पूर्वम्: ६।४।१४८
अनन्तरम्: ६।४।१५०
 
सूत्रम्
सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः॥ ६।४।१४९
काशिका-वृत्तिः
सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः ६।४।१४९

सूर्य तिस्य अगस्त्य मत्स्य इत्येतेषां यकारस्य उपधायाः भस्य लोपो भवति ईति परतस्तद्धिते च। सूर्येणैकदिक् सौरी बलाका। अणि यो यस्य इति लोपः तस्य असिद्धत्वं न अस्ति, व्याश्रयत्वात्। ईकारे तु यस्तस्या सिद्धत्वादुपधायकारो भस्याणन्तस्य सूर्यस्य सम्बन्धी इति लुप्यते। तिष्य तैष्महः। तैषी रात्रिः। अगस्त्य अगस्त्यस्य अपत्यं स्त्री, ऋषित्वादणि कृते आगस्ती। आगस्तीयः। मत्स्य गौरादित्वात् ङीष्, मत्सी। उपधायाः इति किम्? मत्स्यचरी। यग्रहणम् उत्तरार्थम्। विषयपरिगणनम् अत्र कर्तव्यम्। मत्स्यस्य ङ्याम् इति वक्तव्यम्। इह मा भूत्, मत्स्यस्य इदं मांसं मात्स्यम्। सूर्यागस्त्ययोश्छे च ग्यां च। सौरीयः। सौरी। आगस्तीयः। आगस्ती। इह मा भूत्, सौर्यम् चरुं निर्वपेत्। आगस्त्यः। तिष्यपुष्ययोर् नक्षत्राणि। तिष्येण नक्षत्रेण युक्तः कालः तैषः। पौषः। अन्तिकस्य तसि कादिलोप आद्युदात्तं च। अन्तिकशब्दस्य तसिप्रत्यये परतः ककारदेः शब्दस्य लोपः, आद्युदात्तत्वम् च। अन्तितो न दूरात्। तमे तादेश्च। तमप्रत्यये अन्तिकशब्दस्य तकारादेः ककारादेश्च लोपो वक्तव्यः। तत्र तादिलोपे अन्तमः। कादिलोपे अन्तितमः। कादिलोपे बहुलम् इति वक्तव्यम्। अन्यत्र अपि हि वृश्यते, अन्तिके सीदति इति अन्तिषत्। पूर्वपदात् ८।३।१०८ इति षत्वम्। ये च। अन्तियः।
न्यासः
सूर्यतिष्यागस्त्यमतस्यानां य उपधायाः। , ६।४।१४९

