पूर्वम्: ६।४।१२२
अनन्तरम्: ६।४।१२४
 
सूत्रम्
राधो हिंसायाम्॥ ६।४।१२३
काशिका-वृत्तिः
रधो हिंसायाम् ६।४।१२३

राधः हिंसायामर्थे ऽवर्णस्य एकारः आदेशो भवति, अभ्यासलोपश्च लिटि क्ङिति परतः थलि च सेटि। अपरेधतुः। अपरेधुः। अपरेधिथ। हिंसायाम् इति किम्? रराधतुः। रराधुः। रराधिथ। अतः इत्येतदिह उपस्थितं तपरत्वकृतमपास्य कालविशेषम् असम्भवादवर्णमात्रं प्रतिपादयति। अथ वा श्नाभ्यस् तयोरातः ६।४।११२ इत्यनुवर्तते इति व्याख्येयम्। एकहल्मध्ये वा यः स स्थानी भविष्यति।
बाल-मनोरमा
राधो हिंसायाम् ३६२, ६।४।१२३

राधो हिंसायां। "ध्वसो"रित्यत एदिति, अभ्यासलोप इति चानुवर्तते। "गमहने"त्यतः कितीति, "अत एकहल्मध्ये" इत्यतो लिटीति, "थलि च सेटी"ति सूत्रं चानुवर्तते। तदाह-- एत्त्वेत्यादिना। अपरेधतुरिति। उपसर्गवशादिह हिंसायां वृत्तिः। अन्यत्र रराधतुः। थल्यपि क्रादिनियमान्निट्। "उपदेशेऽत्वतः" इत्यत्र तपरकरणादिह नेण्निषेधः। तदाह---रेधिथेति। राद्धेति। "झषस्तथोः" इति धः।अशू व्याप्ताविति। ऊदित्()तवाद्वेट्। अश्नुते इति। अश्नुवते।संयोगपूर्वकत्वात् "हुश्नुवो"रिति न यण्।

तत्त्व-बोधिनी
राधो हिंसायाम् ३१६, ६।४।१२३

राधो हिंसायाम्। "अत" इत्यनुवर्तमानेऽपि सामथ्र्यादकारमात्रं स्थानित्वेनाश्रीयते।