पूर्वम्: ६।४।१
अनन्तरम्: ६।४।३
 
सूत्रम्
हलः॥ ६।४।२
काशिका-वृत्तिः
हलः ६।४।२

अङ्गावयवाद् धलो यदुत्तरं सम्प्रसारणम् तदन्तस्य अङ्गस्य दीर्घो भवति। हूतः। जीनः। संवीतः। हलः इति किम्? उतः। उतवान्। अङ्गावयवातिति किम्? निरुतम्। तदन्तस्य इति किम्? विद्धः। विचितः। अणः इत्येव, तृतीयः। तृतीया इति वा निपातनादत्र दीर्घाभावः। अङ्गग्रहणम् आवर्तयितव्यम् हल्विशेषणार्थम्, अङ्गकार्यप्रतिपत्त्यर्थं च।
लघु-सिद्धान्त-कौमुदी
हलः ८२२, ६।४।२

अङ्गावयवाद्धलः परं यत्संप्रसारणं तदन्तस्य दीर्घः। जीनः॥
न्यासः
हलः , ६।४।२

अण्ग्रहणं सम्प्रसारणग्रहणं दीर्घग्रहणञ्चैतत्? तरयमनुवत्र्तते। कुतः पुनः प्रकृतमण्ग्रहणम्()? "ढ्रलोपे पूर्वस्य दीर्घोऽणः" ६।३।११० इत्यतः। ननु तत्? "इकः काशे" ६।३।१२२ इतीग्ग्रहणेन व्यवच्छिन्नम्(), तत्? कथमिहानुवत्र्तते? नैष दोषः, इग्ग्रहणेन ह्रणेव विशिष्यते--अण्णिगित। ततो विरोधाभावन्नेग्ग्रहणेनाण्ग्रहणं व्यवच्छिद्यते। ननु च यदीग्ग्रहणेनाण्ग्रहणं विशिष्यते, तदा--"अवाचा, स्वराचा" इत्यत्र दीर्घत्वं न स्यात्()। "चौ" ६।३।१३७ इत्त्राण्ग्रहणमेवात्रानुवर्त्तिष्यते, इग्ग्रहणं तु निवृत्तमित्येषोऽपयदोषः। अथ वा--यद्यपीग्ग्रहणेनाण्ग्रहणं व्यवच्छिन्नम्(), तथापीह मण्डूकप्लुतिन्यायेनानुवत्र्तते। ननु यथा "शेषे" ४।२।९१ इत्येतल्लक्षणं विधिरधिकारश्च, तथा "अङ्गस्य" ६।४।१ इत्येतदपि, ततश्चानेनैव हूतः, जीन इत्यादेः सिद्धत्वादपार्थकं "हलः" इत्येतद्वचनम्()। अतो न कत्र्तव्यमेवेति मन्यमान आह--"हल इति किम्()" इति। किमर्थं "हलः" इत्येतत्? सूत्रमारभ्यत इत्यर्थ। "उतः, उतवान्()" इति। असत्यस्मिन्? सूत्रे सन्प्रसारणान्तस्याङ्गस्य दीर्घो भवतीत्युच्यमान इहापि दीर्घत्वं स्यात्()। भवति ह्रेतदपि व्यपदेशिवद्भावेन सम्प्रसारणान्तमङ्गम्(), तस्मात् "हलः" इति सूत्रं कत्र्तव्यम्()। "विद्धः" विचितः" इति। "व्यध ताडने" (धा।पा।११८१) "व्यच व्याजीकरणे" (दा।पा।१२९३) निष्ठा, ग्रह्रादिसूत्रेण ६।१।१६ सम्प्रसारणम्()। सम्प्रसारणान्तस्याङ्गस्य ग्रहणादिह न भवति दीर्घः। यद्यपि "विध्यत्यधनुषा" ४।४।८३ "ग्रहिज्यावयिव्यधिवष्टिविचति" (६।१।१६) इति निर्देशात्? हलन्तस्य यत्? सम्प्रसारणं तस्य दीर्घो न भविष्यतीति विज्ञायते, तथापि ज्ञापकद्वारेणास्मिन्नर्थे प्रतिपाद्यमाने प्रतिपत्तिगौरवं स्यादित्येतत्परिहारार्थं सम्प्रसारणान्तस्येत्युक्तम्()। "तृतीयः" इति। "द्वेस्तीयः" ५।२।५३ इति "त्रेः सम्प्रसारणञ्च" ५।४।५५ इति तीयप्रत्ययः सम्प्रसारणञ्च। सर्वमात्रास्ति, न त्वण्()? कस्मान्नास्त्यण्()? यस्मात्? "ढ्रलोपे" पूरवस्य दीर्घोऽणः" ६।३।११० इत्यत इहाण्ग्रहणमनुवत्र्तते, तत्र च पूर्वेणैव णकारेण प्रत्याहारग्रहणम्(), न च तत्र ऋकारः सन्निविष्ट इति भवत्येव प्रत्युदाहरणम्()। "तृतीयेति वा" इत्यादि। अथ वा "अण" इत्येतन्निवृत्तमेव। तथाप्यत्र न भवत्येव दीर्घः; "कर्त्तुकरणयीस्तृतीया" २।३।१८ इति निपातनात्()। "हलः" इत्येतसय त्रयोऽर्थाः सम्भाव्यन्ते, हल उत्तरस्य सम्प्रसारणान्तस्याङग्सय् दीर्घो भवति--अयमेकोऽर्थः, अङ्गवयवाद्धल उत्तरस्य सम्प्रसारणस्य दीर्घो भवति--इति द्वितीयः, तृतीयस्तु वृत्तिकारेणैव दर्शितः। तत्र यदि प्रथमः पक्ष आश्रीयते, तदा निरुतम्(), दुरुतमित्यत्रापि स्यात्()। भवति ह्रेतदपि हल उत्तरं समप्रसारणान्तमङ्गम्()। अथ द्वितीयस्तदा विद्धः, विचित इत्यत्रापि स्यात्()। अत्राप्याङ्गवयवाद्धल उत्तरं सम्प्रसारणमिति। अथ "विध्यत्यधनुषा" ४।४।८३, "ग्रहिज्यावयिव्यधिवष्टिविचति" (६।१।१६) इति निर्देशान्न भविष्यति? ततश्च ज्ञापकद्वारेणैवंविधे दीर्घत्वाभावे प्रतिपत्तिगौरवं स्यादेव। तस्मादेतस्यैव दोषस्य परिजिहीर्षया तृतीयोऽर्थो वृत्तिकारेण द्रशितः। अत्रापि देश्यमिदमाशङ्क्यते--ननु चायमर्थोऽस्य सूत्रस्य नोपपद्यत एव, यस्मादङ्गस्येत्येकमङ्गग्रहणं प्रकृतम्()। तच्च हलो विशेषणं वा स्यात्(), अङ्गस्य कार्यप्रतिपत्त्यर्थं वा। तत्र यदि पूर्वकः पक्ष आश्रीयते तदाङ्गविशिष्ट सम्प्रसारणान्तस्याङ्गस्येति यावद्दीर्घो न लभ्यते। अथ द्वितीयस्तदा हल्? विशेषितो न स्यात्()। तस्माद्()द्वितीयमङ्गग्रहणं कत्र्तव्यं स्यात्()। न ह्र#एकेन शक्यमेतदुभयं प्रतिपादयितुम्()। अतोऽस्य देश्यस्य निरासायाऽ‌ऽवृत्तिन्यायमाश्रित्याह--"अङ्गग्रहणम्()" इत्यादि। एकमपि हि वस्त्वावर्त्त्यमानमनेकत्रोपयुज्यते। यथैकं भाजनमसहभुजामनेकेषां भुजिक्रियायाम्(), तथेदमङ्गग्रहणमावर्त्त्यते। तत्रानावृत्तेन हल्? विशिष्यते, आवृत्तेन त्वङ्गस्य दीर्घत्वं भवतीत्युभयथार्थप्रतिपत्तिर्भवति॥
बाल-मनोरमा
हलः ३८६, ६।४।२

