पूर्वम्: ६।४।१९
अनन्तरम्: ६।४।२१
 
सूत्रम्
ज्वरत्वरश्रिव्यविमवामुपधायाश्च॥ ६।४।२०
काशिका-वृत्तिः
ज्वरत्वरस्रिव्यविमवाम् उपधायाश् च ६।४।२०

ज्वर त्वर स्रिवि अव मव इत्येतेषाम् अङ्गानां वकारस्य उपधायाश्च स्थाने ऊथ् इत्ययम् आदेशो भवति क्वौ परतो ऽनुनासिके झलादौ च क्ङिति। जूः, जूरौ, जूरः। जूर्तिः। त्वर तूः, तूरौ, तूरः। तूर्तिः। स्रिविस्रूः, स्रुवौ, स्रुवः। स्रूतः। स्रूतवान्। स्रूतिः। अव ऊः, उवौ, उवः। ऊतिः। मव मूः, मुवौ, मुवः। मूतः। मूतवान्। मूतिः। ज्वरत्वरोपधा वकारात् परा, स्रिव्यवमवां पूर्वा।
लघु-सिद्धान्त-कौमुदी
ज्वरत्वरस्रिव्यविमवामुपधायाश्च ८६८, ६।४।२०

एषामुपधावकारयोरूठ् अनुनासिके क्वौ झलादौ क्ङिति॥ अतः क्विप्। जूः। तूः। स्रूः। ऊः। मूः॥
न्यासः
ज्वरत्वररिउआव्यविमवामुपधायाश्च। , ६।४।२०

रिउआव्यविमवां वकारसय पूर्णेणैव सिद्धम्()। उपधायास्तु न सिध्यतीति तदर्थमेषां ग्रहणम्()। ज्वरत्वरयोस्तु वकारस्यापि पूर्वेण न सिध्यति; अनयोरकाररेफाभ्यां झलादेः क्विपश्च व्यवधानात्()। तस्मात्? तयोर्वकारार्थमुपधार्थञ्च ग्रहणम्()। "जूः, जुरौ, जुरः" इति। "ज्वर रोगे" (धा।पा।७७६) वकारस्योपधायाश्चोठि कृते "सम्प्रसारणाच्च" ६।१।१०४ इति पूर्वरूपत्वम्()। "जर्त्तिः" इति। क्तिन्()। "तूः" इति। "ञि त्वरा सम्भ्रमे" (धा।पा।७७५) "तूर्णः"["तूर्त्तिः--काशिका-"तूर्णः" इति नास्ति] इति। "रदाब्यां निष्ठातो नः" ८।२।४२ इति नत्वम्()। "स्रूः इति। "रिउआवुगतिशोषणयोः" (धा।पा।११०९)। सवरणदीर्घः। "रुआउवौ, रुआउवः" इति। "अचि श्नुधातु" ६।४।७७ इत्यादिनोवङ। "ऊः" इति। "अव रक्षणे" [रक्षण कान्तिप्रीतितृपत्यवगमप्रवेशश्रवणस्वणस्वम्यर्थयाचनक्रियेच्छादीप्त्यवापत्यालिङ्गनहिंसादानभागवृद्धिषु--धा।पा] (धा।पा।६००)। "मूः" इति। "मव बन्धने" (धा।पा।५९९)। इह ज्वरादिसम्बन्धिन्या उपदाया ऊङ्()विधीयते, उपधा चालोऽन्त्यात्पूर्वो वर्णः, अन्त्यत्वञ्चापेक्षितम्(); तत्र यथा--श्रेयान्, श्रेयांसावित्यत्र सकारात्? पूर्वे ये वर्णास्तेषामन्त्यो यो नकारस्तस्मात्? पूर्वो वर्ण उपदा, तथा ज्वरादीनामपि यो पूर्वौ वर्णौ तयोर्योऽन्त्यो वर्णस्तस्मात्? पूर्व उपधा, सा च ज्वरादीनां सम्बन्धिनी; तदवयवत्वात्(), ततश्च तस्या अप्युपदाया ऊठा भवितव्यमिति कस्याचित्? भ्रान्तिः स्यात्()। अतस्तां निराकर्तुं यस्या उपदाया ऊठा भवितव्यं तां दर्शयितुमाह--"ज्वरत्वरयोरुपधा वकारात्परा" इत्यादि। यस्या उपधाया ऊठा भवितव्यम्(), सोहोपधाशब्देन विवक्षिता। किं पुनः कारणस्या वृत्तिकारोपदर्शिताया उपधाया ऊङ्भवति, नान्यस्याः? क्वझल्भ्यां क्ङिता चोपधाविसेषणात्()। अत्र क्विप्प्रत्ययेन झलादिना क्ङिता चोपधा विशिष्यते--ज्वरादीनां योपधा क्वौ झलादौ च परतस्तस्या उपधाया ऊङ्भवतीति। अत्र "येन नाव्यवधानं तेन व्यवहितेऽपि" (व्या।प।४६) इत्यादिना यत्रैकेन वर्णेन व्यवधानं वृत्तिकारेणोक्ताया उपदायाः सम्भवति, तस्या एवोङ्भवति,
तत्त्व-बोधिनी
ज्वरत्वररिउआव्यविमवामुपधायाश्च ४१३, ६।४।२०

ज्वर रोगे। ञित्वरा संभ्रमे। अत्र वृत्तौ "झलादौ क्ङिती"त्युक्तं तत्र क्ङितीत्येतद्रभयसकृतमेवेत्याह-- क्ङितीति नानुवर्तत इति। अवतेस्तुनीति। "ज्वरत्वरे"त्युपधावकारयोरूठि गुणे च कृते मन्प्रत्ययस्य टिलोपे चोमिति सिध्यतीत्यर्थः। ज्वरादेरुदाहरणं क्विपि जूः। जुरौ। जुरः। झलादौ तु-- जूर्तिः। जूर्णः। जूर्णवान्। त्वर-- तूः। तुरौ। तुरः। तूर्तिः। तूर्णः। तूर्णवान्। रिउआवि- स्रूः। रुआउवौ। रुआउवः। रुआऊतिः। अवि-- ऊः। उवौ। उवः।ऊतिः। मव-- मूः। मुवौ। मूतः। मूतिः। मामोषीत्यादि। ईट्पक्षे मामवीषि। मामवीमि। मामवीतु। अमामवीत्। अमामवीरिति बोध्यम्। राल्लोपः। "च्छ्वोः शू"डित्तश्च्छ्वोरित्यनुवर्तते। क्वावुदाहरणं--तूः। तुरौ तुरः। धुर्वी-- धूः। धुरौ। धुरः। मुच्र्छा--मूः। मुरौ। मुरः।