पूर्वम्: ६।४।१४३
अनन्तरम्: ६।४।१४५
 
सूत्रम्
नस्तद्धिते॥ ६।४।१४४
काशिका-वृत्तिः
नस् तद्धिते ६।४।१४४

नकारान्तस्य भस्य टेः लोपो भवति तद्धिते परतः। आग्निशर्मिः। औडुलोमिः। बाह्वादित्वादिञ् प्रत्ययः। नः इति किम्? सात्वतः। तद्धिते इति किम्? शर्मणा। शर्मने। नानतस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकुथुमि। तैतिलिजाजलिलाङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणाम् उपसङ्ख्यानं कर्तव्यम्। अत्र ये इन्नन्ताः तेषाम् इनण्यनपत्ये ६।४।१६४ इति प्रकृतिभावः प्राप्तः, ये तु अनन्ताः तेषाम् अन् ६।४।१६७ इति। सब्रह्मचारिणः इमे साब्रह्मचाराः, पीठसर्पिणः पैठसर्पाः। कलापिना प्रोक्तमधीयते कालापाः, कुथुमिनः कौथुमाः। तैतिलिजाजलिनौ आचार्यौ, तत्कृतो ग्रन्थः उपचारात् तैतिलिजाजलिशब्दाभ्याम् अभिधीयते, तं ग्रन्थमधीयते तैतिलाः, जाजलाः। शैशिकेष्वर्थेषु वृद्धत्वादत्र छः प्राप्नोति। एवं लाङ्गलाः। शैलालाः। शिखण्डिनः शैखण्डाः। सूकरसद्मनः सौकरसद्माः। सुपर्वणः सौपर्णाः। अश्मनो विकार उपसङ्ख्यानम्। अश्मनो विकारः आश्मः। अश्मनो ऽन्यः। चर्मणः कोश उपसङ्ख्यानम्। चार्मः कोशः। चार्मणो ऽन्यः। शुनः सङ्कोच उपसङ्ख्यानम्। शौवः सङ्कोचः। शौवनो ऽन्यः। अव्ययानां च सायंप्रतिकाद्यर्थम् उपसङ्ख्यानम्। के पुनः सायंप्रातिकादयः? येषाम् अव्ययानाम् अविहितष्टिलोपः, प्रयोगे च दृश्यते, ते सायंप्रातिकप्रकाराः ग्रहीतव्याः। सायंप्रातर्भवः सायंप्रातिकः। पौनःपुनिकः। बाह्यः। कौतस्कुतः। कालाट् ठञ् ४।३।११ इति ठञ्प्रत्ययः। ट्युट्युलौ तु नेष्येते। आरातीयः, शाश्वतिकः, शाश्वतः इत्येवम् आदिषु न दृश्यते टिलोपः।
लघु-सिद्धान्त-कौमुदी
नस्तद्धिते ९२२, ६।४।१४४

नान्तस्य भस्य टेर्लोपस्तद्धिते। उपराजम्। अध्यात्मम्॥
न्यासः
नस्तद्धिते। , ६।४।१४४

