पूर्वम्: ६।४।१५०
अनन्तरम्: ६।४।१५२
 
सूत्रम्
आपत्यस्य च तद्धितेऽनाति॥ ६।४।१५१
काशिका-वृत्तिः
आपत्यस्य च तद्धिते ऽनाति ६।४।१५१

आपत्ययकारस्य हलः उत्तरस्य तद्धिते अनाकारादौ लोपो भवति। गार्ग्याणां समूहो गार्गकम्। वात्सकम्। आपत्यस्य इति किम्? साङ्काश्यकः। काम्पिल्यकः। तद्धितग्रहणं ईत्यनापत्यस्य अपि लोपार्थम्। सौमी इष्टिः। अनाति इति किम्? गार्ग्यायणः। वात्स्यायनः। हलः इत्येव, कारिकेयस्य अपत्यं कारिकेयिः।
न्यासः
आपत्यस्य च तद्धितेऽनाति। , ६।४।१५१

"गार्गकम्()" इति। "गोत्रोक्षोष्ट्रोरभ्र" ४।२।३८ इत्यादिना गाग्र्यशब्दाद्वुञ्(), तत्र यञो लोपः। "साङ्काख्यकः" इति। "काम्पिल्यकः" इति। पूर्ववत्? सङ्काशकम्पिलशब्दाभ्याञ्चातुरार्थिकः "दुञ्छण्()" ४।२।७९ इत्यादिना ण्यः, तदन्ताज्जातादौ शैषिकेऽर्थे "धन्वयोपधाद्()वुञ्()" ४।२।१२० इति वुञ्()। अथ तद्धितग्रहणं किमर्थम्(), "नस्तद्धिते" (६।४।१४४) इति तद्धितग्रहणमनुवर्()त्तिष्यते? इत्यत आह--"तद्धितग्रहणम्()" इत्यादि। सोमी देवतस्येति "सोमाट्ट()ण्()" ४।२।२९, "टिङ्ढाणञ" ४।१।१५ इति ङीप्()। तत्र परतोऽनपत्ययकारस्यापि "हलस्तद्धितस्य" ६।४।१५० इत्यनेन लोपो यथा स्यादित्येवमर्थं तद्धितग्रहणम्(); अन्यथा यदि तदेव प्रकृतं तद्धितग्रहणमिहानुर्तेत, तदा तत्सम्बन्द्धमीद्ग्रहणमनुवत्र्तेत। तथा चोभयमिहानुवत्र्तमानं पूर्वयागेऽप्यनुवत्र्तत। तथा च पूर्वेणैव योगेन सिद्धे सत्युभयत्र तद्धित ई, ति च नियमार्थोऽयमारम्भः स्यात्()---आपत्यस्येवानाकारादौ तद्धिते लोपो भवति ईति च नानापत्ये च। एवञ्च यथानपत्यस्य साङ्कश्यक इत्यत्र लोपो न भविष्यति, तथा सौमी इष्टिरित्यत्रापि न स्यात्(); नियमेन व्यवर्त्तितत्वात्()। इह तु तद्धितग्रहणे क्रियमाणे पूर्वयोगे तद्धितग्रहणस्य निवृत्तिराख्यायते। तेन पर्वयोगेन तद्धितमात्रस्य यकारस्यानपत्यस्य चापत्यस्य चाविशेषेण लोपो विदीयते। सौमी इष्टिरित्यत्रापि लोपो यथा स्यादित्येवमर्थं तद्धितग्रहणम्()। ननु च यद्युभयत्र तद्धित इति चायं नियमः स्यात्? सूत्रद्वयस्यार्थोऽपार्थकः स्यात्()। "हल आपत्यस्यानाति" इत्येकमेव योगं कुर्यात्()। तस्मात्? सूत्रद्वयस्यारम्भसामथ्र्यादन्यतरस्यैवेहानुवृत्तिर्भवतिष्यति, न तूभयस्यापि। इह त्वेतावान्? सन्देहः स्यात्()--किं तद्धितग्रहणमिहानुवत्र्तते, उतेद्ग्रहणमिति? अत्रापि तद्धितग्रहणमनुवत्र्तते, नेद्ग्रहणमिति; व्याख्यानात्()। सरवसन्देहेष्विदमुपतिष्ठते "भवति व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम्()" (पु।प।वृ १२०) इति। तद्धितग्रहणे च केवल इहानुवत्र्तमाने तद्धितविषय एवायं नियमो भविष्यति, न त्वीद्विषय इति। तथा चासत्यपि पुनरिह तद्धितग्रहण इति नियमाभावात्? पूर्वसूत्रेण सौमी इष्टिरित्यत्रापि लोपः सिद्ध्यत्येव। तत्? कथमिदमुक्तम्()--तद्धितग्रहणीत्यनपत्यस्यापि लोपार्थमिति? सुखेन लोपः प्रतीयत इत्येतदर्थमिदमित्यभिप्रायो द्रष्टव्यः। ततश्चायमत्रार्थः सम्पद्यते--प्रतिपत्तिगौरवपरीहारार्थं तद्धितग्रहणम्()। "गाग्र्यायणः" इति। "यञिञोश्च" ४।१।१०१ इति फक्()। "कारकेयिः" इति। कारिकाया अपत्यमिति "स्त्रीब्यो ढक्()" ४।१।१२०, ततस्तस्यापत्यम्(), "अत इञ्()" ४।१।९५ कारिकेयिः॥
बाल-मनोरमा
आपत्यस्य च तद्धितेऽनाति १०६५, ६।४।१५१