दिग्योगे पञ्चम्येषा। हलः परस्येति लभ्यते। "संप्रसारणस्ये"ति सूत्रमनुवर्तते। अङ्गस्येत्यधिकृतमिहानुवृत्तमावर्त्त्यते। एकमवयवषष्ठ()न्तं हल इत्यत्रान्वेति। अङ्गावयवाद्धल इति लभ्यते। द्वितीयं तु स्थानषष्ठ()न्तं संप्रसारणेन विशेष्यते। तदन्तविधिः। "ढ्रलोपे" इत्यतो दीर्घ इत्यनुवर्तते। तदाह -- अङ्गावयवादित्यादिना। उदाहरणं तु -- वीतः, शूनः, जीनः। हल इति किम्?। उतः उतवान्। अङ्गावयवात् किम्?। निरुतम्। तदन्ताङ्गस्येति किम्?। विध्यति। एषामिति। व्रीभ्रीक्षीषामित्यर्थः। ल्वादय एव वृत्ताः, न तु प्वादय इति मते इति भावः। ज्ञा अवबोधने। शिति जादेशं स्मारयति -- ज्ञाजनोर्जेति। दीर्घनिर्देशे"ति। प्वादित्वेऽपि आकारोच्चारणसामथ्र्यान्न ह्यस्व इति भावः। बन्ध बन्धने। अनिट्। नोपधः। बन्धातीति। "अनिदिता"मिति नलोप इति भावः। भारद्वाजनियमात्थलि वेडिति मत्वाऽ‌ऽह-- बबन्धिथ बबन्द्धेति। अकित्त्वान्नलोपो न। अनिट्पक्षे तु "झषस्तथो"रिति थस्य धः। बन्धेति। तासि।झषस्तथो"रिति तकारस्य धः। भन्त्स्यतीति। "एकाचः" इति बस्य भष्। धस्य चर्त्वेन तः। बधानेति। "हलः श्नः शानज्झौ" इति शानच्। अभान्त्सीदिति। हलन्तलक्षणावृद्धिः। भष्भावः। अबान्द्धामित्यत्र सकारपरकत्वाद्भष्भावमाशङ्क्याह-- पूर्वत्रत्यादि। ननु कृते सिज्लोपे प्रत्ययलक्षणमाश्रित्य सकारपरकत्वाद्भष् दुर्वार इत्यत आह-- प्रत्ययलक्षणेनेति। अबान्द्धामिति। "झषस्तथो"रिति तस्य धः। श्रन्थ विमोचने। श्रन्थिग्रन्थीत्यादिनेति। "श्रन्थिग्रन्थिदम्भिस्वञ्जीना लिटः कित्त्वं वे"ति व्याकरणान्तरेणेत्यर्थः। अस्मिन्नपि पक्षे इति। "पितामपीदं कित्त्व"मिति सुधाकरमतेऽपि प्रथमपुरुषणलि --शश्राथ। उत्तमपुरुषणलि तु शश्राय शश्रयेति माधव आहेत्यर्थः। तत्र मूलमिति। "कित्त्वपक्षे एत्त्वाभ्यालोपा"वित्यारभ्य "माधव" इत्यन्तसंदर्भे मूलं नास्तीत्यर्थः। संयुक्तहल्मध्यस्थत्वादेवंविधवार्तिकाऽदर्शनाच्चेति भावः। कुष निष्कर्षे।