पूर्वम्: ६।४।१६६
अनन्तरम्: ६।४।१६८
 
सूत्रम्
अन्॥ ६।४।१६७
काशिका-वृत्तिः
अन् ६।४।१६७

अन्नन्तमणि प्रकृत्या भवति अपत्ये चानपत्ये च। सामनः। वैमनः। सौत्वनः। जैत्वनः।
लघु-सिद्धान्त-कौमुदी
अन् १०२७, ६।४।१६७

अन् प्रकृत्या स्यादणि परे। राजनः। श्वशुर्यः॥
लघु-सिद्धान्त-कौमुदी
अन् १२०५, ६।४।१६७

एतदः प्राग्दिशीये। अनेकाल्त्वात्सर्वादेशः। अतः। अमुतः। यतः। ततः। बहुतः। द्व्यादेस्तु द्वाभ्याम्॥
न्यासः
अन्?। , ६।४।१६७

"अनपत्ये" इति। निवृत्तम्()। सामान्येनाष्मत्रे विधिः। "सामनः, वैमनः" इति। "तस्येदम्()" ४।३।१२० इत्यण्()। "सौत्वनः" इति। "षुञ्? अभिषवे" (धा।पा।१२४७) "सुमुजोर्ङ्वनिप्()" ३।१।१०६ इति ङवनिप, "ह्यस्वस्य पिति कृति तुक्()" ६।१।६९
बाल-मनोरमा
अन् ११३९, ६।४।१६७

अन्। "इनण्यनपत्ये" इत्यतोऽणीत्यनुवर्तते। "प्रकृत्यैका"जित्यतः प्रकृत्येति च। तदाह--अणीति। राज्यमिति। "गुणवचनब्राआहृणादिभ्यः" इति ष्यञ्। टिलोपः।

तत्त्व-बोधिनी
अन् ९४९, ६।४।१६७

टिलोपो नेति। "नस्तद्धिते"इति प्राप्तष्टिलोपो नेत्यर्थः।