पूर्वम्: ६।४।९
अनन्तरम्: ६।४।११
 
सूत्रम्
सान्तमहतः संयोगस्य॥ ६।४।१०
काशिका-वृत्तिः
सान्तमहतः संयोगस्य ६।४।१०

सकारान्तस्य संयोगस्य यो नकारः महतश्च तस्य उपधायाः दीर्घो भवति सर्वनामस्थाने परतः असम्बुद्धौ। श्रेयान्, श्रेयांसौ, श्रेयांसः। श्रेयांसि। पयांसि। यशांसि। महतः स्वल्वपि महान्, महान्तौ, महान्तः। असम्बुद्धौ इति किम्? हे श्रेयन्। हे महन्।
लघु-सिद्धान्त-कौमुदी
सान्तमहतः संयोगस्य ३४४, ६।४।१०

सान्तसंयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घोऽसम्बुद्धौ सर्वनामस्थाने। महान्। महान्तौ। महान्तः। हे महन्। महद्भ्याम्॥ ,
न्यासः
सान्तमहतः संयोगस्य। , ६।४।१०

सकारेऽकार उच्चारणार्थः। सोन्तोऽस्य स तथोक्तः। "सान्त" इत्यविभक्तिकोऽयं निर्देशः, तत्रोत्पन्नायाः षष्ठ()आ लुप्तत्वात्()। "सकारान्तस्य संयोगो नकारो महतश्च" इति। तत्रापि नकार इत्यपेक्षते। सकारान्तस्य महतश्चेति द्वे अप्यवयवषष्ठ्यौ, सान्तसंयोगो यो नकारोऽवयवो महच्छब्दस्य च योऽवयव इत्यर्थः। एतेन सान्तसंयोगो महच्छब्दश्चोभयमप्येतन्नकारस्य विशेषणमिति दर्शयति। "तस्योपधायाः" इति। तस्येत्यनेन नकारः प्रत्यवमृश्यते। तस्य नकारस्य सम्बन्धिन्या उपधाया इत्यर्थः। एतैनापि नकार उपधाया विशेषणमित्याचष्टे। कः पुनर्नकारस्योपधायाश्च सम्बन्धः येनासौ तस्येति व्यपदिश्यते? निमित्तनिमित्तिभावः। अन्तयनकारापेक्षया हि पर्वत्वे सत्यन्तनकारात्? पूर्वो वर्ण उपधा भवति। तस्मान्नकारो निमित्तम्(), उपरधा निमित्तनौ। अथ वा--समीपसमीपिलक्षणः सम्बन्धः, एतेन नकारसमीपवर्त्तिन्या उपधाया इत्यर्थः। "श्रेयान्()" इति। प्रशस्योऽयम्(), प्रशस्योऽयम्(), अनयोरयम्प्रकर्षेण प्रशस्य इति "द्विवचनविभज्योपपदे तरबीयसुनौ" ५।३।५७ इतीयसुन्(), "प्रशस्यस्य श्रः" ५।३।६० इति श्रादेशः, "प्रकृत्यैकाच्()" ६।४।१६३ इति प्रकृतिवद्भावाट्टिलोपः, "यस्येति च" ६।४।१४८ इति लोपश्च न भवति। "उगिदचाम्()" ७।१।७० इत्यादिना नुम्(), हल्ङ्यादि ६।१।६६ संयोगान्त ८।२।२३ लोपौ। "श्रेयांसि, पयांसि" इति। पूर्ववज्जसः शिभावः "नपुंसकस्य झलचः" ७।१।७२ इति नुम्()। कथं पुनरत्र नकारात्? पूर्वस्योपधात्वम्(), यावता "अलोन्त्यात्पूर्व उपधा" (१।१।