पूर्वम्: ६।४।१३६
अनन्तरम्: ६।४।१३८
 
सूत्रम्
न संयोगाद्वमान्तात्॥ ६।४।१३७
काशिका-वृत्तिः
न संयोगाद् वमन्तात् ६।४।१३७

वकारमकारान्तात् संयोगादुत्तरस्य अनः अकारस्य लोपो न भवति। पर्वणा। पर्वणे। अथर्वणा। अथर्वणे। संयोगातिति किम्? प्रतिदीव्ना। प्रतिदीव्ने। साम्ना। साम्ने। वमन्तातिति किम्? तक्ष्णा। तक्ष्णे।
लघु-सिद्धान्त-कौमुदी
न संयोगाद्वमन्तात् २८५, ६।४।१३७

वमन्तसंयोगादनोऽकारस्य लोपो न। यज्वनः। यज्वा। यज्वभ्याम्॥ ब्रह्मणः। ब्रह्मणा॥
न्यासः
न संयोगाद्वमन्तात्?। , ६।४।१३७

"प्रति दीव्ना" इति। "हलि च" ८।२।७७ इति दीर्घः। अथान्तग्रहणं किमर्थम्(), न "दमः" इत्येवोच्येत, वकारमकाराभ्यां संयोगेन विशिष्यमाणेन च तदन्तविधिर्भवतीत्यन्तरेणाप्यन्तग्रहणं तदन्तविधिर्लभ्यत एव? सत्ययेतत्(), विस्पष्टार्थमन्तग्रहणम्()॥
बाल-मनोरमा
न संयोगाद्वमन्तात् , ६।४।१३७

शसि अल्लोपे प्राप्ते--न संयोगाद्वमन्तात्। वश्च मूच वमौ, तावन्तौ यस्येति विग्रहः। "अल्लोपोऽन" इत्यनुवर्तते। तदाह--वकारेत्यादिना। अन्तग्रहणं स्पष्टार्थं, वमयोः संयोगविशेषणत्वादेव तदन्तलाभात्। इत्यादीति। यज्वने। यज्वनः २। यज्वनोः २। भ्यामादौ हलि राजवदित्यर्थः। मान्तसंयोगस्योदाहरणमाह--ब्राहृण इति। शसादावचि नाऽल्लोपः। शेषं राजवदिति भावः। "वेदस्तत्त्वं तपो ब्राहृ, ब्राहृआ विप्रः प्रजापतिः" इत्यमरः। वृत्रो नाम असुरः, तं हतवानित्यर्थे ब्राहृभ्रूणवृत्रेषु क्विप्। कपावितौ। अपृक्तलोपः। उपपदसमासः। "सुपो धातु" इत्यमो लुक्, वृत्रहन्शब्दः। तस्मात्सुबुत्पत्तिः।