"सात्वतः" इति। सत्वतोऽपत्यमित्यण्()। "नान्तस्य टिलोपः" इत्यादि। किं पुनः कारणं न सिद्ध्यति यत उपसंख्यानं कत्र्तव्यम्()? इत्याह--"अत्र य इन्नन्ताः" इत्यादि। ये त्वन्नन्तास्तेषाम् अन्()" ६।४।१६७ इति प्रकृतिभावः प्राप्त इति प्रकृतेन सम्बन्धः। "साब्राहृचारः" इति। "तस्येदम्()" ४।३।१२० इत्यण्()। "पीठसर्पिणः" इति। इम इति प्रकृतेन सम्बन्धः। "पैठसर्पाः" इति। "तस्येदम्()" ४।३।१२० इत्यण्()। "पीठसर्पिणः" इति। इम इति प्रकृतेन सम्बन्धः। "पैठसर्पाः" इति। पूर्ववदण्()। "कालापाः" इति। पूर्ववत्प्रोक्तार्थे "कलापिवैशम्यायनान्तेवासिभ्यश्च" ४।३।१०४ इति वैशम्पायनान्तेवासित्वाण्णिनिप्रत्यये प्राप्ते तदपवादः "कलापिनोऽण्()" ४।३।१०८, ततः "तदधीते तद्वेव" ४।२।५८ इत्यण्(), तस्य "प्रोक्ताल्लुक्()" ४।२।६३ इति लुक्(), "छन्दोब्राआहृणानि च तद्विषयाणि" ४।२।६५ इत्यध्येतृवेदितृविषयता। "कोथुमाः" इति। "तस्येदम्()" ४।३।१२० इत्यण्()। "तत्कृतो ग्रन्थ उपचारात्()" इत्यादि। उपचारस्य तु तत्कृतत्वात्र निबन्धनम्()। भवति हि तत्कृतत्वे तदुपचारः, यथा सर्वमिदं पुराणं कर्म शुभाशुभं भुज्यत इति। अथ कस्मादुपचार आश्रीयते, न "अधिकृत्य कृते ग्रन्थे" (४।३।८७) इत्येवमादिशैषिकार्थविवक्षायां तद्धित एव क्रियेत? इत्यत आह--"शैषिकेष्वर्थेषु" इत्यादि। तैतिलिजाजलिशब्दौ वृद्धसंज्ञकौ, तयोर्वृद्धत्वात्? शैषिकेष्वथषु विधीयमानोऽसौ तद्धितः "वृद्धाच्छः" ४।२।११३ इति छः प्रसज्येत। त()स्मश्च सति "तैतिलाः, जाजलाः" इति न सिद्ध्येत्(), तस्मान्मा भूदेष दोष इत्युपचार आश्रितः। "एवम्()" इत्यनेनान्तरोक्तां व्युत्पतिं()त दर्शयति छप्रत्ययनिवृत्तये। लाङ्गलिशब्दस्याप्येवं व्युत्पत्तिः कत्र्तव्या। लाङ्गलिः आचार्यः, तत्कृती ग्रन्थ उपचारात्? लाङ्गलशब्देनाभिधीयते। "लाङ्गलाः" इति। "शिखण्डाः" इत्याद्युदाहरणत्रयेऽपि "तस्येदम्()" ४।३।१२० इत्यण्()। "आश्मः" इति। अत्रापि "तस्य विकारः" ४।३।१३२ इत्यण्()। "आश्मनोऽन्यत्र" इति। अत्रापि "तस्येदम्()" ४।३।१२० इत्यत्रार्थाभिधाने। "चार्मः" इत्यत्रापि "तस्येदम्()" ४।३।१२० इत्यणेव। "चर्मणोऽन्यः" इति। चर्मणो विकार इति। "शौवः" इति। "द्वारादीनाञ्च" ७।३।४ इत्यैजागमः। सायम्प्रातिकायः प्रातिपदिकेषु न पठ()न्त इत्यतः पृच्छति--"के पुनः सामम्प्रातिकादयः इति। सायम्प्रातिकप्रकारा इत्यनेन प्रकारवचनतामादिशब्दस्य दर्शयति। ननु च "सायञ्चिरम्()" ४।३।२३ इत्यादिनाऽव्ययेभ्यष्ट()उल्भ्यां भवितव्यम्, तत्? कथं ठञ्? भवति? इत्याह--"ट()उट()उलौ तु नेष्येते" इति। अनभिधानात्()। अत्र च सर्वत्रोपसंक्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम्()--मन्त्रेष्वित्यादेः ६।४।१४१ सूत्रादादिग्रहणमनुवत्र्तते, तद्धितग्रहणञ्चेदमर्थमेव कृतम्()। तदनुवृत्तौ चायमर्थो भवति--नान्तादीनां तद्धिते परतष्टिलोपो भवतीति। आदिशब्देन सायम्प्रातिकादयो गृह्रन्ते। तेन सर्वत्र टिलोपः सिद्धो भवति। "इत्येवमादिषु न दृश्यते टिलोपः" इति। एतेनारातीयः इत्येवमादीनामसायम्प्प्रातिकत्वं दर्शयति। अथ "शा()आतः" इत्यत्र कथमण्(), यावता "कालट्ठञ" (४।३।११) इति ठञा भवितव्यम्()? नैतदस्ति; "कालट्ठञ्()" ४।३।११ इत्यत्र "कालात्()" इति योगविभागः कत्र्तव्यः, तेन श()आच्छब्दाद्यथादिहितमण्? भवति। न च योगविभागेन ठञ्? बाध्यते; "येषाञ्च विरोधः शा()आतिकः" २।४।९ इति निपातनात्()। तेन पक्षे ठञपि भवत्येव। ट()उट()उलौ तु शा()आतशब्दान्नेष्येते, अनभिधानादेव। अथ "शा()आतिकः" इत्यत्र "इसुसुक्तान्तात्कः" (७।३।५१) इति ठञः कादेशः कस्मान्न भवति? अत एव निर्देशात्()॥
बाल-मनोरमा
नस्तद्धिते ६७१, ६।४।१४४

