पूर्वम्: ६।४।११
अनन्तरम्: ६।४।१३
 
सूत्रम्
इन्हन्पूषार्यम्णां शौ॥ ६।४।१२
काशिका-वृत्तिः
इन्हन्पूषार्यम्णां शौ ६।४।१२

इन् हन् पूषनर्यमनित्येवम् अन्तानाम् अङ्गानां शौ परत उपधाया दीर्घो भवति। बहुदण्डीनि। बहुच्छत्रीणि। बहुवृत्रहाणि। बहुभ्रूणहानि। बहुपूषाणि। बह्वर्यमाणि। सिद्धे सत्यारम्भो नियमार्थः, इन्हन्पूषार्यम्णाम् उपधायः शावेव दीर्घो भवति न अन्यत्र। दण्डिनौ। छत्रिणौ। वृत्रहणौ। पूषणौ। अर्यमणौ। दीर्घविधिर्य इहेन्प्रभृतीनां तं विनियम्य सुटीति सुविद्वान्। शौ नियमं पुनरेव विदध्यात् भ्रूणहनीति तथास्य न दुष्येत्। शास्मि निवर्त्य सुटीत्यविशेषे शौ नियमं कुरु वाप्यसमीक्ष्य। दीर्घविधेरुपधानियमान्मे हन्त यि दीर्घविधौ च न दोषः। सुट्यपि वा प्रकृते ऽनवकाशः शौ नियमो ऽप्रकृतप्रतिषेधे। यस्य हि शौ नियमः सुटि नैतत्तेन न तत्र भवेद्विनियम्यम्। हन्तेः अनुनासिकस्य क्विझलोः क्ङिति २।४।१५ इति दीर्घत्वं यत् तदपि नियमेन बाध्यते वृत्रहणि, भ्रूणहनि इति। कथम्? योगविभागः क्रियते। इन्हन्पूषार्यम्णाम् सर्वनामस्थाने एव दीर्घो भवति, न अन्यत्र इति। ततः शौ इति द्वितीयो नियमः। शौ एव सर्वनामस्थाने दीर्घो भवति न अन्यत्र इति। सर्वस्य उपधालक्षणस्य दीर्घस्य नियमेन निवृत्तिः क्रियते। यस् तु न उपधालक्षणः स भवत्येव। वृत्रहायते। भ्रूणहायते। अथ व अनुवर्तमाने ऽपि सर्वनामस्थानग्रहणे सामर्थ्यादयम् अविशेषेण नियमः। शिशब्दो हि सर्वनामस्थाऽं नपुंसकस्य, न च तस्य अन्यत् सर्वनामस्थानम् अस्ति इत्यविशेषेण नियमः। तत्र तु नपुंसकस्य इत्येतन् न अश्रीयते। तेन अनपुंसकस्य अपि दीर्घो न भवति। सर्वनामस्थानसंज्ञाविधाने तु नपुंसकस्य व्यापारो ऽस्ति इति तत्र नियमः क्रियमणो नपुंसकस्य स्यात्।
लघु-सिद्धान्त-कौमुदी
इन्हन्पूषार्यम्णां शौ २८६, ६।४।१२

एषां शावेवोपधाया दीर्घो नान्यत्र। इति निषेधे प्राप्ते -।
न्यासः
इन्हन्पूषार्यम्णां शौ। , ६।४।१२

"अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति" (व्या।प।