पूर्वम्: ६।४।१४४
अनन्तरम्: ६।४।१४६
 
सूत्रम्
अह्नष्टखोरेव॥ ६।४।१४५
काशिका-वृत्तिः
अह्नष् टखेरेव ६।४।१४५

अहनित्येतस्य टखोरेव परतः टिलोपो भवति। द्वे अहनी समाहृते द्व्यहः त्र्यहः। द्वे अहनी अधीष्टो भृतो भूतो भावी वा द्व्यहीनः। त्र्यहीनः। अह्नां समूहः क्रतुः अहीनः। अह्नः समूहे खो वक्तव्यः। सिद्धे सति आरम्भो नियमार्थः। इह मा भूत्, अह्ना निर्वृत्तम् आह्निकम्। एवकारकरणम् विस्पष्टार्थम्। अह्नः एव टखोः इत्येवं नियमो न भविस्यति, आत्माध्वानौ खे ६।१।१६३ इति प्रकृतिभावविधानात्।
न्यासः
अह्नष्टखोरेव। , ६।४।१४५

"द्व्यहः" इति। "तद्धितार्थोत्तरपदसमाहारे च" २।१।५० इति समासः, "राजहःसखिभ्यष्टच्()" (५।४।९१) इति टच्? समासान्तः। अत्र "अह्नोह्न एतेभ्यः" ५।४।८८ इत्यह्नादेशः प्राप्तः स च "न संख्यादेः समाहारे" ५।४।८९ इति प्रतिषेधान्न भवति। "द्व्यहीनः" इति। तद्धितार्थे "समायाः" ५।१।८४ इति वत्र्तमाने "रात्र्यहःसंवत्सराच्च" ५।१।८६ इति खः। केन पुनरहीन इत्यत्र खप्रत्ययः? इत्याह--"अह्नः समूहे खो वक्तव्वः" इति। ननु च अह्नो नकारान्तत्वात्? पूर्वेणैव सिद्धष्टिलोपः, तत्? किमर्थोऽयमारम्भः? इत्याह--"सिद्धे सति" इत्यादि। "आह्निकम्()" इति। आर्हीयष्ठक्()। यदि सिद्धे सति नियमर्थोऽयमारम्भः, एवं सत्येवग्रहणमनर्थकं स्यात्(), विनापि तेन सिद्धे सत्यारम्बो नियमार्थो विज्ञास्यते? इत्याह--"एवकारकरणं विस्पष्टार्थम्()" इति। अथ विपरीतनियमाशङ्कानिरासार्थं कस्मान्न भवति? इत्याह--"अह्न एव" इत्यादि। यद्यह्न एव टखोः--इत्येव विपरीतनियमः स्यात्(), एवं सत्यन्यस्य खे टिलोपप्रसङ्ग एव नास्ति। "आत्माध्वानो खे" ६।४।१६९ इति प्रकृतिवद्भावविधानमनर्थकं स्यादित्यभिप्रायः॥
बाल-मनोरमा
अह्नष्टखोरेव ७७९, ६।४।१४५

अह्नष्टखोः। शेषपूरणेन सूत्रे व्याचष्टे--टिलोपः स्यादिति। टेरित्यनुवर्तते, "अल्लोपोऽनः" इत्यस्यमाल्लोप इति चेति भावः। "नस्तद्धिते" इत्येव सिद्धे नियमार्थमिदमित्या--नान्यत्रेति। एवकारस्तु "अह्न एव टखो"रिति विपरीतनियमव्यावृत्त्यर्थः। टखोरेवेति किम्?। अह्ना निवृत्तम् आह्निकम्। "कालाट्ठञ" इत्यधिकारे "तेन निवृत्त"मिति ठञ्। टिलोपाऽभावादल्लोपः। टप्रत्यये उदाहरति--उत्तमाह इति। उत्तमं च तदहश्चेति विशेषणसमासः। "राजाहःसखिभ्यष्ट"जिति टच्। "अह्नष्टखोरेवे"ति टच्। अह्नष्टखोरेवे"ति प्रकृतसूत्रेण टिलोपः, "रात्राह्नाहाः पुंसी"ति पुंस्त्वम्। खे उदाहरति--द्वे अहनी भृत इति। अत्यन्तसंयोगे द्वितीया। भृतः=परिक्रीत इत्यर्थः। "द्व्यहीन" इत्यत्र प्रक्रियां दर्शयति--तद्धितार्थे द्विगुरिति। कोऽत्र तद्धित इत्यत आह--तमधीष्ट इत्यादि। तथाच द्व्यहन्शब्दात्खस्य ईनादेशे "अह्नष्टखोरेवे"ति टिलोपे "द्व्यहीन" इति रूपमित्यर्थः। नन्वत्र "अह्नोऽह्न एतेभ्यः" इत्याह्नादेशः कुतो न स्यात्। नच खे टिलोपविधिसामथ्र्यान्नाह्नादेश इति वाच्यम्, "अहीन" इत्यत्र खे टिलोपविधेश्चरितार्थत्वादिति चेन्न, समासान्ते पर एव#आह्नादेशविधानात्, प्रकृते तु समासान्तविधेरनित्यत्वात् "राजाहःसखिभ्यः" इति न टच्। यद्यपि "उत्तमाहः" इत्यत्र, "द्व्यहीन" इत्यत्र च "नस्तद्धिते" इत्येव टिलोपः सिद्धस्तथापि आह्निकमित्यादावावश्यकस्य नियमविधेर्विधिमुखेनापि प्रवृत्त्यभ्युपगमादिह तदुपन्यासः।

ननुमद्राणां राज्ञी मद्रराज्ञीत्यत्रापि लिङ्गविशिष्टपरिभाषया "राजाहःसखिभ्यः" इति टच् स्यादित्याशङ्ख्याह-लिङ्गेति। अनित्यत्वादिति। समासान्तप्रकरणे लिङ्गविशिष्टपरिभाषा नेति "ङ्याप्प्रातिपदिकात्" इत्यत्र भाष्ये उक्तत्वादिति भावः। मद्रराज्ञीति। नच टचि सत्यपि "यस्येति चे"तीकारलोपे मद्रराज्ञशब्दात् टित्त्वान्ङीपि मद्रराज्ञीति निर्बाधमिति वाच्यं, टचि हि सति "भस्याऽढे तद्धिते" इति पुंवत्त्वे टिलोपे "मद्रराज्ञी"ति स्यादिति भावः।

तत्त्व-बोधिनी
अह्नखोरेव ६८६, ६।४।१४५

उत्तमाह इति। "सर्वैकदेशसङ्ख्याते"त्यत्र उत्तमशब्दस्याऽपाटदह्नोदेशो न। व्द्यहीन इति। समासान्तविधेरनित्यत्वान्न टच्। सति तु तस्मिन्नह्नादेशः प्रसज्येत। न च नान्तस्य खे परे टिलोपविधिसामथ्र्यान्न टजिति वाच्यम्, "अहीन"इत्यत्र तस्य सावकाशत्वात्। अनित्यत्वादिति। अत्र च लिङ्गं "शक्तिलाह्गलाङ्कुशे"त्यत्र घटीग्रहणम्। मद्रराज्ञीति। यद्यत्र टच् स्यात्तदा "भस्याऽढे---" इति पुंवद्भावे टिलोपे च मद्रराजीत्यनिष्टरूपं स्यादिति भावः।