नस्तद्धिते। "न" इति षष्ठ()न्तम्। तेन भस्येत्यधिकृतं विशेष्यते, तदन्तविधिः। टेरिति सूत्रमनुवर्तते। "अल्लोपोऽनः" इत्यस्माल्लोप इति च। तदाह-नान्तस्येत्यादि। उपराजमिति। राज्ञः समीपमित्यर्थः। समीप्ये उपेत्यस्याव्ययीभावः। "अनश्च" इति टच्, सुब्लुक्, टिलोपः। उपराजशब्दाद्यथायथं सुप्, अम्भावः। टजन्तस्यैवाव्ययीभावसमासत्वाट्टचि परे अव्ययानां भमात्रे टिलोपाऽप्रवृत्तेः "नस्तद्धिते" इत्यारम्भः। अध्यात्ममिति। आत्मनीत्यर्थः। विभक्त्यर्थेऽव्ययीभावः। शेषं पूर्ववत्।

तत्त्व-बोधिनी
नास्तद्धिते ५९४, ६।४।१४४

नास्तद्धिते। "न"इत्यनेन भस्येत्यधिकृतं विशेष्यते, विशेषणेन तदन्तविधिरत आह--नान्तस्य भस्येति। ननूपराजिमित्यत्र "नस्तद्धिते"इति व्यर्थम्, "अव्ययानां भमात्रे---" इति टिलोपेनैव सिद्धेः। न चाव्ययत्वं टज्विशिष्टे पर्याप्तमिति वाच्यम्, अव्ययीभावसंज्ञाया उपजीव्यत्वेन टचः पूर्वभागस्याप्यव्ययत्वानपायात्। अत्राहुः--भाष्ये लुङ्मुखस्वरोपचारेषु त्रिष्वेव कार्येषु अव्ययीभावस्याव्ययसंज्ञाविधानान्न दोष इति। युक्त चैतत्। अन्यथा उपशरदमित्यादौ टिलोपः प्रसज्येत। यद्यप्यडुत्तमस्य पिच्चेत्यत्र दीर्घोच्चारणेन स्वावयवेन पौर्वपर्यं नास्तीतिज्ञापितम्, "अ" डित्युक्तेऽपि तदादिग्रहणेन तद्विशिष्टस्याऽङ्गत्वादतो दीर्घो यञीति दीर्घसिद्धेः, तथाप्यह्नष्टखोरेवेति लिङ्गत्समासान्तेषु तन्नाश्रीयत इति बोध्यम्। आध्यायत्ममिति आत्मनि अध्यात्मम्। विभक्त्यर्थेऽव्ययीभावः।