१२९) इतीन्ग्रहणेन तदन्तं गृह्रते। इतरेभ्योऽपि केवलेभ्यः शिनं भवतीति। तथा हि--हन्निति हन्तेः क्यिबन्तस्येदं ग्रहणम्(), न च केवलस्य हन्तेः क्विब्दृश्यते। इतरौ तु पुंल्लिङ्गौ। नपुंसकादुत्तरयोः जस्शसोः शिर्विधीयते। तस्मात्? तैरपि सामर्थात्तदन्तविधिर्विज्ञायत इत्याह--"इन्(), हन्(), पूषन्(), अर्यमन्? इत्येवमन्तानामङ्गानाम्()" इति। "बहुदण्डीनि" इति। दण्ड एषामस्तीति मत्वर्थीय इनिः, बहवो दण्डिनः एषां सन्तीति बहुव्रीहिः, ततो जश्शसौ, तयोश्च पूर्ववच्छिभावः, अनेन दीर्घत्वम्()। ननु चेन्नितिप्रत्ययग्रहणम्(), तत्र "प्रत्ययग्रहणे यस्मात्? स विहितस्तदादेसतदन्तस्य च ग्रहणं भवति" (भो।प।सू।७) इति दण्डिनीत्यत्रैव दीर्घत्वेन भवितव्यम्(), न तु बहुदण्डीनीत्यत्र? नेतदस्ति; यत्र हि प्रत्यस्यैव ग्रहणं तत्रैवेयं परिभाषा, नेदं प्रत्ययस्यैव ग्रहणम्(), अपि तु प्रस्ययाप्रत्यययोः; अन्यथा वाच एषां सन्तीति "वाचो ग्मिनः" ५।२।१२३ वाग्()मीनि, रुआज एषां सन्तीति "अस्मायामेधारुआजो विनिः" ५।२।१२० "रुआग्विणीत्येवमादौ न स्यात्()। तस्मान्नात्रासौ परिभाषोपतिष्ठते। "बहुबृत्रहाणि" इति। बृत्रं हतवन्तः "ब्राहमभ्रुणवृत्रेषु क्विप्()" ३।२।८७ बहवो वृत्रहणो येषु तानि बहुवृत्रहाणि। "प्रातपदिकान्तनुम्विभाक्तिषु च ८।४।११ इति णत्वम्()। बहवः पूषणो येषु तानिबहुपूषाणि। बहवोऽर्यमणो येषु तानि बह्वर्यमाणि। ननु "सर्वनामस्थाने चासम्बुद्धौ" ६।४।८ इत्यनेन दीर्घत्वं सिद्धम्(), तत्? किमर्थोऽयमारम्भः? इत्यत आह--"सिद्धे सत्यारम्भः" इत्यादि। युक्तोऽसय नियमार्थः आरम्भः, किन्त्वारभ्यमाणेऽप्येतस्मिन्? नियमर्थे भ्रूणहनीत्यत्र "अनुनासिकस्य क्विझलोः क्ङिति" ६।४।१५ इति दीर्घत्वं प्राप्नोत्येव, तथा ह्रयं शौ सर्वनामस्थाने नियम आरभ्यते। अत्र यथा विशिष्टायाः प्रकृतेर्नियम आरभ्यमाणः प्रकृत्यन्तरस्य न भवति--प्रतामौ, प्रताम इति, तथा सर्वनामसंज्ञाविशिष्टे शित्प्रत्यय आरभ्यमाणः सर्वनामस्थान एव स्यात्(), अन्यत्र न स्यात्(); तुल्यजातीयापेक्षत्वान्नियमस्य। ततश्चासरवनामस्थाने नियमाभावाद्दीर्घत्वं स्यादेवेत्यत आह--"दीर्घविधिः" इत्यादि श्लोकम्()। य इह शास्त्र इन्नन्तादीनां दीर्घत्विवधानं तं विनियम्य तस्य नियमं कृत्वा। कव विनियम्य? सुटि। सर्वनामस्थानोपलक्षणमेतत्? सङ्ग्रहणम्()। सर्वनामस्थान इत्यर्थः। ततः किं कुर्यात्()? इत्यत आह--"शौ नियमम्()" इत्यादि। सर्वनामस्थाने नियमं कृत्वा पुनः शौ नियमं कुर्यात्()। एवकारोऽवधारणार्थः, स तु भिन्नक्रमः, विदध्यादित्यस्यानन्तरं द्रष्टव्यः