पूर्वम्: ६।४।११०
अनन्तरम्: ६।४।११२
 
सूत्रम्
श्नसोरल्लोपः॥ ६।४।१११
काशिका-वृत्तिः
श्नसोरल्लोपः ६।४।१११

श्नस्य अस्तेश्च अकारस्य लोपो भवति सार्वधातुके क्ङिति परतः। रुन्धः। रुन्धन्ति। भिन्तः। भिन्दन्ति। अस्तेः स्तः। सन्ति। क्ङिति इत्येव भिनत्ति। अस्ति। श्नसोः इति आकारस्य पररूपत्वं शकन्ध्वादिसु द्रष्टव्यम्।
लघु-सिद्धान्त-कौमुदी
श्नसोरल्लोपः ५७७, ६।४।१११

श्नस्यास्तेश्चातो लोपः सार्वधातुके क्ङिति। स्तः। सन्ति। असि। स्थः। स्थ। अस्मि। स्वः। स्मः।
न्यासः
श्नसोरल्लोपः। , ६।४।१११

"रुन्धः" इति। "झषस्तथोर्धोऽधः" ८।२।४० इति तकारस्य धकारः। "स्तः" इति। अदादित्वाच्छपो लुक्()। अथ श्नसोरिति कोऽयं निर्देशः, यावता "अकः सवर्णे दीर्घः" (६।१।१०१) इति दीर्घत्वे कृते "श्नसोः" इति निर्देशेन भवितव्यम्()? इत्याह--"श्नसोरित्याकारस्य पररूपत्वम्()" इत्यादि। अत्र तपरकरणं किमर्थम्(), आस्ताम्(), आसन्नित्यत्राडागमस्य मा भूदिति चेत्()? नैतदस्ति; इह हि लङि कृते लावस्थायामाडागमात्पूर्वमन्तरङ्गत्वाल्लादेशः क्रियते। तत्र कृते विकरणः कृताकृतप्रसाङ्गित्वादाडागमं बाधते। आडागमस्य त्वशब्दान्तरप्राप्तेरनित्यत्वम्()। तथा हि कृते विकरणे विकरणान्तस्याङ्गस्य तेन भवितव्यम्(), अकृते धातुमात्रस्य। कृते विकरणे यद्यप्याडागमाकारलोपयोद्र्वयोरपि कृताकृतप्रसङ्गित्वेन नित्यत्वम्(), तथापि परत्वादकारलोपः क्रियते, तस्मिन्? कृते तस्यासिद्धत्वादाट्(), तस्यासिद्धत्वादेव च लोपो न भविष्यतीति किं तपरकरणेन? एवं तह्र्रेतज्ज्ञापयति--"आबाच्छास्त्रीयमसिद्धत्वमनित्यम्()" इति। तेन "वुग्युटावुवङयणोः सिद्धौ भवतः" इत्येतद्वक्तव्यं न वक्तव्यं भवति
बाल-मनोरमा
श्नसोरल्लोपः ३००, ६।४।१११

श्नसोरल्लोपः। "अ"दिति लुप्तष्ठीकं पदम्। श्न अस् अनयोद्र्वन्द्वात्षष्ठीद्विवचनम्। शकन्ध्वादित्वात् पररूपम्। श्नेति श्नम्प्रत्ययैकदेशनिर्देशः। "अत उत्सार्वधातुके" इत्यतः सार्वधातुके इत्यनुवर्तते, "गगमहने"त्यतः क्ङितीति। तदाह--श्नस्येत्यादिना।

तत्त्व-बोधिनी
श्नसोरल्लोपः २६०, ६।४।१११

श्नसोरल्लोपः। "अत उ" दिति सूत्रादत इत्यनुवत्र्याऽद्ग्रहणं त्यक्तुं शक्यमित्याहुः। श्नसोरिति। शकन्ध्वादित्वात्पररूपमित्याह-- श्नस्याऽस्तेश्चेति। श्नस्योदाहरणं [रुन्धः]। रुन्धन्तीत्यादि। क्ङिति किम्?। रुणद्धि। अस्ति। तपरकरणमास्तामासन्नित्यत्र ह्राडागमे कृते तस्य लोपो माभूदित्येतदर्थम्। निष्कर्षस्तु अनुपदं स्फुटीभविष्यति।