पूर्वम्: ६।४।१४६
अनन्तरम्: ६।४।१४८
 
सूत्रम्
ढे लोपोऽकद्र्वाः॥ ६।४।१४७
काशिका-वृत्तिः
ढे लोपो ऽकद्र्वाः ६।४।१४७

ढे परतः उवर्णान्तस्य भस्य अकर्वाः लोपो भवति। कामण्डलेयः। शैतवाहेयः। जांवेयः। माद्रबाहेयः। अकद्र्वाः इति किम्? काद्रवेयो मन्त्रम् अपश्यत्।
न्यासः
ढे लोपोऽकद्रूवाः। , ६।४।१४७

"कामण्डलेयः, शैतबाहेयः" इति। "चतुष्पाद्भ्यो ढञ्()" ४।१।१३५ इति ढञ्()। एवं "जाम्बेयः" इत्यत्रापि। "माद्रबाहेयः" इति। मद्रबाहुशब्दात्? "बाह्वन्तात्? संज्ञायाम्()" ४।१।६७ इत्यूङ, तदन्तात्? "स्त्रीभ्यो ढक्()" ४।१।१२०। "काद्रवेयः" इति। "कद्रूकमण्डल्वोश्छन्दसि संज्ञायाम्()" (४।१।७१,७२) इत्यूङ तदन्तात्? पूर्ववङ्ढक्()॥
बाल-मनोरमा
ढे लोपोऽकद्र्वाः ११२६, ६।४।१४७

ढे लोपोऽकद्र्वाः। भस्येत्यधिकृतम् "ओर्गुणः" इत्यत ओरिति षष्ठ()न्तेनानुवृत्तेनविशेष्यते। तदन्तविधिः। तदाह--कद्रूभिन्नस्येति। "अलोऽन्त्यस्ये"त्यन्त्यलोपः। ओर्गुणापवादः। कामण्डलेय इति। कमण्डलोरपत्यमिति विग्रहः। ढकि #एयादेशे आदिवृद्धावुकारलोपः। ननु कमण्डलुशब्दवाच्यस्य जलपात्रस्याऽचेतनस्य कथमपत्ययोगः, तत्राह--कमण्डलुशब्दश्चतुष्पाज्जातिविशेषे इति। अत एव "कमण्डलुपदे आदधीते"ति बह्वृचब्राआहृणं सङ्गच्छत इति भावः।