६५) इत्यलां सन्निविष्टानां योऽन्त्योऽल्? ततः पूर्वस्योपधासंज्ञा विहिता। न चात्र नकारोऽन्त्यः, किं तर्हि? सकारः? नैष दीषः; अपेक्षितं ह्रन्त्यत्वम्()। तत्? सकारात्? पूर्वे ये वर्णास्तेषां नकारोऽन्त्य इति। ततः पूर्वो वर्ण उपधा भवति। यद्येवम्(), तक्षको रक्षक इत्यत्रापि सकारात्? पूर्वे ये वर्णास्तेषां ककारोऽन्त्य इति, ततः पूर्वोऽवर्ण उपधा स्यात्(), ततश्च "अत उपधायाः, (७।२।११६) इति वृद्धिः स्यात्()? नैतदस्ति; अङ्गस्य योऽकार उपधा तस्या वृद्धिर्विधीयते। न चात्राकारोऽङ्गस्यीपधा, अतो न भविष्यतीति--एतचचाशक्यं वक्तुम्(), अकारस्याङ्गावयवत्वात्()। पाचक इत्यादावप्यङ्गावयवत्वादकारोऽङ्गस्योपधेत्युच्यते, तस्मात्? प्राप्नोत्येव वृद्धिः? नैष दोषः, "अत उपधायाः" ७।२।११६ इत्यत्र हि "ञ्णिति" ७।२।११५ इत्यनुवत्र्तते, तेनोपधा विशिष्यते--ञिति प्रत्यये परतो योपधेति, तत्र "येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्()" (व्या।प।४९) इत्येकेन वर्णेन व्यवधानमाश्रोयते, न पुनरनेकेन। तक्षकः, रक्षक इत्यत्रानेकेन वर्णेन व्यवधानम्? अतो न भवति वृद्धिप्रसङ्गः। इह तु सूत्रेन सर्वनामस्थानेनोपधा विशिष्यते, किं तर्हि? संयोगः--तेन सर्वनामस्थाने परतो यः संयोग इति। तेन यत्र संयोगादनन्तरं सर्वनामस्थानं तत्र यद्युपधायाः सर्वनामस्थानस्य चानेकवर्णकृतं व्यवधानम्(), तथापि दीर्घत्वं भवत्येव। अत एव सर्वनामस्थानं तत्र यद्युपधायाः सर्वनामस्थानस्य चानेकवर्णकृतं व्यवधानम्(), तथापि दीर्घत्वं भवत्येव। अत एव सर्वनामस्थानेन संयोगसय विशेषणात्? हंसौ, हंसा इत्यत्र दीर्घत्वं न भवति। न ह्रत्र संयोगादनन्तरं सर्वनामस्थानमस्ति, अकारेण व्यवधानात्()। अथेह कस्मान्न भवति--हंसमाचष्ट इति, "तदाचष्टे" (वा।२०१) इति णिच्? णाविष्ठवत्? कार्यं प्रातिपदिकस्य (वा।८१३) इति टिलोपः, हंसयतेः क्विप्()--हन्(), हंसौ हंस इति? "वा षपूर्वस्य निगमे" ६।४।९ इत्यतो वाग्रहणानुवृत्तेः। न चैवं सति सर्वत्र विकल्पप्रसङ्गः; व्यवस्थितविभाषात्वात्()। एतेन "हिसि हिंसायाम्()" (धा।पा।१८२९) इत्यस्य क्विबन्तस्य सुहिन्? सुहिंसौ सुहिंस इत्यत्र दीर्घत्वाभावो वेदितव्यः। यस्त्वाह--"इदितो नुम्? धातोः" ७।१।