पूर्वम्: ६।४।१०२
अनन्तरम्: ६।४।१०४
 
सूत्रम्
अङितश्च॥ ६।४।१०३
काशिका-वृत्तिः
अङितश् च ६।४।१०३

अङितश्च हेर्धिरादेशो भवति। वा छन्दसि इति पित्वेनास्य अङित्त्वम्। सोमं रारन्द्H। असमभ्यं तद्धर्यश्व प्रयन्धि। युयोध्यस्मज्जुहुराणमेनः। अङितः इति किम्? ह्वयं प्रीणीहि। रारन्धि इति रमेर्व्यत्ययेन परस्मैपदम् , शपः श्लु, अभ्यासदीर्घत्वं छान्दसत्वात्। मलोपाभावस् तु अङित्त्वादेव। प्रयन्धि इति यमेः शपो लुक्। युयोधि इति यौतेः शपः श्लुः।
न्यासः
अङितश्च। , ६।४।१०३

"वा छन्दसि" इत्यादि। "सार्वधातुकमपित्()" १।२।४ इत्यपितः सार्वधातुकस्य ङित्त्वं विधीयते, छन्दसि विषये "वा छन्दसि" ३।४।८८ इत्यनेन हेर्यदपित्त्वं तद्विकल्प्यते। तेन पक्षे तस्य ङित्त्वं न भवति। अथ रारन्धीति कथं परस्मैपदम्(), यावता रमिरयमात्मत्मनेपदी? कथं वात्र शपः श्रवणं न भवति? कथञ्चाब्यासस्य दीर्घत्वम्(), कथञ्च "अनुदात्तोपदेश" (६।४।३७) इत्यादिना मकारलोपो न भवति? इत्याह--"रारन्धि" इत्यादि। "शपः श्लुः" इति ब्राउवामेन "श्लौ" ६।१।१० इति द्विर्वचनमित्युक्तं भवति। मकारलोपाभावस्त्वङित्त्वादे सिद्ध इति नासौ यत्नसाध्य इत्यभिप्रायः। "यमेः शपः" इति। "बहुलं छन्दसि २।४।७३ इत्यनेन। "योतेः शपः श्लुः" इति। "बहुलं छन्दसि" २।४।७६ इत्यनेन॥
बाल-मनोरमा
पादः पत् , ६।४।१०३

शसि विशेषमाह--पादः पत्। भस्य अङ्गस्येति चाधिकृतं प

शसि विशेषमाह--पादः पत्। भस्य अङ्गस्येति चाधिकृतं पाद इत्यनेन विशेष्यते। तदन्तविधिः। तदाह--पाच्छब्दान्तमिति। पाच्छब्दस्येति। पाच्छब्दान्तस्य विधीयमानो।ञपि पदादेशः "निर्दिश्यमानस्यादेशा भवन्ती"ति पाच्छब्दस्यैव सर्वादेशो भवति, न तु तदन्तस्येति भावः। इत्यादीति। सुपदे। सुपदः। सुपदः। सुपदोः २। सुपदि। इति दान्ताः। अथथान्ताः। अग्निमदिति। "मन्थ विलोडने" इति भ्वादौ। "मन्थ विलोडने" इति क्यादौ। उभाभ्यामपि क्विपि "अनिदिता"मिनि नलोपे अग्निमथिति रूपम्। ततः सुबुत्पत्तिः। सौ जश्त्वचर्त्वे इति भावः। भ्यामादौ जश्त्वेन थस्य दः। अग्निमद्भ्यामित्यादि। सुपि "खरि चे"ति चत्र्वम्, अग्निमत्सु। "मथे विलोडने" इत्यस्याप्येतदेव रूपम्। "मथिहिंसासंक्लेशनयोः" इति इदितस्तु नलोपाऽभावात् अग्निमन् अग्निमन्थावित्यादि। इति थान्ताः। अथ चान्ताः। ऋत्विगित्यादिसूत्रेणेति। प्र-अञ्चतीत्यर्थे "अञ्चु गतिपूजनयोः" इति गत्यर्थकाद्धातोर्नोपधात्क्विन्नित्यर्थः। पूजार्थस्य त्वग्रे वक्ष्यते। क्विनि "हलन्त्य"मिति नकार इत्। इकार उच्चारणार्थः। "लशक्वतद्धिते" इति ककार इत्। "वेरपृक्तस्ये"ति वकारलोपः।

तत्त्व-बोधिनी
पादः पत् ३६६, ६।४।१०३

पादऋ पत्। तदवयवस्येति। एतच्च "निर्दिस्यमानस्यादेशा भवन्ती"ति परिभाषया लभ्यते। इयं च परिभाषा "षष्ठीस्थानेयोगे"त्यनेन ज्ञापिता। तथाहि "अस्तेर्भूः""इको यणची"-त्यादौ सामीप्यादिसम्बन्धप्रसङ्गे[।पि]लक्ष्यानुरोधेन व्याख्यानादन्करङ्गत्वात् "स्थानिवदादेशः"इति ज्ञापकाच्च स्थानेयोगत्वे सिद्धेऽप्यारभ्यमाणेन "षष्ठीस्थानेयोगे"त्यनेन षष्ठ()न्कतमुच्चार्यमाणमेव स्थानेन युज्यते न तु प्रतीयमानमित्यर्थो लभ्यते। तथाच "निर्दिश्यमानस्यादेशा भवन्ती"ति सिद्धम्। "अलोऽन्त्यस्य""आदेः परस्ये"ति योगौ त्वारम्भसामथ्र्यान्निर्दिश्यमानपरिभाषाया बाधकौ, तेन "पुमः खय्यम्परे""उदः स्थास्तम्भो"रित्यादौ न दोष इति दिक्॥ इति दान्ताः। अग्निमदिति। मथ्नातेर्मन्थतेश्च क्विपि एतदेव रूपम्। इदितस्तु न नलोपाभावादिग्निमन्थौ। अग्निमन्थः॥ इति थान्ताः।