पूर्वम्: ६।४।९९
अनन्तरम्: ६।४।१०१
 
सूत्रम्
घसिभसोर्हलि च॥ ६।४।१००
काशिका-वृत्तिः
घसिभसोर् हलि च ६।४।१००

घसि भस इत्येतयोः छन्दसि उपधाया लोपो भवति लहादौ अजादौ च क्गिति प्रत्यये परतः। सग्धिश्च मे सपीतिश्च मे। बब्धाम् ते हरी धानाः। सग्धिः इति अदेः क्तिनि बहुलं छन्दसि इति घस्लादेशे उपधायाः लोपे च कृते झलो झलि ८।२।२६ इति सकारलोपः। धत्वं तकारस्य, जश्त्वं घकारस्य। ततः समाना ग्धिः सग्धिः इति समासे कृते समानस्य सभावः। बब्धाम् इति भसेर् लोटि तामि श्लौ द्विर्वचने कृते उपधालोपसलोपधत्वजश्त्वानि कर्तव्यानि। द्विर्वचनात् परत्वान् नित्यत्वाच् च उपधालोपः प्राप्नोति, छान्दसत्वात् स तथा न क्रियते। अजादौ बप्सति। क्ङिति इत्येव, अंशून् बभस्ति।
न्यासः
घसिभसोर्हलि च। , ६।४।१००

"धत्वं तकारस्य" इति। "झषस्तथोर्धोऽधः" ८।२।४० इति। "जश्त्वं धकारस्य" इति। "झलां जश्? झशि" ८।४।५२ इति। "समासे कृते" इति। "पूर्वापरप्रथम" २।१।५७ इत्यादिना। "समानस्य सभावः" इति। "समानस्य च्छन्दसि" ६।३।८३ इत्यादिना। यदि द्विर्वचनात्पूर्वमुपधालोपः क्रियते, तदैकाच्त्वाभावाद्द्विर्वचनं न प्राप्नोति? इत्यत् आह--"छान्दसत्वात्()" इत्यादि। "बन्धाम्()" इति। छान्दसमेतत्()। तत्र "बहुलं छन्दसि" २।४।३९ इति वचनाद्बहुलं विषयो भवन्ति। तेन यद्यपि परत्वान्नित्यन्तावच्च द्विर्वचनात्? पूर्वमुपधालोपः प्रप्नोति, तथापि स तथा न क्रियते। द्विर्वचनात्? पूर्वं न क्रियत इति भावः। "बप्सति" इति। भसेः परस्य झेरदादेशः, शपः श्लुः, "श्लौ" ६।१।१० इति द्विर्वचनम्(), अभ्यासकार्यम्(), उपधालोपे कृते भकारस्य चत्र्वम्()--पकारः। "बस्ति" इति। तिपि रूपम्()॥