सुविद्धान्()=सुपण्डितः। कथं पुनरेकेन योगेन द्वौ नियमौ शक्येते कर्त्तुम्? एवं मन्यते--इमं योगं विभज्य द्वौ योगौ कत्र्तव्याविति। "इन्हन्पूषार्यम्णाम्()" इत्येको योगः, ततः "शौ" इति द्वितीयः। सर्वनामग्रहणं चात्रानुवत्र्तते। तत्र पूर्वयोगः--दर्घविधिर्य इहेन्प्रभृतीनां तं विधिं विनियम्य सुटीत्यनेन दर्शितः। द्वितीयस्तु "शौ नियमं पुनरेव विदध्यात्()" इत्यनेन। तत्र पूर्वेण योगेन दीर्घत्वं भवेत्()। "सर्वनामस्थाने चासम्बुद्धौ" ६।४।८ इत्यनेन "अनुनासिकस्य क्विझलोः क्ङिति" ६।४।१५ इत्यनेन वा दीर्घत्वं विनियम्यते--इन्प्रभृतीनां सर्वनामस्थान एव दीर्घत्वम्(), नान्यत्र। तेन सप्तम्यां दीर्घो न भवति--वृत्रहणि, भ्रूणहनीत्यत्र। द्वितीयेन तु शौ नियम्यते, तत्रापि सर्वनामस्थाने शावेव दीर्घो भवति, नान्यत्रेति। तेन बहुवृत्रहाणीत्यत्र भवति, वृत्रहण इत्यत्र न भवति। एवं योगद्वयेन नियमद्वये क्रियमाणे सति योऽर्थः सम्पद्यते तं दर्शयितुमाह--"भ्रूणहनि" इति। "तथास्य न दुष्येत्()" इति। तथैवं योगद्वये कृतेऽस्य पाणिनेः भ्रूणहनीत्येतच्छब्दरूपं नैव दुष्येन्नासिद्धत्वदोषवद्भववतीत्यर्थः। इतिकरणो हेतौ। यस्मादेवं योगद्वयेन नियमद्वये क्रियमाणे भ्रूणहनीत्येतन्न दुष्येत; तस्माद्दीर्घविधिर्य इहेन्प्रभृतीनां तं विनियम्य सुटि शौ नियमं सुविद्धान्? पुनर्विदध्यात्()। द्वितीयस्त्वितिकरणो भ्रूणहनीत्येतस्य स्वरूपपदार्थकतां द्योतयति। एवं योगद्वयेन भ्रूणहनीत्यत्र दीर्घत्वं परिह्मत्यैकस्मिन्? योगे परिहर्त्तुमाह--"शास्मि" इत्यादि। शास्मि=उपदशामि तमपरमुपायम्(), येनैकस्मिन्? योगे सति भ्रूणहनौ, भ्रूणहन इति न दुष्यति। नापि भ्रूणहनीत्येतत्()। कः पुनरसावुपायः? इत्याह--"निवर्त्त्य" इत्यादि। सुटीत्येकयोगेन सर्वनामस्थानं लक्ष्यते। "सर्वनामस्थाने" इति यदेतत्प्रकृतं तं निवर्त्त्य। "अविशेषे" इति। नास्य विशेषो विद्यत इत्यविशेषः; तस्मिन्नविशेषे=अनाश्रितविशेषे प्रत्ययमात्रे शौ इत्येवं तं नियमं कुरु। एवं वा नियमं कुर्वित्यर्थः। वाशब्दः पक्षान्तरत्वमस्य परीहारस्य द्योतयति। अपिशब्दो भ्रूणहनीत्यत्रापि पक्षान्तर आश्रीयमाणे न दुष्यति? शावेव दीर्घत्वस्य नियतत्वात्()। इन्प्रभृतोनां यदि दीर्घत्वं भवति तदा शावेव प्रत्यये, नान्यत्रेति। निवर्त्त्य