पूर्वम्: ६।४।२०
अनन्तरम्: ६।४।२२
 
सूत्रम्
राल्लोपः॥ ६।४।२१
काशिका-वृत्तिः
राल् लोपः ६।४।२१

रेफादुत्तरयोः छ्वोर्लोपो भवति क्वौ परतो झलादौ क्ङिति च परतः। मुर्च्छा मूः, मुरौ, मुरः। मूर्तः। मूर्तवान्। मूर्तिः। न ध्याख्यापृ̄मूर्छिमदाम् ८।२।५७ इति निष्ठानत्वाभावः। हुर्च्छा हूः, हुरौ, हुरः। हूर्णः। हूर्णवान्। हूर्तिः। राल्लोपे सुतुक्कस्य छस्य अभावात् केवलो गृह्यते। वकारस्य तुर्वी तूः, तुरौ, तुरः। तूर्णः। तूर्णवान्। तूर्तिः। धुर्वी धूः, धुरौ, धुरः। धूर्णः। धूर्णवान्। धूर्तिः।
लघु-सिद्धान्त-कौमुदी
राल्लोपः ८४५, ६।४।२१

रेफाच्छ्वोर्लोपः क्वौ झलादौ क्ङिति। धूः। विद्युत्। ऊर्क। पूः। दृशिग्रहणस्यापकर्षाज्जवतेर्दीर्घः। जूः। ग्रावस्तुत्। (क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसम्प्रसारणं च)। वक्तीति वाक्॥
न्यासः
राल्लोपः। , ६।४।२१

"मूर्छा" इति। "मुर्छा मोहसमुच्छ्राययोः" (धा।पा।२१२)। "हूर्छा" इति। "हुर्छा कौटिल्ये" (धा।पा।२११) कथं पुनरत्र च्छकारलोपो भवति, यावता नात्र सूत्रे छकार उपात्तः; योऽपि प्रकृतः सोऽपि सतुक्कः, नात्र तुगस्ति, न हि रेफस्य च्छे क्वचित्? तुग्विहितः? इत्याह--"राल्लोपे सतुक्कस्य" इत्यादि। उत्तरत्रानुवृत्तिर्यथा स्यादिति पूर्वसूत्रे च्छकारस्य स्वरितत्वं प्रतिज्ञातम्(), न च रः परः सतुक्कः सम्भवति। तत्र समाथ्र्यात्? तुग्रहित एवानुवत्र्तते। अथ वा--पूर्वसूत्रे द्विच्छकानिर्देशः; तत्रैकः सतुक्कः, परस्तुग्रहितः। सम्भवति चागमशासनस्यानित्यत्वाद्धा तुग्रहितश्छकारः। एवञ्च कृत्वा यदुक्तम्()--नङो ङित्त्वं गुणप्रतिषेधार्थमिति, तदुपपन्नं भवति। तदेवं यद्यपि पूर्वसूत्रे छकारौ प्रकृतौ, तथापि रेपात्? परः सतुक्को न सम्भवति। केवलो यस्तुग्रहितः स एवानुवत्र्तते। "तूः, धूः" इति। "तुर्वी थुर्वी दुर्वी धुर्वी हिंसार्थाः" (धा।पा।५७०-५७३)॥