५८ इत्यनेन नित्यो नुम्(); नुम्विधावुपदेशिवद्वचनात्(), ततो नुमः पृथक्सिद्धत्वं नास्ति, अत्र तु सिद्धानां सम्बन्धः समवायो भवति, न तु संयोगः। तेन संयोगाभावादिह दीर्घत्वं न भवति तन्मतेन संयोगान्तलोपोऽपि सुहन्नित्यत्र न स्यात्()। नेह वैशेषिकशास्त्रप्रसिद्धोऽयं संयोगो गृह्रते अपि तु "हलोऽन्तराः संयोगः" १।१।७ इति हलान्नैरन्तर्यलक्षण इह शास्त्रे प्रसिद्धः संयोग एव। स चेहास्त्येवेत्यसारः परिहारः। "महान्()" इति। "वत्र्तमाने पृषद्वृहन्महज्जगच्छतृवच्च" (द।उ।६।५) इति निपातनसूत्रेण शतृवदित्यतिदेशादुगित्कार्यं नुम्()। सान्तमहत इति किम्()? बृहन्ति॥
बाल-मनोरमा
सान्त महतः संयोगस्य ३१५, ६।४।१०

सान्त महतः। "सर्वनामस्थाने चासंबुद्धौ इति, "नोपधाया" इति चानुवर्तते। "ने"ति लुप्तषष्ठीकं पदम्। "ढ्रलोपे पूर्वस्ये"त्यतो "दीर्घ" इत्यनुवर्तते। नकारस्य उपधाया दीर्घ इति लभ्यते। "संयोगस्ये"त्यवयवषष्ठ()न्तं नकारेऽन्वेति। "सान्ते"ति षष्ठ()न्तं पृथक्पदम्। आर्ष षष्ठ()आ लुक्। सान्तस्येति लभ्यते। तच्च संयोगेऽभेदेनान्वेति-सान्तो यः संयोग इति। अत एवाऽसामथ्र्यान्महच्छब्देन तस्य न समासः। "महत" इत्यप्यवयवषष्ठ()न्तम्। तच्च नकारेऽन्वेति। तदाह-सान्त-संयोगस्येत्यादिना। अजरांसीति। दीर्घे सति "नश्चपदान्तस्ये"त्यनुस्वारः। अत्र उपधाया इति पूर्वत्वमात्रोपलक्षणं, पारिभाषिकोपधात्वस्याऽसंभवात्। अथ द्वितीयैकवचने रूपं दर्शयितुमाह--अमि लुक इति। अजर अमिति स्थिते "स्वमोर्नपुंसका"दिति सुक् प्राप्तः, तं बाधित्वा तदपवादोऽतोमित्यम्भावः प्राप्तः, तं बाधित्वा "विप्रतिषेधे पर"मिति परत्वाज्जरस्। अजरसमिति। वस्तुस्थितिकथनमेतत्। ननु लुगपवादस्याऽम्भावस्य जरसादेशेन बाधितत्वात् "अपवादे निषिध्दे पुनरुत्सर्गस्य स्थिति"रिति न्यायेनाऽमो लुक्()कुतो न स्यादित्यत आह--तत इति। "ततो न लु"गित्यन्वयः। जरसादेशानन्तरममो लुङ्न भवतीत्यर्थः। कुत इत्यत आह--संनिपातेति। अम्संनिपातमाश्रित्य प्रवृत्तस्य जरसस्तल्लुकि निमित्तत्वाऽभावादिति भावः। शेषं पुंवत्। अजरसा-अजरेण। अजरसे-अजराय। अजरसः-अजरात्। अजरसः-अजरस्य। अजरसोःअजरयोः। अजरसि-अजरे। ह्मदयोदकास्यशब्दाः सुटि ज्ञानवत्। शसादौ विशेषमाह--पद्दन्निति। ह्मन्दीति। ह्मदयशब्दाच्छसः शिभावे ह्मदादेशे "नपुंसकस्य झलचः" इति ऋकारात् परतो नुमि "नश्चपदान्तस्ये"त्यनुस्वारे तस्य परसवर्णे