सुटीत्यनेन शास्त्रीयस्याधिकारस्य निवृत्तिर्दर्शिता। निवृत्ते तु तस्मिन्? यदि लौकिकोऽधिकारोऽपेक्षालक्षण आश्रीयते तदा पूर्ववत्? भ्रूणहनीत्यत्र स्यादेव दीर्घत्वम्()। अतो लौकिकाधारनिरासायाह--"असमीक्ष्य" इति। सुटीत्यनेनास्य सम्बन्ध-। सर्वनामस्थानमपेक्ष्येत्यरेथः। एवं सर्वनामस्थानग्रहणनिवृत्तेऽनपेक्षिते च प्रत्ययमात्रापेक्षया शावित्ययं नियमः प्रत्ययमात्रं नियमयति, न तु तुल्यजातीयं सर्वनामस्थानमेव। तेन न केवलमन्यत्र सर्वनामस्थाने दीर्घो न भवति, अपि तु भ्रूणहनीत्यत्रापि। यदि तर्हि प्रत्ययमाश्रित्य सर्वनामस्थानविषयमनपेक्ष्य शौ नियमः, एवं हि सति दीर्घत्वस्य शावेव नियतत्वाद्यथा भ्रूणहनीत्यत्र न भवतिष तथाचारे क्यङ्यपि "अकृत्सार्वधातुकयोर्दीर्घः" ७।४।२५ इति दीर्घत्वं न स्यात्, ततश्च भ्रूणहेवाचरतीति "कर्त्तुः क्यङ्? सलोपश्च" ३।१।११ इति क्यङि विहिते भ्रूणहयत इत्यनिष्टं रूपमापद्येतेत्यत आह--"दीर्घविधेः" इत्यादि। "नोपधायाः" ६।४।७ इत्यत उपधाग्रहणमनुवत्र्तते, तेन न सर्वस्य दीर्घविधेरयं नियमः, अपि तूपधादीर्घविधेः। न च "अकृत्सार्वधातुकयोः" ७।४।२५ इत्युपधादीर्घविधिः, किं तर्हि? अजन्तदीर्घविधिः। तस्मादयमत्र प्रवत्र्तत एव। हन्त! "यि दीर्घविधौ च न दोषः" इति। यकारादौ प्रत्यये क्पङि दोषो न भवतीत्यर्थः। हन्तेति निपातो वचनारम्भेऽभिमुखीकरणे वा वत्र्तते। अन्ये तु "हन्तयि दीर्घविधौ च न दोषः" इति पठन्ति। त एवं व्याचक्षते--हन्तर्यो हन्तियः, "पञ्चमी" २।१।३६ इति योगविभागात्समासः, तस्मिन्? हन्तियि। सप्तम्येकवचनमेतत्()। हन्तेर्धातोर्यकारादिर्यः प्रत्य इति। तत्र दीर्घविधौ न दोषः। चकारः पूर्वत्र परीहारे वक्ष्यमाणे च। अत एवोपधानियमाद्धन्तेर्यकारादौ प्रत्यये न दोष इत्यस्यार्थस्य द्योतनाय। सम्प्रति सर्वनामस्थानग्रहणेऽनुवत्र्तमाने, असति च योगविभागे भ्रूणहनीत्यत्र यथा दीर्घत्वं न भवति तथा तद्दर्शयितुमाह--"सुट()पि वा" इत्यादि। वाशब्दोऽत्र पक्षान्तरं द्योतयति। अपिशब्दो भिन्नक्रमः "अप्रकृतप्रतिषेधे" इत्यस्यानन्तरं द्रष्टव्यः। अत्रापि सुटीत्येतत्? सर्वनामस्थानोपलक्षणार्थं वेदितव्यम्()। नास्य विद्यतेऽवकाशः। व्यावृत्तिविषयो व्यवच्छेद्य इत्यनवकाशः। प्रकृतात्? सर्वनामस्थानदन्यदप्रकृतम्()। सर्वनासस्थानव्यतिरिक्तं प्रत्ययान्तरमप्रकृतम्(), तत्र दीर्घत्वस्य प्रतिषेधोऽप्रकृतप्रतिषेधः। अप्रकृते प्रतिषेधोऽप्रकृतप्रतिषेधः। "सप्तमी" २।