पूर्वम्: ६।४।१०६
अनन्तरम्: ६।४।१०८
 
प्रथमावृत्तिः

सूत्रम्॥ लोपश्चास्यान्यतरस्यां म्वोः॥ ६।४।१०७

पदच्छेदः॥ लोपः १।१ १०९ अस्य ६।१ अन्यतरस्याम् ७।१ म्वोः ७।२ १०८ उतः ५।१ १०६ प्रत्ययात् ५।१ १०६ असंयोगपूर्वात् ५।१ १०६ अङ्गस्य ६।१

समासः॥

मश्च वश्च म्वौ, तयोः, ॰ इतरेतरद्वन्द्वः॥

अर्थः॥

असंयोगपूर्वो योऽयमुकारस्तदन्तस्य प्रत्ययस्य लोपो भवति विकल्पेन, मकारादौ वकारादौ च प्रत्यये परतः॥

उदाहरणम्॥

सुन्वः, सुनुवः, तन्वः, तनुवः। सुन्मः, सुनुमः, तन्मः, तनुमः॥
काशिका-वृत्तिः
लोपश्चास्यान्यतरस्यां म्वोः ६।४।१०७

यो ऽयम् उकारो ऽसंयोगपूर्वः तदन्तस्य प्रत्ययस्य अन्यतरस्यां लोपो भवति वकारम् अकारादौ प्रत्यये परतः। सुन्वः, सुनुवः। सुन्मः, सुनुमः। तन्वः, तनुवः। तन्मः, अनुमः। प्रत्ययस्य इत्येव, युवः। युमः। असंयोगपूर्वस्य इत्येव, शक्नुवः। शक्नुमः। लुकिति वर्तमाने लोपग्रहणम् अन्त्यलोपार्थम्।
लघु-सिद्धान्त-कौमुदी
लोपश्चास्यान्यतरस्यां म्वोः ५०४, ६।४।१०७

असंयोगपूर्वस्य प्रत्ययोकारस्य लोपो वा म्वोः परयोः। शृण्वः, शृणुवः। शृण्मः, शृणुमः। शुश्राव। शुश्रुवतुः। शुश्रुवुः। शुश्रोथ। शुश्रुवथुः। शुश्रुव। शुश्राव, शुश्रव। शुश्रुव। शुश्रुम। श्रोता। श्रोष्यति। शृणोतु, शृणुतात्। शृणुताम्। शृण्वन्तु॥
न्यासः
लोपश्चास्यान्यतरस्यां म्वोः। , ६।४।१०७

"योऽयमुकारोऽसंयोगपूर्वः" इति। एतेनास्येत्यनेन प्रकृत उकारः प्रत्यवमृश्यत इति दर्शयति। ननु च "अतः" ६।४।१०६ इत्यनुवृत्तेरुकारस्यैव लोपो विज्ञास्यते, तत्किम्? "अस्य" इत्यनेन? षष्ठीप्रक्लृप्त्यर्थमस्येत्येतदिति चेत्()? न; "म्वोः" इत्येषैव हि सप्तम्यकृतार्था "उतः" इत्यस्याः पञ्चम्याः पूर्वयोगे कृतार्थायाः षष्ठीत्वं प्रकल्पयिष्यति, "तस्मिन्निति निर्दिष्टे पूर्वस्य" १।१।६५ इति वचनात्()। स्यादेतत्()। यदि "म्वोः" इत्येषा सप्तमी विज्ञायते, एतदेव तु न विज्ञायते--किमियं षष्ठी उत सप्तमीति? तस्मात्? षष्ठीप्रक्लृप्यर्थमस्येत्युक्तम्()। "लुगित्त्यनुवत्र्तमाने" इत्यादि। यदि प्रकृत एव लुक्? क्रियते तदा सर्वस्यैव प्रत्ययस्य लुक्? स्यात्(), नान्त्यस्य; यतः प्रत्ययादर्शनस्य लुगित्येषा संज्ञा विहिता, न तु प्रत्ययावयवस्यादर्शनस्य। सर्वस्य तु लुकि कृते "सुन्वः सुन्मः" इति न सिध्यति? लोपग्रहणाददोषः। तत्र ह्रुकारमात्रस्य लोपः "अलोऽन्त्यस्य" १।१।५१ इति वचनात्()। तस्मादन्त्यस्य लोपार्थं लोपग्रहणम्()। किञ्च कुर्वः कुमं इत्यत्र गुणो लुकि सति न स्यात्(); "न लुमताङ्गस्य" १।१।६२ इति प्रत्ययलक्षणाप्रतिषेधात्()। लोप#ए तु सति भवति। ततो गुणार्थमपि लोपग्रहणं कत्र्तव्यम्()॥
बाल-मनोरमा
लोपश्चास्यान्यतरस्यां म्वोः १७२, ६।४।१०७

लोपश्च। "उतश्च प्रत्ययादेसंयोगपूर्वा"दिति पूर्वसूत्रोक्त उकारोऽस्येत्यनेन परामृश्यते। प्रत्ययशब्दः प्रत्ययसंबन्धिनि वर्तते। असंयोगपूर्वात् प्रत्ययादिति च उकारे अन्वेति। स च अङ्गस्य विशेषणं। तदन्तविधिः। तदाह-- असंयोगेति। प्रत्ययोकारैति। प्रत्ययसंबन्धी उकार इत्यर्थः। "प्रत्यय--उकार" इति व्याख्याने तु सनुनुवः सुनुम इत्यत्र न स्यात्, तत्र श्नोरेव प्रत्ययत्वात्। प्रत्ययेति किम्?। युवः। युमः। असंयोगपूर्वादिति किम्?। शक्नुवः शक्नुमः। धिन्वः धिनुव इति। अत्र उप्रत्ययस्य उकारान्तत्वं व्यपदेशिवत्त्वेन बोध्यम्। नन्वेवं धिनोमीत्यत्र मिपि धिनु मि इति स्थिते उकारस्य लोपः स्यादित्यत आह-- मिपि त्विति। दिदिन्व। धिन्विता। धिन्विष्यति। धिनोतु।

तत्त्व-बोधिनी
लोपश्चान्यतरस्यां म्वोः १४६, ६।४।१०७

लोपश्चा। यः प्रत्ययोकार इति। असंयोगपूर्वो यः प्रत्यय इति प्रत्ययविशेषणं तु न कृतम्, अक्ष्णुवः अक्ष्णुम इत्यादावनिष्टाऽभावेऽपि अश्नुवहे इत्यादावतिप्रसङ्गात्। एवम् "उतश्चे"ति सूत्रेऽपि "अक्ष्णुही"त्यत्र दोषाऽभावेऽपि अश्नुहीत्यत्रातिप्रसङ्गः स्यादित्यसंयोगपूर्वेति प्रत्ययविशेषणं तु कृतमत्याहुः। "अश्नुही"ति परस्मपैदं यद्यपि लोके दुर्लभं, तथापि वेदाभिप्रायेण तत्प्रयोगस्य साधुत्वं बोध्यम्। "आप्नुहीटति पाठस्तूतिः।