पूर्वम्: ६।४।१३१
अनन्तरम्: ६।४।१३३
 
सूत्रम्
वाह ऊठ्॥ ६।४।१३२
काशिका-वृत्तिः
वाह ऊथ् ६।४।१३२

वाहः इत्येवम् अन्तस्य भस्य ऊथ् इत्येतत् सम्प्रसारणं भवति। प्रष्ठौहः। प्रष्ठौहा। प्रष्ठौहे। दित्यौहः। दित्यौहा। दित्यौहे। एत्येधत्यूठ्सु ६।१।८६ इति वृद्धिः। अथ किमर्थमूथ् क्रियते, सम्प्रसारणे एव कृते गुणे च वृद्धिरेचि ६।१।८५ इति वृद्धौ सत्याम् सिद्धं रूपं भवति प्रष्ठौहः इति, अनकारान्ते चोपपदे वहेर्ण्विर्न दृश्यते? झापनार्थम्। एतज् ज्ञापयति, भवत्येषा परिभाषा असिद्धं बहिरङ्गम् अन्तरङ्गे इति। तस्यां हि सत्यां बहिरङ्गस्य सम्प्रसारणस्य असिद्धत्वातन्तरङ्गो गुणो न स्यात्।
लघु-सिद्धान्त-कौमुदी
वाह ऊठ् २५८, ६।४।१३२

भस्य वाहः संप्रसारणमूठ्॥
न्यासः
वाह ऊठ्?। , ६।४।१३२

"वाहः" इति। वहिरयं ण्विप्रत्ययान्तः, स चास्मात्सोपपदादेव ण्विर्विहितः। तेन सामथ्र्यात्? तदन्तविधिर्विज्ञायत इत्याह--"वाह इत्येवमन्तस्य" इत्यादि। "ऊडित्येतत्()" इति। ठिदयमूकारः। "एत्येधत्यूठ्सु" ६।१।८६ इति विशेषणार्थः। "सम्प्रसारणं भवति" इति। सम्प्रसारणमित्येष विशेषः कुतो लभ्यते। पूर्वसूत्रात्? सम्प्रसारणमित्यस्यानुवृत्तेः। किमर्थं पुनः सम्प्रसारणमनुवार्यते? स्थानिनियमार्थम्()। यद्येतन्नानुवत्र्यते, यण एव स्थाने "इग्यणः सम्प्रसारणम्()" १।१।४४ इति भवितव्यम्()। "प्रष्ठौहः" इति। प्रष्ठं वहतीति "भजो ण्विः" ३।२।६२ इत्यनुवत्र्तमाने "वहश्च" ३।२।६४ इति ण्विः। अथ किमर्थमूठ्? क्रियते, न "वाह" इत्येतावदेव सूत्रं कत्र्तव्यमित्यभिप्रायः। "सम्प्रसरण एव कृते" इति। पूर्वसत्रात्? समप्रसारणग्रहणानुवृत्तेः। "गुणे च" इति। कृत इति सम्बन्धः। गुणस्तु "पुगन्तलघूपधस्य च" ७।३।८६ इति लुप्तेऽपि ण्वौ प्रत्यलक्षणेन। ननु च "अङ्गवृत्ते पुनरङ्गवृत्तावविधि निष्ठितस्य" (व्या।प।३८) इति सम्प्रसारणे कृते गुणेन न भवितव्यम्()? "निष्ठितस्य" इति। "वचनाददोषः। निष्ठा हि शब्दस्य परिसमाप्तिः, सा च तदा भवति यदा शब्दसय प्रयोगार्हता भवति। न च यावद्गुणादिसंस्कारो न क्रियते तावदस्य प्रयोगार्हता भवति। तस्मात्? कृतेऽपि सम्प्रसारणे भवत्येव गुणः, तत्रेतत्? स्यात्()। यद्यूड् न क्रियते, तदा शार्लि वहति, दितिं वहति, शाल्युहः, दित्यूह इत्येवमाद्यनकारन्ते शालिदितिशब्द उपपदे वहेर्ण्वि प्रत्यये विहिते सति न सिद्ध्यतीत्यत आह--"अनकारान्ते चोपपदे" इत्यादि। "वहश्च" ३।२।६४ इत्यनेन "छन्दसि सहः" ३।२।६३ इत्यतोऽत्र छन्दोग्रहणानुवृत्तेश्छन्दस्येव ण्विर्विधीयते, दृष्टार्थविधिश्छन्दसि, अकारान्त एव चोपपदे प्रष्ठादौ वहेश्छन्दसि ण्विर्दृश्यते न त्वकारान्ते शाल्यादौ। कथं पुनरनेन बहिरङ्गपरिभाषा ज्ञाप्यते? इत्याह--"तस्यां हि" इत्यादि। बहिरङ्गत्त्वं पुनः सम्प्रसारणस्य बाह्राजादिप्रत्ययनिमित्तां भसंज्ञामाश्रित्य प्रवृत्तात्वात्()। गुणस्य त्वन्तरङ्गत्त्वम्(); अबाहृप्रत्यये प्रवृत्तत्वात्()। किं पुनरस्याः परिभाषायाः ज्ञापनेनप्रयोजनम्()? पचावेदम्(), यजावेदमित्यत्रः सिद्धत्त्वं बहिरङ्गलक्षणस्य। अतोऽन्तरङ्गलक्षणमेत ऐत्वं न भवति; बहिरङ्गलक्षणत्वाद्गुणस्य। बहिरङ्गत्वन्तु पदद्वयाश्रितत्वात्()। ऐत्वस्य त्वन्तरङ्गत्वं विपर्ययात्()॥
बाल-मनोरमा
वाह ऊठ् , ६।४।१३२

वाह ऊठ्। "भस्ये"त्यधिकृतम्। "वसोः संप्रसारण" मित्यतः "संप्रसारण"मित्यनुवर्तते। तच्च ऊडित्यनेनान्वेति। तदाह-भस्येत्यादिना।