१।३९ इति योगविभागात्समासः। "अप्रकृतप्रतिषेधे" इति। विषयसप्तमीयम्()। अयं तादत्? पूर्वार्धस्यावयवार्थः। समुदायार्थस्तूच्यते--अथ वाऽनुवत्र्तमानेऽपि सर्वनामस्थानग्रहणे तत्र शावित्यस्य नियमस्य किञ्चिद्व्यावत्त्यमस्तीत्यनवकाशः सन्? सामथ्र्याद कृतप्रतिषेधेऽपि कत्र्तव्यता विषयभूते प्रवत्र्तते=व्याप्रियते। अपिशब्दादन्यत्रापि सर्वनामस्थाने। कथं पुनरवकाशः? इत्याह--"यस्य हि" इत्यादि। यस्येति शावित्यपेक्षया षष्ठी। हिशब्दो यस्मादर्थे। द्विविधं हि सर्वनामस्थानम्()--स#उट्(), शिश्च। तयोः पूर्वं स्त्रीपुंसयोः सम्बन्धि, न नपुंसकस्य; "सुडनपुंसकस्य" १।१।४२ इति वचनात्()। इतरत्? पुनर्नपुंसकस्य; तत एव तस्य विधानात्()। तत्र यत्सम्बन्धिनि शौ सर्वनामस्थाने शावित्ययं नियमः क्रियते, सुटि नैतत्()। सुटि सर्वनामस्थाने परतस्तन्नपुंसकं न भवतीत्यर्थः। अनेन सुटः सर्वनामस्थानस्यानपुंसकसम्बन्धित्वमाख्यातम्()। तेन न तत्र भवेद्विनियम्यम्()। यस्मादेव सुट्? सर्वनामस्थानं नपुंसकस्य सम्बन्धि न भवति, तेन कारणेन तत्रानपुंसकसम्बन्धिनि सर्वनामस्थाने शावित्यस्य नियमस्य विनियम्यं व्यावत्त्यं नास्तीति नपुंसकसम्बन्धिनि हि क्रियमाणो नियमो युक्तः। अनपुंसकसम्बन्धिन्येवास्मिन्? सर्वनामस्थाने तुल्यजातीये निवृतिं()त कुर्यात्()। न च शिव्यतिरिक्तं नपुंसकसम्बन्धि सर्वनामस्थानमस्ति, ततो नास्ति तुल्यजातीये व्यावर्त्त्यम्()। शौ नियमस्येति तस्यानवकाशत्वम्()। तस्मादप्रकृतप्रतिषेधेऽपि व्याप्रियते। "हन्तेरनुनासिकस्य" इत्यादिना कारिकात्रयस्यापि यथाप्रधानमर्थमाचष्टे। तत्र हन्तेरनुनासिकस्येत्यादिना "भ्रूणहनीति तथास्य न दुष्येत्()" इत्यस्यार्थ आख्यातः। "योगविभागः" इत्यादिना "दीर्घविधिर्य इहेन्प्रभृतीनां तं विनियम्य सुटि" इत्यस्य। "ततः" इत्यादिना "शौ नियमं पुनरेव विदध्यात्()" इत्यस्य। "सर्वनामस्थान" इत्यादिना द्वितीयश्लोकपूर्वार्धस्य। "यस्तु" इत्यादिनोत्तरार्धस्य। "अथ वा" इत्यादिना "सुट()पि वा प्रकृतेरनवकाशः" इत्यस्य। "सामथ्र्यात्()" इति। सामथ्र्याम्()नवकाशत्वम्()। "अविशेषेण नियमः" इत्यनेन "शौ नियमोऽप्रकृतप्रतिषेधे" इत्यसय। अविशेषेणेति सामान्येन, न प्रकृत एव, अपि तु प्रत्ययमात्र इत्यर्थः। यस्त्वप्रकृतपरतिषेधारथतामेवास्य नियमस्य व्याचष्टे तस्यैव तद्वचनमविशेषेणेत्यनेन वृत्तिकारवचनेन विरुध्यते। एवं ह्रविशेषेण नियमो भवति यदि सर्वत्र प्रकृते चाप्रकृते च प्रत्ययमात्रे भवति। अथ तु प्रकृतं परितयज्याप्रकृत एव स्यात्? ततो विशेषेणैव स्यात्(), नाविशेषेण। अविशेषेण वास्मिन्नियमे सत्यनेनैव सर्वत्र दीर्घत्वस्य निवर्त्तितत्वात्? "सौ च" ६।४।१३ इत्ययं योगो विध्यर्थो वेदितव्यः। सामथ्र्यादविशेषेण नियम इत्युक्तम्()। अतस्तत्सामथ्र्यं दर्शयन्? "शिशब्दे हि" इत्यादिना "यस्य हि शौ नियमः" इत्यस्यार्थमाचष्टे। यत्र शिशब्दे नियमः क्रियते स यस्मान्नपुंसकस्य सर्वनामस्थानं न स्त्रीपुंसयोः; नपुंसकादुत्तरयोर्जश्शसोः व्यादेशस्य विधानात्()। "न च तस्यान्यत्? सर्वनामस्थानमस्ति" इति। अनेन सुटः सर्वनामस्थानस्य नपुंसकसम्बन्धित्वं दर्शयति। इतिकरणो हेतौ। यत एवं नियमो विधीयते नपुंसकसम्बन्ध#इनि शौ सर्वनामस्थाने तज्जातीयमन्यत्? सर्वनामस्थानं हि नास्ति। तस्मात्? तुल्यजातीयव्यवचछेद्यस्यासम्भवादविशेषेम नियमः। "तत्र तु" इत्यादि। तुशब्दोऽवधारणार्थो भिन्नक्रमश्च नेत्यस्यानन्तरं द्रष्टव्यः। तत्रैतस्मिन्नियमे क्रियमाण इन्नादीनां नपुंसकस्येत्येतद्विशेषणं नैवाश्रीयते। अनाश्रीयमाणे च तस्मिन्नेषोऽर्थः सम्पद्यते--इन्नादीनां शावेव दीर्घो भवति, नान्यत्रेति। तेनानपुंसकस्यापि भ्रूणहनीत्यत्र नियमेन व्यावर्त्तितत्वाद्दीर्घो न भवति। यदि नपुंसकस्येत्येतद्विशेषमं तेषामाश्रीयते, ततोऽयमर्थः स्यात्()--इन्प्रभृतीनां नपुंसकानां शावेव दीर्घो भवति, नान्यत्रेति। ततश्च नपुंसक एव नियमः स्यात्()। तत्र को दोषः? भ्रूणहनि ब्राआहृणकुले इत्यत्रैव दीर्घनिवृत्तिः स्यात्(), भ्रूणहनि ब्राआहृणे इत्यत्र न स्यात्()। तस्मात्? तद्दोषपरिजिहीर्षया नपुंसकस्येत्येतद्विशेषणं नाश्रीयते। यद्येवम्(), यदुक्तम्()--"अनवकाशः शौ नियमः" इति, तन्नोपपद्यते, अनाश्रिते ह्रेतस्मिन्? विशेषणे तेषामनाश्रितविशेषणानां नपुंसकानामनपुंसकाताञ्च सम्बन्धिनि शौ सर्वनामस्थाने नियमः स्यात्(), तथाभूतानाञ्च तेषामन्यदपि सुट्सर्वनामस्थानमस्त्येव, ततश्च तुल्यजातीयवयवच्छेदविषये