इत्यत्त्वे रपरत्वे हलादिशेषे च कृते वकारस्यापि सम्प्रसारणं प्रसज्येत। आ सप्तमाध्यायपरिसमाप्तेः पुनरङ्गाधिकारे सति "उरत्()" (७।४।६६) इत्यस्य परनिमित्तत्वात्? प्रत्ययो निमित्तत्वेनाश्रीयते। तेन परनिमित्तत्वादुरदत्तवस्य सम्परसारणम्()" ६।१।३६ इति वकारस्य सम्प्रसारणं प्रतिषिध्यते। प्रागभ्यासविकारेभ्यः पुनरङ्गाधिकारे सत्यपरनिमित्तत्वा दुरदत्त्वसय स्थानिवद्भावो न स्यात्(), ततश्च "न सम्प्रसारणे सम्प्रसारणम्()" ६।१।३६ इत्यस्य प्रतिषेधस्याभावाद्वकारसय समप्रसारणं स्यादेव। ततश्चोव्रश्चेत्यनिष्टं रूपं स्यात्()। तस्मादा सप्तमाध्यायपरसमाप्तेरङ्गाधिकारो युक्तः, न तु प्रागभ्यासविकारेभ्य इति मन्यमान आह--"आ सप्तमाध्यायपरिसमाप्तेः" इति। सप्तमाध्यायपरिसमाप्तेस्तु परेण "पदस्य" ८।१।१६ इत्यधिकृतय कार्यं विधीयते। तेन तत्राङ्गाधिकारो नानुवत्र्तते। "ह्वेञ्? स्पर्धायाम्()" [ह्वेञ्? स्पर्धायां शब्दे च--धा।पा।] (धा।पा।१००८) निष्ठा, यजादीत्वात्? सम्प्रसारणम्()। "जीनः" इति। " ज्या वयोहानौ" (धा।पा।१४९९) ग्रह्रादिसूत्रेण ६।१।१६ सम्प्रसारणम्(), "ल्वादिभ्यः" ८।२।४४ इति निष्ठानत्वम्()। "संवीतः" इति। "व्येञ्? संवरणे" (धा।पा।१००७) वच्यादिना ६।१।१५ सम्प्रसारणम्()। "निरुतम्(), दुरुतम्()" इति। "वेञ्? तन्तुसन्ताने" (धा।पा।१००६) पूर्ववत्? सम्प्रसारणम्()। असत्यङ्गाधिकारे निर्दुरोरवयवो यो हल्? ततोऽप्युत्तरस्य सम्प्रसारणस्य दीर्घः स्यात्()। अङ्गाधिकारे पुनरङ्गावयवो यो हल्? तदुत्तरं यत्? सम्प्रसारणं तदन्तस्याङ्गस्य दीर्घत्वं विज्ञायत इति न भवति दीर्घत्वप्रसङ्गः। न ह्रत्राङ्गावयवाद्धल उत्तरं सम्प्रसारणम्()। "अग्नीनाम्()" इति। "ह्यस्वनद्यापो नुट्()" ७।१।५४। "क्रिमिणां पश्य पामनां पश्य" इति। क्रियमोऽस्यां सन्तीति, पामानोऽस्यां सन्तीति "लोमादि" ५।२।९९ इत्यादिना नप्रत्ययः, ततष्टाप्(), द्वितीयैकवचनम्()। "अमि पूर्वः" ६।१।१०३ इति पूर्वरूपत्वम्()। यद्यङ्गस्येति नाधिक्रियते, ततोऽत्रापि क्रिमिशब्दस्य पामशब्दसय च नामि परतो दीर्घत्वं स्यात्()। अङ्गाधिकारे तु न दोषः, न ह्रत्र क्रिमिपामशब्दयोर्नामि परतोऽङ्गत्वमस्ति, अपि तु नप्रत्यये "ब्राआहृणभिस्सा, ओदनभिस्सिटा" इति। भिस्साभिस्सिटाशब्दौ टाबन्तौ। तत्रैक ओदनस्य वाचकः, अपरस्तु तद्दग्धिकायाः। ताभ्यां यथाक्रमं ब्राआहृणौदनशब्दयोः षष्ठीसमासः। तत्रासत्यङ्गाधिकारे अनङ्गाब्यामपि ब्राआहृणौदनशब्दाभ्यां परस्य भिस ऐस्भावः प्रसज्येत। ननु च "तर्थवद्ग्रहणे नानर्थकस्य" (व्या।प।