यद्यत्र भसंज्ञया सूर्यादयो विशिष्येरन्()--"सूर्यादीनां भसंज्ञकानामिति, तदा सौरी, बलाकेत्यत्र लोपो न स्यात्()। न हि सूर्यशब्द इह भसंज्ञक इति, किं तर्हि? अन्येदवाणन्तं शब्दान्तरमिति बुद्धौ निधायानाश्रितरूपभेदस्य लोपेन सम्बन्धः सूर्यादिभिः सम्बन्धिभिर्यकारो विशिष्यत इति दर्शयन्नाह--"सूर्यतिव्यागस्त्यमत्स्य--"इत्येतेवाम्()" इत्यादि। "भस्य" इति। भसंज्ञकस्य। यो यकार उपधा, तस्य लोपो भवति स चेद्यकारः सूर्यादीनां सम्बन्धी भवति--अयमतरार्थो विवक्षितः। ते तु सूर्यादयो भत्वेन न विशिष्यतन्ते। तेन यदापि तेषां भसंज्ञा न भवति, तदापि तस्योपधायकारस्य लोपो भवत्येव यद्यसौ यकारः सूर्यादीनां सम्बन्धी भवति। "सौरी, बलाका" इति। ननु चात्राकारलोपस्य व्याश्रयत्वेनासिद्धत्वं नास्तीत्युपधायकारो न भवतीत्येतदुक्तम्()? इत्याह--"अणि यो यस्येति लोपः" इत्यादि। अत्र हि द्वौ यस्येतिलापौ--एकोऽणिपरतः, अपर ईकारे। तत्र प्रथमो व्याश्रयः, तथा हि--लोपोऽणमाश्रित्य भवति, यलोपस्त्वीकारम्? अतो व्याश्रयत्वादसिद्धत्वाभावस्तस्य युक्तः। इतरस्त्वीकारमाश्रित्य भवति समानाश्रय एव, ततश्च तस्यासिद्धत्त्वादुपधायकारो भवति। "भस्याणन्तस्य" इत्तयादिना सूत्रार्थमुदाहरणे दर्शयति। "तैषम्(), तैषी" इति। "नक्षत्रेण युक्तः कालः" ४।२।३ इत्यण्(), "टिड्ढाणञ्()" ४।१।१५ इति ङीप्()। "ऋषित्वादणि कृते" इति। "ऋष्यन्धक" ४।१।११४ इत्यादिना "मत्स्यचरी" इति। मत्स्यो भूतपूर्वः--"भूतपूर्वे चरट्()" ५।३।५३ पूर्ववन्ङीप्()। भवत्यत्र मत्स्यचर इति भसंज्ञकमत्स्यसम्बन्धी यकारः, नत्वसौ भसंज्ञकस्योपदेति लोपो न प्रवत्र्तते। अथ किमर्थं यग्रहणम्(), यावता सूर्यादिभिरूपधायां विशिष्यमाणायामन्तरेणापि यग्रहणं यकारस्योपधाभूतस्य लोपो विज्ञास्यते, यकार एव हि तेषामुपधा, न तु वर्णान्तरम्()? इत्यत आह--"यग्रहणमुत्तरार्थम्()" इति। "वक्तव्यम्()" इति व्याख्येयमित्यर्थः। व्याख्यानन्त्विहापि पूर्ववद्विभाषामाश्रित्य कत्र्तव्यम्()। "मात्स्यम्()" इति। "तस्येदम्()" ४।२।११९ इत्यण्()। "सौरीयम्()" इति। अणन्तात्? "वृद्धाच्छः" ४।२।११३। एवं "आगस्तीयम्()" इति। "सौर्यम्()" इति। सूर्यो देवतऽस्येति "सा।डस्य देवता ४।२।२३ इत्यण्। "आगस्त्यः" इति। अपत्यार्थे ऋष्यण्()। "नक्षत्राणि" इति। नक्षत्रसम्बन्धो योऽण्? तस्मिन्नित्यर्थः। "ककारादेः शब्दस्य" इति। ककारस्याकारस्येत्यर्थः। "आद्युदात्तत्वञ्च" इति। प्रत्ययस्वरेणान्तोदात्तत्वे प्राप्ते सत्याद्युदात्तार्थं वचनम्()। "अन्तितः" इति। "अपादाने चाहीयरुहोः" ५।४।४५ इति तसिः। "तादेश्च" इति। तिकशब्दस्येत्यर्थ। चकारात्? कादेश्च। "अन्तमः" इति। अतिशायने तमप्()" ५।३।५५। "अन्तिषत्()" इति। "सत्सूद्विष" ३।२।६१ इत्यादिना क्विप्()। "ये च" इति। दृश्यत इति प्रकृतेन सम्बन्धः। "अन्तिमः" इति। "भवे छन्दसि" ४।४।१०९ इति यः, "तत्र साधुः" ४।४।९८ इति वा। केचित्? सर्वमेव लोपविधानं छन्दस्येवेच्छन्ति॥
बाल-मनोरमा
सूर्यतिष्टागस्त्यमत्स्थानां य उपधायाः ४९२, ६।४।१४९

मत्स्यशब्दाद्गौरादित्वान्ङीषि विशेष दर्शयितुमाह--सूर्यतिष्टागस्त्य। "ढे लोपोऽकद्र्वाः" इत्यतो "लोप" इत्यनुवर्तते। "य" इति षष्ठी, "अङ्गस्येत्यधिकृतमवयवषष्ठ()न्तं, तच्च उपदायामन्वेति। अङ्गस्य उपधाभूतो यो यकारस्तस्य लोपः स्यादिति लभ्यते। "सूर्यतिष्यागस्त्यमत्स्याना"मित्यप्यवयवषष्ठ()न्तं यकारेऽन्वेति, न त्वह्गविशेषणं तदाह-अङ्गस्येत्यादिना।