सति कुतो नियमस्यानवकाशत्वम्()? नैतदस्ति; नियमविधानवेलायां तेषां नपुंसकत्वं विशेषणं यद्यपि नाश्रीयत#ए, तथापि तेषां नपुंसकादेव शेर्विधानान्नपुंसकस्य निमित्तभावः, शेस्तु निमित्तिभाव इति निमित्तनिमित्तिभावलक्षणेन सम्बन्धेन शेः सर्वनामस्थानस्य नपुंसकसम्बन्धित्वं विद्यत एव। न चान्यन्नपुंसकसम्बन्धि सरवनामस्थानं विद्यत इत्युपपन्नमेतत्()--अनवकाशः शौ नियम इति। ननु चात्र नपुंसकस्येति न प्रकृतम्(), नाप्युपात्तम्(), ततश्च तदाश्रयणशङ्का नास्त्येवेति तन्निवृत्तये न युक्तमिदम्(), तत्र तु "नपुंसकस्य" इत्येतन्नाश्रीयते? इत्यत आह--"सर्वनामस्थानसंज्ञाविधाने तु" इत्यादि। तुशब्दो हेतौ। यतो नपुंसकेनोत्पादितस्य विशब्दस्य "शि सर्वनामस्थानम्()" १।१।४१ इति सर्वनामस्थानसंज्ञा विधीयते, तस्मात्? सर्वनामस्थानसंज्ञाविधानं प्रति नपुंसकमिति निमित्तभावमापद्यते। तदेवं निमित्तभावोपयमनं नपुंसकस्य सर्वनामस्थानसंज्ञाविधाने व्यापारः। तस्माद्यत्र शिशब्दः सर्वनामस्थानसंज्ञकस्तत्रावश्यं नपुंसकेनोपस्थातव्यम्()। इह तु सर्वनामस्थानग्रहणानुवृत्तेः सर्वनामस्थानसंज्ञकस्य शिशब्दस्य ग्रहणम्()। ततो नपुंसकं सामथ्र्यात्? सन्निहितम्()। तेन सम्भाव्यते तदाश्रयणमित्यभिप्रायः॥
बाल-मनोरमा
इन्हन्पूषार्यम्णां शौ , ६।४।१२

सौ विशेषमाह--इन्हन्। "ढ्रलोपे" इत्यतो "दीर्घ" इत्यनुवर्तते। "नोपधायाः" इत्यत "उपधाया" इति। तदाह--एषामिति। इन् हन् पूषन् अर्यमन्नित्यन्तानामित्यर्थः। अङ्गविशेषणत्वेन तदन्तविधिः। "सर्वनामस्थाने चे"ति सिद्धे नियमार्थमित्याह--शावेवेति। नान्यत्रेति। शेरन्यत्रेत्यर्थः। इति निषेधे प्राप्त इति। वृत्रहन्शब्दे हन् इत्यस्यापि शावेव दीर्घ इति नियमात्सौ परतः "सर्वनामस्थाने" इति दीर्घेऽप्राप्ते सतीत्यर्थः।

तत्त्व-बोधिनी
इन्हन्पूषार्यम्णां शौ ३१६, ६।४।१२

इन्हन्। "सर्वनामस्थाने चासंबुद्धा"वित्यनेनैव सिद्धे नियमार्थमिदं, तदाह---शावेवोपधाया इति। उपधादीर्घमात्रस्यायं नियमः। तेन "वृत्रहायते"इत्यत्र "अकृत्सार्वधातुकयो"रिति दीर्घो भवत्येव। "वृत्रहणी"इत्यत्र "अनुनासिकस्य क्विझलो रिति यो दीर्घः सोऽपि नियमेन व्यावर्त्त्यते। उपधादीर्घमात्रपेक्षया नियमविज्ञानादिति तु मनोरमायां स्थितम्। शावेवेति नियमाद्दीर्घस्याऽप्राप्तावाह-