१) इति वचनाद्यथा क्रिमिणां पश्य, पामनां पश्येत्यत्र दीर्घत्वं न भविष्यति, तथा ब्राआहृणभिस्सौदनभिस्सिटेत्यत्राप्यैस्भावः, न ह्रत्र नामोऽर्थवत्त्वम्(), नापि भिसः, तत्? किं तन्निवृत्यर्थेनाङ्गाधिकारेण? इत्याह--"अङ्गाधिकारः" इत्यादि। "नामिदीर्घत्वाद्यपि" इत्यादि। आदशब्देन "अतो भिस ऐस्()" (७।१।९) इत्यैस्? गृह्रते। इतिकरणो हेतौ। यस्मादसत्यङ्गाधिकारे "हलः" ६।४।२ इति दीर्घत्वं यथा हूतः जीन इत्यत्र भवति, तथा निरुतम्(), दुरतमित्यत्रापि स्यात्()। "अज्झनगमां सनि" ६।४।१६ इति दीर्घत्वं यथा चिकीर्षतीत्यत्र भवति, तथा दधि सनोति, मधु सनोतीत्यत्रापि स्यात्()। "एर्लिङि" ६।४।६७ "वान्यसय संयोगादेः" ६।४।६८ इत्येत्त्वं यथा ग्लेयादित्यत्र भवति, तथा निर्यायात्? निर्वायादित्यत्रापि भवेत्()। तस्मादेवमाद्यर्थोऽवश्यकत्र्तव्योऽङ्गाधिकारः। सोऽन्यार्थः क्रियमाणो नामि दीर्घत्वाद्यपि व्यवस्थापयति=विषयान्तराद्व्यावर्त्त्याभिमते विषये नियमति। तेन तदर्थमेषा परिभाषा नाश्रयितव्या भवति। अगत्या हि खलु परिभाषाऽ‌ऽश्रीयत इति भावः। ननु "षष्ठी स्थानेयोगा" १।१।४८ इति वचनादङ्गस्येति स्थानषष्ठीयम्(), ततश्च "अतो भिसाइस" (७।१।९) इत्येतत्? पञ्चम्यन्तेनाङ्गस्येत्येतत्षष्ठ()न्तस्य समानाधिकरणत्वं न स्यात्(); भिन्नविभक्तिकत्वात्()। तथा च सत्यकारान्तात्? परस्य भिस्सेत्यत्रस्यैस्भावः प्रसज्येत "ऊदुपघाया गोहः" ६।४।८९ इत्यत्र "गोहः" इत्यस्याः स्थानषष्ठ()आ "अलोऽन्त्यस्य" १।२।५२ इत्यन्तेऽल्युपसंहारादुपधागरहणसामथ्र्याच्छ गोहश्चान्त्यस्य स्यादूत्त्वम्()। उपधामात्रस्य च "शास इदङ्हलोः" ६।४।३४ इत्यत्रापि शास इति स्थानषष्ठीत्वेन विज्ञातायाः षष्ठ()आ अन्तेऽल्युपसंहारादुपधाग्रहणानुवृत्तिसामथ्र्याच्च शासश्चान्त्यस्येत्त्वम्(), उपधामात्रस्य चेत्येतद्देश्यमपाकर्त्तुमाह--"अङ्गस्येति सम्बन्धसामान्य एषा षष्ठी" इत्यादि। सम्बन्धसामान्ये=अविशेषितसम्बन्धमात्रे। तत्रानेकसम्बन्धानुग्रहार्थमनाश्रितविशेषं सम्बन्धसामान्यमुपादाय प्रवृत्ता सत्युत्तरेषु भिन्नार्थेषु लक्षमवाक्येषु यथायोगं विशेषेष्ववतिष्ठते। सा क्वचित्? स्थाने योगा भवति, यथा "हन्तेर्जः" ६।४।३६ इत्येवमादौ। क्वचिन्निमित्तनिमित्तिसम्बन्धविषया, यथा--"युवोरनाकौ" ७।१।१ इत्यादौ। यथैव हि देवदत्तस्येत्येका षष्ठ()भेदेन प्रवृत्ता ज्ञात्यवयवादिषु सम्बन्धभेदैर्भिद्यमाना जन्यजनकभावाद्यैः सम्बन्धविशेषे यथायोगमुपतिष्ठते--देवदत्तस्य पुत्रः पाणिः कम्बल इति, तथाङ्गस्येत्येषापि। तत्र यस्मिन्? वाक्ये "शास इदङ्हलोः" ७।४।