पूर्वम्: ६।४।१३३
अनन्तरम्: ६।४।१३५
 
सूत्रम्
अल्लोपोऽनः॥ ६।४।१३४
काशिका-वृत्तिः
अल्लोपो ऽनः ६।४।१३४

अनित्येवम् अन्तस्य भस्य अकारलोपो भवति। राज्ञः पश्य। राज्ञा। राज्ञे। तक्ष्णः पश्य। तक्ष्णा। तक्ष्णे। अनो नकारान्तस्याय लोप इष्यते। इह न भवति, राजकीयम् इति।
लघु-सिद्धान्त-कौमुदी
अल्लोपोऽनः २४८, ६।४।१३४

अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन् तस्याकारस्य लोपः। दध्ना। दध्ने। दध्नः। दध्नः। दध्नोः। दध्नोः॥
न्यासः
अल्लोपोऽनः। , ६।४।१३४

तपरकरणं नञ्समासोऽयमित्याशङ्कानिरासार्थम्()। "राजकीयः" ["राजकीयम्()"--काशिका] इति। "गत्र्तोत्तरपदाच्छः" ४।२।१३६ इति छे प्रकृते "राज्ञः क च" ४।२।१३९ इति छः, ककारश्चान्तादेशः। अत्रापि "एकदेशविकृतमनन्यवद्भवति" (व्या।प।१६) इति॥
बाल-मनोरमा
अल्लोपोऽनः २३२, ६।४।१३४

अल्लोपोऽनः। "अत्िति लुप्तषष्ठीकं भिन्नं पदम्। "अन" इत्यवयवषष्ठ()न्तम्। अतो विशेषणम्--अनोऽवयवो योऽकारस्तस्य लोपैति। अङ्गस्येत्यधिकृतमिहावयवषष्ठ()न्तमाश्रीयते। तच्चाऽन इत्यत्रान्वेति-"अङ्गावयवो योऽन् तदवयवस्य अकारस्य लोप" इति। अङ्गस्येत्यधिकृतमिहावयवषष्ठ()न्तमाश्रीयते। तच्चाऽन इत्यत्रान्वेति--"अङ्गावयवो योऽन् तदवयवस्य अकारस्य लोप" इति भस्येत्यधिकृतमन इत्यनेनान्वेति। ततश्चाऽनोसर्वनाभस्थानयजादिस्वादिपरत्वं लभ्यते। तदाह--अङ्गावयव इत्यादिना। "अन्नन्तस्य भस्याङ्गस्याकारस्य लोपः स्या"दिति प्राचां व्याख्याने तु तक्ष्णेत्यत्र तकारादकारस्यापि लोपप्रसङ्गः। "भस्याङ्गस्याकारस्य लोपः स्या"दिति प्राचां व्याख्याने तु तक्ष्णेत्यत्र तकारादकारस्यापि लोपप्रसङ्गः। "भस्याङ्गस्यानोऽकारस्य लोप" इति व्याख्याने तु अनसा मनसेत्यत्रातिव्याप्तिः। "अन"इत्यावर्त्त्य "अन्नन्तस्य भस्याङ्गस्यानोऽकारस्य लोप"इति व्याख्याने तु "अनस्तक्ष्णे"त्यत्राति व्याप्तिरेव। तस्मादुक्तैव व्याख्येत्यन्यत्र विस्तरः। यूषन्-अस् इत्यत्र षकारादकारस्य लोपे यूष् न् अस् इति स्थिते।

बाल-मनोरमा
अचः , ६।४।१३४

शसादावचि नुमभावात्प्र-अच् अस् इति स्थिते-अचः। अच इत्यन्चुधातोः "अनिदिता"मिति लुप्तनकारस्य षष्ठ()न्तम्। भस्येत्यधिकृतम्। "अल्लोपो नः" इत्यतोऽल्लोप इत्यनुवर्तते। तदाह--लुप्तेति।