नकारे रूपम्। इत्यादीति। ह्मदे। ह्मदः। ह्मदः। ह्मदोः। ह्मदाम्। ह्मदि। ह्मदोः। ह्मत्सु। ह्मदभावपक्षे ज्ञानवत्। उदकशब्दः सुटि ज्ञानवत्। शसादौ विशेषमाह--उदानीति। शसः शिभावे उदन्नादेशे "सर्वनामस्थाने चे"ति दीर्घः। "अल्लोपोऽन" इति तु न, शेः सर्वनामस्थानत्वात्। उद्नेति। उदक-आ इति स्थिते उदन्नादेशे अल्लोपः। उदभ्यामिति। उदन्नादेशे "न लोपः प्रातिपदिकान्तस्ये"ति नलोपः, "स्वादिष्वसर्वनामस्थाने" इति पदत्वात्। इत्यादीति। उद्गे। उद्गः। उद्गः। उद्गोः। उदनि--उद्गि। उद्गोः। उदन्नभावपक्षे ज्ञानवत्। आस्यशब्दः सुटि ज्ञानवत्। शसादौ विशेषमाह--आसानीत्यादि। उदन्नादेशवद्रूपाणि। इत्यादीति। आस्ने। आस्नः। आस्नः। आस्नोः। आस्नि-आसनि। आस्नोः। आससु। आसन्न-भावपक्षे ज्ञानवत्। मांसशब्दोऽपि सुटि ज्ञानवत्। "मांसपृतनासानूना"मिति शसादौ "मांस" आदेशः। अत्र नकारस्य "नश्चापदान्तस्ये"ति कृतानुस्वारस्य निर्देशः। अत एवाह--मान्भ्यामिति। मांस्(ादेशे सकारस्य संयोगान्तलोपे सति निमित्ताऽपायादनुस्वारनिवृत्तौ रूपम्। संयोगान्तलोपस्याऽसिद्धत्वान्न लोपो न। अथ सुठ()पि ह्मदाद्यादेशं साधयितुमाह--वस्तुतस्त्विति। इत्युक्तमिति। "ककुद्दोषणी" इति भाष्यप्रयोगात्प्रभृतिग्रहणस्य प्रकारार्थत्वमजन्तपुंलिङ्गाधिकारे स्वयमुक्तमित्यर्थः। ननु प्रभृतिग्रहणस्य प्रकारार्थत्वेऽपि प्रत्ययत्वेन सादृश्यविवक्षायां प्रथमैकवचने ह्मदिति प्रयोगोऽनुपपन्नः, सोर्लुका लुप्तत्वेन प्रत्ययलक्षणस्याप्यभावात्, तदनित्यत्वाश्रयणे च मानाऽभावादित्यत आह-एत एवेति। मांस्पचन्या इति। पच्यते अस्यामुखायामिति पचनी। अधिकरणे ल्युट्, अनादेशः। टित्त्वात् ङीप्। मांसस्य पचनीति षष्ठीसमासः। अत्र ङसो लुका लुप्तत्वात्प्रत्ययलक्षणाऽभावे प्रत्ययपरत्वाऽभावात् मांसादेशो न स्यात्। अतो ह्मदाद्यादेशविधौ "न लुमते"ति निषेधस्याऽनित्यत्वमाश्रीयत इत्यर्थः। ननु "मांस्पचन्या" इत्यत्र अन्तर्वर्तिनं ङसं लुप्तमाश्रित्य मांसित्यस्यास्ति पदत्वम्, "सुप्तिङ्न्त"मिति पदसंज्ञायाः प्रकृतिप्रत्ययधर्मत्वेन केवलाङ्गधर्मत्वाऽभावेनाऽत्र "न लुमते"ति निषेधस्याऽप्रवृत्तेः। अन्यथा "राजपुरुष" इत्यत्र कथं नलोपः?। ततश्चात्र संयोगान्तलोपो दुर्वार इत्यत्र आह--भत्वात्संयोगान्तलोपो नेति। ननु