तथाच गाग्र्य-ईय इति स्थिते "यस्येति चे"ति यञोऽकारस्य लोपे गाग्र्य-ईय इति स्थिते परिशिष्टस्य यञो यकारस्य लोपमाह--आपत्यस्य च। "अनाती"ति च्छेदः। "ढे लोपोऽकद्व्राः" इत्यतो लोप इत्यनुवर्तते। "सूर्यतिष्ये"त्यतो "य" इति षष्ठ()न्तमनुवर्तते। "हलस्तद्धितस्येत्यतो हल इति पञ्चम्यन्तमनुवर्तते। तदाह--हलः परस्यापत्ययकारस्येति। अपत्यार्थकयकारस्येत्यर्थः। यञो लुकि तु आदिवृद्धिर्न स्यादिति भावः। अल्लोपस्याभीयत्वेऽपि नाऽसिद्धत्वम्, आरम्भसामथ्र्यात्। "हलस्तद्धितस्ये"ति यलोपस्यात्र प्रसक्तावपि न्याय्यत्वादिदमेव भवति। गर्गीयमिति। "तस्मै हित"मिति गाग्र्यशब्दाच्छः। तस्य प्राग्दीव्यतीयत्वाऽभावात् तस्मिन्परे "यञञोश्चे"ति यञो लुग्भवत्येवेति नादिवृद्दिरिति भावः। गर्गरूप्यमिति। "हेतुमनुष्येभ्यः" इति रूप्यप्रत्ययः। तस्य प्राग्दीव्यतीयत्वेप्यजादित्वाऽभावात्तस्मिन्परे यञोऽलुङ्न। यदि तु "अजादौ प्राग्दीव्यतीये परे" इति व्याख्यायेत, तर्हि गाग्र्यशब्दाच्छे तस्य ईयादेशे कृतेऽलुग्विधिः प्रवर्तेत, नतु ततः प्राक्। एवंच छप्रवृत्तेः प्रागेव यञि अलुग्विधेः प्रवृत्तौ, यञन्तस्य वृद्धत्वाच्छो निर्बाधः। यलोपविधौ--आपत्यस्येति किम्?। गार्ग्ये। गाग्र्ययोः। अनातीति किम्? गाग्र्यायणः।

तत्त्व-बोधिनी
आपत्यस्य च तद्धितेऽनाति ८९२, ६।४।१५१

गर्गाणामिति। अपत्यबहुत्कविवक्षायां "यञञोश्चे"ति लुक्, स चाऽजादिप्रत्यये चिकर्षिते अनेन प्रतिषिद्ध इति गाग्र्यशब्दाच्छे कृते तस्य ईयादेशः। "यस्येति चे"त्यकारलोपे यलोपार्थमाह---आपत्यस्य चेति। "ढे लोपोऽकद्र्वाः" इत्यतो "लोप" इत्यनुवर्तते, "सूर्यतिष्ये"त्यतो "य" इति, "हलस्तद्धितस्ये"त्यतो "हल"इति च। तदाह--हलः परस्येत्यादि। आभीयत्वेऽप्यल्लोपो नाऽसिद्धः, आरम्भसमाथ्र्यात्। अत एवोपधाया इति नानुवर्तितमिति व्याचष्टे---यकारस्येति। आपत्यस्येति किम्()। सङ्काश्यकः। काम्पिल्यकः। "संकाशादिभ्यो ण्यः"। ततो "धन्वयोपधा"दिति वुञ्। तद्धिते इति किम्()। गर्ग्ये। गार्ग्यांयोः। अनातीति किम्()। गग्र्यायणः। गर्गीयमिति। "तस्मै हित"मिति छः।