तत्त्व-बोधिनी
अल्लोपोऽनः १९६, ६।४।१३४

अल्लोपोऽनः। "भस्ये"त्यनेनैक्षिप्तः प्रत्ययविशेषः, अङ्गं चेति द्वयमनो विशेषणम्, अन् तु अकारस्येत्यभिप्रेत्य व्याचष्टे--अङ्गावयव इकत्यादि। अन्नन्तस्य भस्याऽङ्गस्याऽकारस्य लोपः स्या"दिति प्राचां व्याख्याने "तक्ष्णे"त्यादौ तकाराऽकारस्यापि लोपः स्यात्। "भस्याङ्गस्यानोऽकारस्ये"ति व्याख्याने तु "अनसा" "मनसे"त्यादौ स्यात्। तत्रावृत्त्यादिनाऽन्नन्तस्य भस्याङ्गस्यानो।डकारस्येति व्याख्यानेऽपि "अनस्तक्ष्णे"त्यादावतिव्याप्तिरेवेति बावः। सूत्रे तपरकणं नञ्समासभ्रमनिवारणाय कृतमित्येके। ननु पाणितीति प्राण्, ततः शसादिप्रत्यये "प्राणः" इत्यादौ "अनितेः" इति णत्वस्याऽसिद्धतयाऽतिप्रसङ्गः स्यादिति तद्वारणायैव तपरकरणमस्त्विति चेन्मैवम्। सवर्णदीर्घ कृते अन एव तत्राऽसत्त्वात्। न च "वर्णादाङ्गं बलीयः" इति सवर्णदीर्घात्प्रागेव लोपः प्रवर्तत इति अस्त्येवाऽन्रूपमिति वाच्यम्,तथाहि सति व्यावर्त्त्याऽलाभेन तपरकरणवैयथ्र्यस्य तदवस्थत्वात्। वस्तुतो वार्णपरिभाषेह न प्रवर्तते, युगपत्प्रवृत्तावेव वार्णादाङ्गस्य बलीयस्त्वात्। क्विपि "अनुनासिकस्ये"ति दीर्घे सवर्णदीर्घात्प्रागपि अनोऽभावाच्च। तस्माद्भ्रमनिरासार्थमेव तपरकरणं, न तु "प्राण" इत्यादावनोऽकारलोपवारणार्थमिति तेषामाशयः। वस्तुतस्तु एकदेशविकृतन्यायेन भवत्येव तत्राऽतिप्रसङ्ग इति तपरकरणमत्रावश्यकमेवेति नव्याः।

तत्त्व-बोधिनी
अचः ३६८, ६।४।१३४

अचः। "अल्लोपोऽनः"इत्यतोऽल्लोप इत्यनुवर्तते, "भस्ये"ति च। तदाह---भस्याकारस्य लोपः स्यादिति। अत्र नव्याः--यद्यत्राञ्चतेर्भस्येति सामानाधिकरण्येनान्वयः स्वीक्रियते तर्हि "प्रतीचः""प्रतीचे"त्यादि न सिध्येत्। उपसर्गसहितस्यैव भत्वेन केवलस्याऽञ्चतेर्भत्वाऽभावात्। "भस्यावयवस्याञ्चते"रिति वैयधिकरण्येनान्वये तु प्रत्यगात्मनेत्यादावञ्चतेकारस्य लोपः स्यात्। "अञ्चत्यन्तस्य भस्याकारस्य लोप"इति व्याख्यानेतु "प्राचः" "प्रातीचे"प्रशब्दाकारस्यापि लोपः स्यात्। तन्त्रावृत्त्यादिनाऽञ्चत्यन्तस्य भस्याञ्चतेरकारस्येति व्याख्यानेऽपि--प्रत्यञ्चमञ्चति प्रत्यङ्। ततः शसादिषु "प्रत्यक्वः""प्रत्यक्चे"त्यादावतिप्रसङ्ग एव। तस्मात् "अल्लोपोऽनः"इत्यत्रेवात्रापि "अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽञ्चतिस्तस्याऽकारस्य लोपः स्या"दिति व्यख्येयम्। "द्युप्रागपागुदक्प्रतीचः"इति निर्देशश्चेह व्याख्याने लिङ्गमित्याहुः।