पूर्वम्: ६।४।११२
अनन्तरम्: ६।४।११४
 
सूत्रम्
ई हल्यघोः॥ ६।४।११३
काशिका-वृत्तिः
ई हल्यधोः ६।४।११३

श्नान्तानाम् अङ्गानाम् अभ्यस्तानां च घुवर्जितानाम् आतः ईकारादेशो भवति हलादौ सार्वधातुके क्ङिति परतः। लुनीतः। पुनीतः। लुनीथः। पुनीथः। लुनीते। पुनीते। अभ्यस्तानाम् मिमीते। मिमीषे। मिमीध्वे। संजिहीते। संजिहीषे। संजिहीध्वे। हलि इति किम्? लुनन्ति। मिमते। अघोः इति किम्? दत्तः। धत्तः। क्ङिति इत्येव, लुनाति। जहाति।
लघु-सिद्धान्त-कौमुदी
ई हल्यघोः ६२१, ६।४।११३

श्नाभ्यस्तयोरात ईत् स्यात् सार्वधातुके क्ङिति हलादौ न तु घोः। जहीतः॥
न्यासः
ई हल्यघोः। , ६।४।११३

"लुनीतः, पुनीतः; "लुनीथ, पुनीथ" इति। तस्थसौ। "मिमीते" इति। आत्मनेपदैकवचनम्()। "मिमीषे" इति। "थासः स" ३।४।८०। "मिमीध्वम्()" इति। ध्वम्()। "लुनन्ति, पुनन्ति" इति। झिप्रत्ययः। ननु च यद्यप्यजादावपीत्त्वं स्यात्(), लोपोऽनवकाशः स्यात्? अतोऽनवकाशत्वाल्लोप ईत्त्वं बाधिध्यते, तत्? किं "हलि" इत्यनेन? नैतदस्ति; असति हल्ग्रहणे वचनादुभयं स्यात्()। घुसंज्ञकेष्वाल्लोपः प्रसज्येत। तस्मात्? "हलि" इति वक्तव्यम्()। "दत्त्#H" इति। "खरि च" ८।४।५४ इति चत्त्र्वम्()। "धत्तः" इति। धाञो द्विर्वचने कृते "अभ्यासे चर्च्च" ८।४।५३ इत्यभ्यासस्य जशत्वे च "दधस्तथोश्च" ८।२।३८ इति भष्भावेन दकारस्य धकारः, धातोस्त्वाकारलोपे कृते जश्त्वचर्त्त्वे॥
बाल-मनोरमा
ई हल्यघोः ३२७, ६।४।११३

ई हल्यघोः। "ई" इति लुप्तप्रथमाकम्। "श्नाब्यस्तयोरातः" इत्यनुवर्तते। "गमहने"त्यतः क्ङितीति, "अत उत्सार्वधातुके" इत्तः सार्वधातुके इत्यतः सार्वधातुके इति चानुवर्तते। तदाह-- श्नाभ्यस्तयोरित्यादिना। आल्लोप इति। "अजादौ क्ङिति सार्वधातुके" इति शेषः। मिमते इति। अभ्यस्तत्वाददादेशः। मिमीषे मिमाथे मिमीध्वे। मिमे मिमीवहे मिमीमहे। ममे ममाते ममिरे। ममिषे ममाथे ममिद्वे। ममे ममिवहे ममिमहे। माता। मास्यते। मिमीताम् मिमाताम् मिमतात्। मिमीष्व मिमाथाम् मिमीध्वम्। मिमै मिमावहै मिमामहै। अमिमीत अमिमाताम् अमिमत। अमिमीथाः अमिमाताम् अमिमीध्वम्। अमिमि अमिमीवहि अमिमीमहि। मिमीत मिमीयाताम् मिमीरन्। मिमीथाः। मिमीयाथाम् मिमीध्वम्। मिमीय मिमीवहि मिमीमहि। मासीष्ट। अमास्त अमासाताम् अमासत। अमास्थाः अमासाथाम् अमाध्वम्। अमासि अमास्वहि अमास्महि। अमास्यत। ओ हाङ्गातविति। अनिट्। ओकारः ककारश्च इत्। जहातीति। श्लौ द्वित्वे अभ्यासचुत्वमिति भावः। तसादौ "श्नाभ्यस्तयोरातः" इति नित्यमीत्त्वे प्राप्ते--

तत्त्व-बोधिनी
ई हल्यघोः २८३, ६।४।११३

ई हल्यघोः। श्नाभ्यस्तयोरिति। लुनीते। पुनीते। क्ङितीति किम्?। लुनति। अघोः किम?। धत्तः। दत्तः। मिमीते इति। "घुमास्थे"तीत्त्वमिह न प्रवर्तते, तत्राद्र्धधातुक इत्यनुववृत्तेः। अन्यथा मातः माथः, गाते गासे इत्यादावतिप्रसङ्गात्। अत एव काशिकायामुक्तमाद्र्धधातुक इत्यधिकारो न ल्यपीति योगं यावदिति।