पूर्वम्: ६।४।१६२
अनन्तरम्: ६।४।१६४
 
सूत्रम्
प्रकृत्यैकाच्॥ ६।४।१६३
काशिका-वृत्तिः
प्रकृत्या एकाच् ६।४।१६३

एकाच् यद् भसंज्ञाकं तदिष्ठेमेयस्सु परतः प्रकृत्या भवति। स्रग्विन्नित्येतस्य विन्नन्तस्य स्रजिष्ठः, स्रजीयान्, स्रजयति। स्रुग्वदित्येतस्य मत्वन्तस्य स्रुचिष्थः, स्रुचीयान्, स्रुचयति। एकाचिति किम्? वसुमतित्येतस्य वसिष्ठः, वसीयान्। प्रकृत्या ऽके राजन्यमनुष्ययुवानः। अके प्रत्यये परतो राजन्य मनुष्य युवनित्येते प्रकृत्या भवन्ति। राजन्यानां समूहो राजन्यकम्। मनुष्याणां समूहो मानुष्यकम्। आपत्यस्य च तद्धिते ऽनाति ६।४।१५१ इति यलोपः प्रकृतिभावेन न भवति। यूनो भावः यौवनिका। मनोज्ञादित्वाद् वुञ्। तस्य नस् तद्धिते ६।४।१४४ इति टिलोपो न भवति।
लघु-सिद्धान्त-कौमुदी
प्रकृत्यैकाच् १२२७, ६।४।१६३

इष्ठादिष्वेकाच् प्रकृत्या स्यात्। श्रेष्ठः, श्रेयान्॥
न्यासः
प्रकृत्यैकाच्?। , ६।४।१६३

"रुआजिष्ठः" इति। अत्र प्रकृतिवद्भावेन टिलोपो न भवति। ननु च "विन्मतोर्लुक्()" ५।३।६५ टिलोपं बाधिष्यते, नाप्राप्ते त्व()स्मस्त्वस्यारम्भात्()? नैतदस्ति; द्वौ टिलोपौ--एको विन्मत्वन्तस्य, अन्यो लुकि कृते सत्यवशिष्टस्य; तत्र योऽसौ विन्मत्वन्तस्य टिलोपस्तस्मिन्नाप्राप्ते लुगारभ्यत इति युक्तं यदसौ तं बाधते। यस्त्ववशिष्टस्य टिलोपस्तस्य प्राग्लुक्प्राप्त्यसम्भवादप्राप्त एव तस्मिन्नारभ्यमाणः कथं पश्चादुपजातप्राप्तिकं लोपं बाधेत। तस्मादारब्धव्यमिदम्()। "प्रकृत्याके राजन्य" इत्यादि। किं वक्तव्यमेतत्()? न; कथं तर्हि "तुरिष्ठेमेयस्तु" (६।४।१५४) इत्येतन्निवृत्तम्()। सामान्येनयं प्रकृतिवद्भावो विधेयः, विभाषति चानुवत्र्तते, सा च व्यवस्थितविभाषा। तेन यत्र यत्रेष्यते तत्र सर्वत्र भविष्यति, यत्र तु नेष्यते तत्र न भविष्यत्येव। एवम्? "इनण्यनपत्ये" (६।४।१६४) इत्येवमादिकं प्रकृतिभावविधानमनर्थकं स्यादिति चेत्()? न; प्रपञ्चार्थत्वात्()। "राजन्यकम्()" इति। "राज्ञोऽपत्यम्()" इति। "राज्ञोऽपत्यम्()" इति "राजरुषसुराद्यत्()" ४।१।१३७ तस्मात्समूहेर्थे "गोत्रोक्षोष्ट्रोरभ्र" ४।२।३८ इत्यादिनात्र वुञ्()। "मानुष्यकम्()" इति। मनोरपत्यमिति "मनोर्जातावञ्यतौ षुक्च" ४।१।१६७ इति येषां मतेऽपत्यार्थे यत्(), तेषां पूर्वसूत्रेण वुञि कृते लोपः प्राप्नोति, स प्रकृतिबावान्निवत्र्तते। येषान्तु मतेन जातिमात्रे यत्(), नापत्ये, तेषां नार्थः प्रकृतिभावेन; अनापत्ययकारत्वादेव हि लोपो न भविष्यति॥
बाल-मनोरमा
प्रकृत्यैकाच् , ६।४।१६३

प्रकृत्यैकाच्। एकोऽच् यस्येति बहुव्रीहिः। इष्ठादिष्विति। "तुरि,()ठेमेयःसु" इत्यत तदनुवृत्तेरिति भावः। "अल्लोपोऽनः," "नस्तद्धिते""यस्येति च," "टे"रित्यादेरेतत्प्रकरणस्थलसोपस्यायं प्रकृतिभाव इति भाष्ये स्पष्टम्। श्रेष्ठः। श्रेयानिति। अयमनयोरतिशयेन प्रशस्त इत्यर्थः।

तत्त्व-बोधिनी
प्रकृत्यैकाच् १५०६, ६।४।१६३

श्रेष्ठ इति। प्रकृतिभावादिह "टे"रिति लोपो "यस्ये"ति लोपश्च न भवति। ज्यादादी। ज्यादुत्तरस्य ईयसुन आकारादेशः श्यात्।