३४ इत्येवमादौ सम्बन्धिविशेषो विद्यते--अवयवोऽन्यो वा, तत्र यथायोगमवयवादिसम्बन्धे षष्ठी वेदतव्या। यत्र न विद्यते तत्र स्थाने षष्ठी, यथा--"हन्तेर्जः" ६।४।३६ इतयवमादौ। कथं पुनरेषा सम्बन्धसामान्ये षष्ठीति लभ्यते, यावता "षष्ठी स्थानेयोगा" (१।१।४९) इत्युक्तम्()? एवं मन्यते--न हि सर्वा षष्ठी स्थानेयोगा भवति, अपि तु यस्याः कलादिकं लिङ्गं प्रतिज्ञायते; अन्यथा हि "उदीचामातः साथाने" इति स्थानग्रहणमनर्थकं स्यात्()। तस्माद्विशिष्टैव या षष्ठी यस्याः कलादिकं लिङ्गं प्रतिज्ञायते सा स्थानेयोगेत्युक्तम्()। न चास्याः कलादिकं लिङ्गं प्रतिज्ञायते। ततो नेयं स्थानेयोगा भवितुमर्हति। "अथ वा" इत्यादि। अङ्गशब्दस्य प्रातिपदिकस्य योऽर्थस्तन्मात्रधिक्रियते, न त्वेङ्स्येत्येतच्छब्दरूपम्()। मात्रशब्दो विभक्त्यर्थव्यवच्छेदाय। अत एवाह--"अविवक्षितविभक्त्यर्थम्()" इति। न विवक्षितो विभक्त्यर्थी यस्मिन्नर्थमात्रे तत्? तथोक्तम्()। यतश्चेतदेवं तेन षष्ठी स्थानेयोगेति। नात्रेयं परिभाषोपतिष्ठते। अनेकसम्बन्धप्रसङ्गे हि सम्बन्धान्तरव्यवच्छेदार्थमेषा प्रणीता। ततो यत्र सम्बन्धो विवक्ष्यते तत्रैव नियमार्थमुपतिष्ठते, न चात्र कश्चित्? सम्बन्धः षष्ठ()आ विवक्षितः केवलं निर्देशार्थ एवास्याः प्रयोगः। अवश्यं हि यथा कयाचिद्विभक्त्या निर्देशः कत्र्तव्य इति षष्ठ()आं निर्देशः कृतः। ननु च स्वरितेनाधिकारः, स च शब्दधर्मः, नार्थधर्मः, तत्? कथं स्वरितरहितोऽर्थः शक्यतोऽधिकर्त्तुम्()? नैष दोषः; अङ्गशब्दप्रतिपादितो योऽर्थः स शब्दात्मक एव। तथा हि यस्मात्? प्रतययविविस्तदादेः शब्दस्याङ्गसंज्ञा विहिता। "तदुत्तरत्र यथायोगं विपरिणम्यते" इत्यादि। अर्थवशात्? क्वचित्? षष्ठ()न्तत्वेनैव क्वचिद्विभक्त्यन्तरत्वेन, यथा--आढ()ओ र्बधवेयो देवदेत्तः, उच्चान्यस्य गृहाणि, आमन्त्रयस्वैनं देवदत्तमिति। तेन "अतो भिस ऐस्? ७।१।९ इत्यत्र पञ्चम्यन्ततया विभक्तिविपरिणामे हि सत्यकारान्तादङ्गादुत्तरस्य भिस ऐसादेशो भवतीत्येवमाद्यर्थरूपं सम्पन्नं भवति। आदिशब्देन युष्मदस्मद्भ्यामुत्तरस्य ङसोऽश्? भवतीति परिगृह्रते। पिशब्दादवयवषष्ठ()आदयोऽपि परिसम्पन्ना भवन्ति। पूर्वत्र तु परिहारे "अतो भिस्? ऐस्()" (७।१।९) इत्यत्रात्? इत्येषा निमित्तनिमित्तिसम्बन्दे षष्ठी द्रष्टव्या। तत्रायं सूत्रार्थः--अकारान्तस्याङ्गस्य यी भिस्? तस्यैस्भवतीति। तेन ब्राआहृणभिस्सेत्येवमादौ न भवति। अङ्गस्य हि को भिम्()? यस्तस्य निमित्तम्()। कस्तस्य पुनर्निमित्तम्? भिस्()? परभूते यस्मिन्नङ्गमित्येषं भवति। क()स्मश्चैतद्भवति? प्रत्यये। न च ब्राआहृणभिस्सेत्येवमादौ भिस्प्रत्यय इति कुतस्तस्यैस्प्रसङ्गः॥