पूर्वम्: ६।४।१२
अनन्तरम्: ६।४।१४
 
सूत्रम्
सौ च॥ ६।४।१३
काशिका-वृत्तिः
सौ च ६।४।१३

सावसम्बुद्धौ परतः इन्हन्पूषर्यम्णाम् उपधाया दीर्घो भवति। दण्डी। वृत्रहा। पूषा। अर्यमा। असम्बुद्धौ इति किम्? हे दण्डिन्। हे पूषन्। हे अर्यमन्।
लघु-सिद्धान्त-कौमुदी
सौ च २८७, ६।४।१३

इन्नादीनामुपधाया दीर्घोऽसंबुद्धौ सौ। वृत्रहा। हे वृत्रहन्॥
न्यासः
सौ च। , ६।४।१३

पूर्वेण नियमेन सौ दीर्घत्वं न प्राप्नोतीति विध्यर्थोऽयमारम्भः। चकार इन्प्रभृतीनामनुकर्षणार्थः॥
बाल-मनोरमा
सौ च , ६।४।१३

सौ च। पूर्वसूत्रमनुवर्तते। तत्र यदनुवृत्तं तच्च। तदाह--इन्नादीनामिति। असम्बुद्धाविति। "सर्वनामस्थाने चे"त्यतस्तदनुवृत्तेरिति भावः। "इन्हन्पूषे"त्यस्यायमपवादः। हे वृत्रहन्निति। "असम्बुदधा"वित्यनुवृत्तेर्न दीर्घः। भिन्नपदत्वादाह--एकाजिति। वृत्रहणावित्यादि। शावेवेति नियमान्न दीर्घः। शसादावचि अल्लोपे कृते-।

तत्त्व-बोधिनी
सो च ३१७, ६।४।१३

सौ चेति। "शिस्वो"रिति वक्तव्ये योगविभाग उत्तरार्थः। वृत्रहेति। वृत्रं हतवान्। "ब्राहृभ्रूणे"ति क्विप्।