यजादिस्वादिप्रत्यये परे विधीयमानाया भसंज्ञायाः केवलाङ्गधर्मत्वात्तत्र लुका लुप्ते प्रत्ययलक्षणनिषेधात्कथमिह भसंज्ञेत्यत आह--अयस्मयादित्वेनेति। मांसादेशस्याऽयस्मयादिगणपठितत्वात् "अयस्मयादीनि छन्दसी"नि भत्वमित्यर्थः। ततश्च वैदिकप्रक्रियायामेव तदुपन्यासो युज्यत इत्याक्षेपः। परिहरति--तथापीति। "पद्दन्नो" इति सूत्रे छन्दोग्रहणानुवृत्तावपि लोकेऽपि क्वचिदित्यन्वयः। कुतो लोकेऽपि प्रयोग इत्यत आह--अपो भीत्यादीति। "अपो भी"ति सूत्रम्। अपस्तकारः स्याद्भादौ प्रत्ययपरे इत्यर्थः। तत्रास्ति वार्तिकं--"मासश्छन्दसी"ति। मासित्यस्य तकारः स्याद्भादिप्रत्यये परे छन्दसीति तदर्थः। ऋग्वेदे "माद्भिः शरद्भिः" इत्यादिमन्त्रमुदाहरणम्। यदि "पद्दन्नि"ति छन्दोमात्रविषयं स्यात्तदा मासित्यादेशस्य छन्दोमात्रविषयत्वादलौकिकत्वान्मासश्छन्दसीति सस्य तकारविधौ छन्दौग्रहणं व्यर्थं स्यात्। अतो लोकेऽपि क्वचिदिति कैयटोक्तरीत्या "पद्दन्नि"त्यस्य लोकेऽपि प्रवृत्तिमनुमत्य पदाद्यादेशाः प्रयोक्तुं योग्या इत्यर्थः। इत्यदन्ताः।

तत्त्व-बोधिनी
सान्त महतः संयोगस्य २७७, ६।४।१०

सान्त महतः। अत्र "नोपाधायाः""सर्वनामस्थाने चासंबुद्धा"वित्यनुवर्तते। "सान्ते"ति लुप्तषष्ठी कं "संयोगान्तस्ये"त्यनेन समानाधिकरणमिति व्याचष्टे----सान्तसंयोगस्येत्यादि। तस्योपधाया इति। तत्पूर्वस्येत्यर्थः। अमि लुकोऽपवादमित्यादि। एतेन "स्वमोरमादेशे एव कृते वा जर"सिति प्राचो ग्रन्थः प्रत्युक्तः। मांस्पचन्या इत। पच्यतेऽस्यामिति पचनी। "करणाधिकरणयोश्चे"ति ल्युट्। टित्त्वान्ङीप्ष मांसस्य पचनी मांस्पचनी। अत्र ङसो लुका लुप्तत्वात्प्रत्ययलक्षणं नेति प्रभृतिग्रहणस्य प्रकारार्थत्वं विना मांसशब्दस्य "मा"सित्यादेशो न सिध्येदिति भावः। ननु पृषोदरादिसूत्रे "मांसस्य पचि युङ्घञो"रिति वक्ष्यमाणत्वादन्तलोपेनाप्येतद्रूपं सिद्धमिति चेत्, अत्राहुः--"पृष्टोदरादीनि यथोपदिष्ट"मित्यस्योत्तरपदाधिकारस्थत्वाल्ल्युडन्तं यदुत्तरपदं "मांस्पचन"मित्यादि तत्रैबान्तलोपः स्यात्। अत्र हि ङूबन्तमुत्तरपदं न तु ल्युडन्तमिति नास्त्येबान्तलोप इति। मासश्छन्दसीति। "मास्शब्दस्य तकारः स्याद्भादौ प्रत्यये छन्दसी"ति वार्तिकार्थः। "माद्भिः शरद्भिः दुरोदरं तवे"त्युदाहरणम्।