पूर्वम्: ६।४।१६८
अनन्तरम्: ६।४।१७०
 
सूत्रम्
आत्माध्वानौ खे॥ ६।४।१६९
काशिका-वृत्तिः
आत्माध्वानौ खे ६।४।१६९

आत्मनध्वनित्येतौ खे परतः प्रकृत्या भवतः। आत्मने हितः आत्मनीनः। अध्वानमलङ्गामी अध्वनीनः। खे इति किम्? प्रत्यात्मम्। प्राध्वम्। प्रत्यात्मम् इति अव्ययीभावे अनश्च ५।४।१०८ इति समासान्तः टच्प्रत्ययः। प्राध्वम् इति उपसर्गादध्वनः ५।४।८५ इति अच्प्रत्ययः।
लघु-सिद्धान्त-कौमुदी
आत्माध्वानौ खे ११४५, ६।४।१६९

एतौ खे प्रकृत्या स्तः। आत्मने हितम् आत्मनीनम्। विश्वजनीनम्। मातृभोगीणः॥
लघु-सिद्धान्त-कौमुदी
इति छयतोरवधिः। (प्राक्क्रीतीयाः) ९ ११४५, ६।४।१६९

लघु-सिद्धान्त-कौमुदी
अथ ठञधिकारः ११४५, ६।४।१६९

न्यासः
आत्माध्वानौ खे। , ६।४।१६९

"आत्मनीनम्()" इति। "आत्मन्वि()आजनभोगोत्तरपदात्? खः" ५।१।९। "अध्वनीनम्()" इति। अत्रापि "अद्वने यत्खौ" ५।२।१६ इति खप्रत्ययः। "प्रत्यात्मम्()" इति। आत्मानं प्रतीति "अव्ययं विभक्ति" २।१।६ इत्यादिना यथार्थेऽव्ययीभावः। ततः "अनश्च" ५।४।१०८ इति टच्()। "प्राध्वम्()" इति। प्रगतमध्वानमिति प्रादिसमासः, "उपसर्गादध्वनः" ५।४।८५ इत्यच्()॥
बाल-मनोरमा
आत्माऽध्वानौ खे १६४९, ६।४।१६९

तत्र टिलोपे प्राप्ते--आत्माध्वानौ खे। प्रकृत्या स्त इति। "प्रकृत्यैक"जित्यस्तदनुवृत्तेरिति बावः। कर्मधारयादेवेति। "वि()आजनशब्दा"दिति शेषः।?त्र व्याख्यानमेव शरणम्। वि()आजनीयमिति। वि()आस्य जनो वि()आजनः=साधारमो वैद्यादिः। वि()आओ जनो यस्येति बहुव्रीहिर्वा। तस्मै हितमिति विग्रहः।

पञ्चजनीनमिति। ब्राआहृणक्षत्रियवैश्यशूद्राश्चत्वारो वर्णा रथकारजातिश्चेत्येते पञ्चजनां। तेभ्यो हितमिति विग्रहः।

सर्वजनाट्ठञ्खश्चेति। "वक्तव्य" इति शेषः "समानाधिकरणादिति वक्तव्य"मिति वार्तिकं भाष्ये स्थितम्

महाजनाट्ठञिति। "वक्तव्य" इति शेषः। वि()आजनप्रसङ्गादिदं वार्तिकद्वयमुपन्यस्तम्। अथ भोगोत्तरपदस्योदाहरति--मातृभोगीण इति। मातृभोगाय हित इत्यर्थः। आचार्यादिति। आचार्यशब्दात्परस्य भोगीनशब्दस्य नस्य णत्वाऽभावो वाच्य इत्यर्थः। नच असमानपदस्थत्वादेवात्र मत्वास्याऽप्रसक्तेस्तन्निषेधो व्यर्थ इति वाच्यं, मातृभोगीणादौ णत्वज्ञापनार्थत्वात्।

तत्त्व-बोधिनी
आत्माऽध्वानौ खे १२७३, ६।४।१६९

कर्मधारयादेवेति। व्याख्यानादिति भावः। वि()आजनीयमिति। वि()आस्य जनः= सर्वसाधारणो वेश्यादिः। वि()आओ जनोऽस्येति बहुव्रीहावपि स एवान्यपदार्थः। तस्मै हितमिति विग्रङः।

पञ्चजनादुपसङ्ख्यानम्। पञ्चजनीनमिति। रथकारपञ्चमाश्चत्वारो वर्णाः पञ्चजनास्तेभ्यो हितम्। "दिक्सङ्ख्ये संज्ञाया"मिति समासः। "पञ्चजना"दित्येतत्प्रभृति वार्तिकत्रयमपि कर्मधारयविषयमेव। तेन षष्ठीसमासाद्बहुव्रीहेश्छ एव। पञ्चजनीयः। सर्वजनीन इति। सर्वो जनः सर्वजनः। "पूर्वकालैके"ति तत्पुरुषः। तस्मै हितमिति विग्रङः। साध्वर्थे तु "प्रतिजनादिभ्यः ख"ञिति खञि सार्वजनीनवै()आजनीनशब्दौव्युत्पादितौ।

महाजनाट्ठञ्। मातृभोगीण इति। इहाऽखण्डपदत्वाऽभावेऽपि "अट्कुप्वा"ङित्यनेन यथा णत्वं भवति तथा प्रागेवोपपादितम्। मातुर्भोगः=शरीरं, तस्मै हित इति विग्रहः। यद्यपि "भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययो"रित्यमरेण अहेरित्युक्तं, तथापि प्रयोगबाहुल्याभिप्रायं तत्। शक्तिस्तु शरीरमात्रे इत्याकरः। मातृपितृशब्दाभ्यामौत्सर्गिकश्छ एव। मात्रीयः। पित्रीयः। राजाचार्यादिभ्यां त्वौत्सर्गिकश्छोऽपि न भवति, अनभिधानात्। किं तु राज्ञे हितमाचार्याय हितमिति वाक्यमेवेत्याकरः।