मत्स्यस्य ङ्यामिति। तेनेह न, मत्स्यस्येदं मात्स्यम्।

सूर्यागस्त्ययोश्छे चेति। सूरीयः। सूरी। अगस्तीयः। अगस्ती नेह--सौर्यम्। आगस्त्यम्।

तिष्येति। "नक्षत्रेण युक्तः कालः", "सन्धिवेलाद्यृतुनक्षत्रेऽभ्योणि"ति च विहिते नक्षत्रसबन्धिनि अणि परतस्तिष्यपुष्ययोर्यलोप इत्यर्थः। तत्र तिष्यस्य यलोपो नियम्यते। पुष्यस्य त्वप्राप्तो विधीयते। तिष्येण युक्तः पूर्णमासः, तिष्ये भवो वा तैषः। एवं पौषः। नेह--तिष्यस्य पुष्यस्य वाऽयं तैष्यः, पौष्यः। मत्सीति। मत्स्यशब्दाद्गौरादिङीषि यलोपः, "यस्येति चे"त्यकारलोपः। ननु "पितृव्यमातुलमातामहपितामहाः" इति सूत्रे मातुः पिता पितुः पितेति विग्रहे मातृपितृभ्यां डामहचि टिलोपे मातामहपितामहशब्दौ निपातितौ। तत्र मातुर्माता पितुर्मातेति विग्रहे डामहचः षित्वं विहितं-"मातरि षिच्चे"ति ततश्चाषित्त्वविधानादेव ङीष्सिद्धेर्गौरादिषु मातामहीशब्दपाठौ न कर्तव्यः। नच "मातरि षिच्चे"ति न क्रियतामिति वाच्यं, पितामहीत्यत्र ङीषर्थं तस्यावश्यकत्वादित्यत आह--मातरीति। दंष्ट्रेति। दंशेः "दाभ्यनीशसे"ति करणे ष्ट्रन। अत्र षित्त्वे सत्यपि न ङीषिति भावः। "सूर्यादीनामङ्गानामुपधाभूतस्य यकारस्य लोप" इति तु न व्याख्यातं, तथा सति "सौरी बलाके"ति न सिध्येत्। सूर्येणैकदिक् इत्यर्थे "तेनैदि"गित्यणि तदन्तान्ङीप्यणन्तमङ्गं, नतु सूर्यशब्द इति तदसिद्धिः। वचनं तु सूरी कुन्तीत्यत्र चरितार्थमित्यन्यत्र विस्तरः।

तत्त्व-बोधिनी
सूर्यतिष्यगस्त्यमत्स्याना य उपधायाः ४४३, ६।४।१४९

सूर्यतिष्य। अत्र "भस्ये"त्यनुवर्तमानमपि न सम्बध्यते, विषयपरिगणनेनैवातिपर्सङ्गनिवारणात्।

मत्स्यस्व ङ्याम्। मत्स्यस्य ङ्यामिति। नेह--मत्स्यस्येदं मात्स्यम्।

सूर्यागस्त्ययोश्छे च ङ्याचं॥छे च ङ्यां चेति। सूरीयः। सूरी। अगस्तीयः। अगस्ती। नेह--सौर्यं चरुम्। आगस्त्यम्।

तिष्यपुष्ययोर्नक्षत्राऽणि यलोप इति वाच्यम्। नक्षत्राऽणीति। नक्षत्रसम्बन्धी योऽण् "नक्षत्रेण युक्तः कावलः"इति, "सन्धिवेलाद्यृतुनक्षत्रेभ्योऽ"णिति च विहितस्तस्मिन्नित्यर्थः। तत्र तिष्यस्य यलोपो निपात्यते। पुष्यस्यत्वप्राप्तो विधीयते। तिष्येण युक्तः कालस्तैषः। पुष्येण युक्तः पौषः। तथा--तिष्ये भवस्तैषः। पुष्ये भवः पौषः। नेह--तिष्यस्यायं तैष्यः। मत्सीति। योपधत्वात् "जातेरस्त्रीविषया"दित्यप्राप्ते गौरादिपाठान्ङीष्। मातरि षिच्चेति। "पितृव्यमातुलमातामहे"ति सूत्रस्थमिदं वचनम्। तच्च "पितामही"ति रूपसिद्ध्यर्थमवश्यं वक्तव्यमिति न वार्तिक्स्य वैयथ्र्यम्। ये तु पितामहशब्दमपि गौरादिषु पठन्ति, तन्मते वचनमिदं स्वरसतो न सङ्गच्छते। यदि त्वनित्यत्वज्ञापनमेव वचनस्य फलमिति ब्राऊषे, तर्हि "षिद्गौरे"ति सूत्र एव "अनित्यं षितः"इति वक्तव्यं किमनेन वक्रमार्गेणेति दिक्। दश्यतेऽनयेति दंष्ट्रा। "दाम्नीशसे"त्यादिना करणे ष्ट्रन्।