पूर्वम्: ६।४।१३९
अनन्तरम्: ६।४।१४१
 
सूत्रम्
आतो धातोः॥ ६।४।१४०
काशिका-वृत्तिः
आतो धातोः ६।४।१४०

आकारान्तस्य धातोः भस्य लोपो भवति। कीलालपः पश्य। कीलालपा। कीललपे। शुभंयः पश्य। शुभंया। शुभंये। आतः इति किम्? निया। निये। धातोः इति किम्? खट्वाः पश्य। मालाः पश्य। आतः इति योगविभागः, तेन क्त्वो ल्यप्, हलः श्नः शानचित्येवम् आदि सिद्धं भवति।
लघु-सिद्धान्त-कौमुदी
आतो धातोः १६७, ६।४।१४०

आकारान्तो यो धातुस्तदन्तस्य भस्याङ्गस्य लोपः। अलोऽन्त्यस्य। विश्वपः। विश्वपा। विश्वपाभ्यामित्यादि। एवं शङ्खध्मादयः। धातोः किम्? हाहान्॥ हरिः। हरी॥
न्यासः
आतो धातोः। , ६।४।१४०

"कीलालपः" इति। "विजुपे छन्दसि" ३।२।७३ इति विचि प्रकृते "आतो मनिन्क्वनिब्वनिपश्च" ३।२।७४ इति विच्()। "नियेः" इति। क्विप्? इयङ॥
बाल-मनोरमा
आतो धातोः २३८, ६।४।१४०

औटि-वि()आपौ। शसि वि()आपा असिति स्थिते पूर्वसवर्णदीर्घे प्राप्ते-आतो धातोः। "अङ्गस्ये"ति "भस्ये"ति चाधिकृतं। "धातो"रिति-आत इति षष्ठयन्तेन विशेष्यते। तेन तदन्तविधिः। "अल्लोपोऽनः" इत्यतो "लोप" इत्यनुवर्तते। तदाह--आकारान्तो य इति। अलोऽन्त्यस्येति। "अन्त्यस्याऽकारस्य लोप" इति शेषः। वि()आपाभ्यामिति। अभत्वादाल्लोपो नेति भावः। इत्यादीति। वि()आपाभि। वि()आपे। वि()आपः। वि()आपोः। वि()आपाम्। वि()आपि। वि()आपोः वि()आपासु। एवं शङ्खध्मादय इति। शङ्खेन शङ्खं वा धमतीति शङ्खध्माः। "ध्मा शब्दाग्निसंयोगयोः"। पूर्ववत् विच् क्विब्वा। आदिना सोमपादिसङ्ग्रहः। सोमं पिबतीति सोमपाः। कीलालं पिबतीति कीलालपाः। वारिपर्यायेषु "पयः कीलालममृत"मित्यमरः। मधु पिबतीति मधुपा इत्यादि। धातोः किमिति। "अतोऽनापः" इत्येव सूत्र्यतां, ताववैव रमा इत्याद्याबन्तेषु लोपव्यावृत्तेरिति प्रश्नः। हाहानिति। पूर्वसवर्णदीर्घे "तस्माच्छसः" इति नत्वम्। "हाहा" इति गन्धर्वविशेषवाचकमव्युत्पन्न प्रातिपदिकमेतत्। "हाहाहूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसः" इत्यमरः। सुटि वि()आपावत्। शसि-हाहा-असित्यत्रापि "आतोऽनाप#ः" इत्याल्लोपः स्यात्, अतो धातुग्रहणमित्यर्थः। टासवर्णदीर्घ इति। "टा" इत्यविभक्तिनिर्देशः प्रक्रियादशायां न दुष्यति। तृतीयैकवचने सवर्णदीर्घ इत्यर्थः। एवमग्रेऽपि योज्यम्। ङे वृद्धिरिति। हाहा-ए इति स्थिते "वृद्धिरेचि" इति वृद्धिरित्यर्थः। ङसिङसोरिति। हाहा-असित्यत्र सवर्णदीर्घ इत्यर्थः। ओसि वृद्धिरिति। हाहा ओस् इत्यत्र "वृद्धिरेची"ति वृद्धिरित्यर्थः। ङौ आद्गुण इति। "हाहा इ" इत्यत्र आद्गुण इति गुण एकार इत्यर्थः। क्त्वा, श्ना इति प्रत्ययौ आकारान्तौ वि()आपावत्। नन्वधातुत्वात्कथमिह आल्लोप इत्यत आह--आत इति योगेति। "आतो धातोः" इत्यत्र "आत" इति विभज्यते। आकारान्तस्य भस्याङ्गस्य लोपः स्यादित्यर्थः। तेन "क्त्वः" "श्न" इति शसि रूपं सिध्यति। "धातो"रिति योगान्तरम्। आकारान्तो यो धातुस्तदन्तस्य भस्याङ्गस्य लोपः स्यादित्यर्थः। आबन्तव्यावृत्त्यर्थंस हाहादिव्यावृत्त्यर्थं चेदम्। "आत" इति योगविभागस्तु क्त्वः श्न इत्यादौ क्वचिदाल्लोपार्थः। ननु मालेवाचरिति मालाः। आचारक्विबन्तात्कर्तरि क्विप्। सुबुत्पत्तिः। अत्र कृतेऽपि धातुग्रहणे शसादावाल्लोपो दुर्वारः,"सनाद्यन्ताः" इति धातुत्वादादन्तत्वाच्च। नच "अनाप इति वक्तव्य"मिति वार्तिकादाबन्तेषु नाल्लोप इति शङ्क्यम्, उक्तरीत्या योगविभागमभ्युपगम्य "अनाप" इति वार्तिकस्य भाष्ये प्रत्याख्यातत्वादिति चेन्मैवम्, एतद्वार्तिकभाष्यप्रमाण्यादेव आबन्तेभ्य आचारक्विबभावबोधनादिति शब्देन्दुशेखरे प्रपञ्चितम्। हरिरिति। हरिशब्दात्सुः। रुत्वविसर्गौ। नच विसर्जनीयस्य अकारादुपरि उपसङ्ख्यानेनाच्त्वात्तस्मिन् परतो रेफादिकारस्य यणादेशः शङ्क्यः, यणादेशे कर्तव्ये विसर्जनीयस्याऽसिद्धत्वात्। प्रथमयोरिति। हरि-औ इति स्थितेऽनेन पूर्वसवर्णदीर्घे सति हरी इति रूपमित्यर्थः। जसि हरि अस् इति स्थिते पूर्वसवर्णदीर्घे प्राप्ते--।

तत्त्व-बोधिनी
आतो धातोः २०२, ६।४।१४०

हाहानिति। गन्धर्वविशेषवाचकमव्युत्पन्नं प्रातिपदिकमिदम्। "हाहा हूहूश्चैवमाद्या गन्धर्वाः" इत्यमरः। केचित्तु अकारो वासुदेवस्तेन सह वर्तन्ते इति साः। तान् सानिति प्रत्युदाहरन्ति। क्त्व श्न इति। यद्यपि "क्त्वो ल्यप्" श्नः शानज्झौ", "क्रमश्च क्त्वि" इति निर्देशादेतत्सूत्रेष्वातो लोपः सिध्यति, तथापि क्त्वो ल्यब्भवति" "श्नः शानज्भवती"ति व्याख्यानवाक्येष्वसाधुत्वशङ्कावारणायेदमुक्तम्। इत्यादन्ताः।