पूर्वम्: ६।४।१३८
अनन्तरम्: ६।४।१४०
 
सूत्रम्
उद ईत्॥ ६।४।१३९
काशिका-वृत्तिः
उद ईत् ६।४।१३९

उदः उत्तरस्य अचः ईकारादेशो भवति। उदीचः। उदीचा। उदीचे।
लघु-सिद्धान्त-कौमुदी
उद ईत् ३३९, ६।४।१३९

उच्छब्दात्परस्य लुप्तनकारस्याञ्चतेर्भस्याकारस्य ईत्। उदीचः। उदीचा। उदग्भ्याम्। ,
न्यासः
उद ईत्?। , ६।४।१३९

बाल-मनोरमा
उद ईत् , ६।४।१३९

शसादौ "अचः" इति लोपे प्राप्ते--उद ईत्। "अचः" इति सूत्रमनुवर्तते, "अल्लोप" इत्यतः "अत्" इति च। "भस्ये"त्यधिकृतं, तदाह--उच्छब्दादित्यादिना। सम् अञ्चतीति विग्रहे क्विन्नादि।

तत्त्व-बोधिनी
उद ईत् ३७२, ६।४।१३९

उद ईत्। "अचः"इत्यस्यापवादः। इह "अच"इत्यनुवर्तते, "भस्ये"ति च। तदाह--उच्छब्दात्परस्य लुप्तनकारस्येत्यादि। भस्येति किम्()। उदञ्चौ। उदञ्चः। उदग्भ्याम्। लुप्तमकारस्येति किम्(), पूजायाम्--"उदञ्चः""उदञ्चे"ति यथा स्यादिति।