पूर्वम्: ६।४।१३७
अनन्तरम्: ६।४।१३९
 
सूत्रम्
अचः॥ ६।४।१३८
काशिका-वृत्तिः
अचः ६।४।१३८

अचः इत्ययम् अञ्चतिर्लुप्तनकारो गृह्यते। तदन्तस्य भस्य अकारस्य लोपो भवति। दधीचः पश्य। दधीचा। दधीचे। मधूचः पश्य। मधूचा। मधूचे।
लघु-सिद्धान्त-कौमुदी
अचः ३३७, ६।४।१३८

लुप्तनकारस्याञ्चतेर्भस्याकारस्य लोपः॥
न्यासः
अचः। , ६।४।१३८

"अच इत्ययमञ्चतिर्लुप्तनकारो गृह्रते" इति। कुत एतत्(), प्रत्याहारः कस्मान्न गृह्रते? "अल्लोपः" ६।४।१३४ इत्यानुवृत्तेर्न शक्यते प्रत्याहारो ग्रहीतुम्()। प्रत्याहारग्रहणे सति तेनाकारो विशिध्येत, तथा चानर्थकं प्रत्याहारग्रहणं स्यात्()। न ह्रकारोऽचत्वं व्यभिचरति। ननु चाङ्गं प्रकृतम्(), तत्? प्रत्याहारेण विशिष्यते--अजन्तस्याङ्गस्येति? न; एवं सत्यजन्तस्याङ्गस्याल्लोपो भवतीत्येष सूत्रार्थः स्यात्()। तथा च "यस्येति च" ६।४।१४८ इति लोपोऽनर्थकः स्यात्(); अनेनैव सिद्धत्वात्()। अपि च "द्युप्रागपागुदक्प्रतीचो यत्()" ४।२।१०० इत्येत्रमादिनिर्देशो लिङ्गं ह्रत्राप्रत्याहारग्रहणस्य। यदि हि प्रत्याहारग्रहण स्यात्(), अत्राञ्चतेग्र्रहणं न स्यात्(), न ह्रेतदजन्तमङ्गम्()। अत एव निर्देशात्? पचाद्यजपि न गृह्रते। न ह्रेतत्? पचाद्यजन्तमङ्गम्()। "दधीचः" इति। दध्यञ्चतीति ऋत्विगादिना ३।२।५९ क्विन्(), "आनिदिताम्()" ६।४।२४ इत्यादिनानुनासिकलोपः; "चौ" ६।३।१३७ इति दीर्घः॥