पूर्वम्: ६।४।१६७
अनन्तरम्: ६।४।१६९
 
सूत्रम्
ये चाभावकर्मणोः॥ ६।४।१६८
काशिका-वृत्तिः
ये च अभावकर्मणोः ६।४।१६८

यकारादौ च तद्धिते अभावकर्मणोरर्थयोः अन् प्रकृत्या भवति। सामसु साधुः सामन्यः। वेमन्यः अभावकर्मणोः इति किम्? राज्ञो भावः कर्म वा राज्यम्। राजनिति पुरोहितादिषु पठ्यते, ततो ऽयं यक्प्रत्ययः।
लघु-सिद्धान्त-कौमुदी
ये चाभावकर्मणोः १०२६, ६।४।१६८

यादौ तद्धिते परेऽन् प्रकृत्या स्यान्न तु भावकर्मणोः। राजन्यः। जातावेवेति किम्? -।
न्यासः
ये चाभावकर्मणोः। , ६।४।१६८

"सामन्यः, वेमन्यः" इति। "तत्र साधुः" ४।४।९८ इति यत्()॥
बाल-मनोरमा
ये चाऽभावकर्मणोः ११३८, ६।४।१६८

ये चाभा। अनिति पूर्वसूतद्रमनुवर्तते। "प्रकृत्यैका"जित्यतः प्रकृत्येति। अङ्गाधिकारलब्धप्रत्ययो यकारेण विशिष्यते। तदादिविधिः। तदाह-यादाविति। राजन्य इति। "क्षत्रियात्क्षात्रयायां स्वभार्यायामुत्पन्नो राजन्य" इति धर्मशास्त्रेषु प्रसिद्धम्। यत्प्रत्यये प्रकृतिभावान्न टिलोपः। शूद्रादाविति क्षत्रियाच्छूद्रायां वा तदन्यस्यां वा अनूढायामुत्पन्न इत्यर्थः। राजन इति। अणि रूपम्। तत्र "नस्तद्धिते" इति टिलोपे प्राप्ते--।