पूर्वम्: ६।४।२१
अनन्तरम्: ६।४।२३
 
सूत्रम्
असिद्धवदत्राभात्॥ ६।४।२२
काशिका-वृत्तिः
असिद्धवत्राऽ भात् ६।४।२२

असिद्धवतित्ययम् अधिकारः। यदित ऊर्ध्वम् अनुक्रमिष्यामः आ अध्यायपरिसमाप्तेः तदसिद्धवत् भवति इत्येवं वेदितव्यम्। आ भातिति विषयनिर्देशः। आभसंशब्दनाद् यदुच्यते तत्र कर्तव्ये। अत्र इत् समानाश्रयत्वप्रतिपत्त्यर्थं। तच् चेदत्र यत्र भवति तदा भात् शास्त्रीयं विधीयते तदाश्रयम् एव भवति। व्याश्रयं तु नासिद्धवद् भवति इत्यर्थः। असिद्धवचनम् उत्सर्गलक्षणभावार्थम्, आदेशलकषणप्रतिषेधार्थं च। एधि, शाधि इत्यत्र एत्वशाभावयोः कृतयोः झल्लक्षणं धित्वं न प्राप्नोति, असिद्धत्वाद् भवति। आगहि, जहि इत्यत्र अनुनासिक लोपे जभावे च अतो हेः ६।४।१०५ इति लुक् प्राप्नोति, असिद्धत्वान् न भवति। आ भातिति किम्? अभाजि। रागः। अत उपधायाः ७।२।११६ इति वृद्धौ कर्तव्यायां नलोपो नासिद्धो भवति। अत्रग्रहणं किम्? पपुषः पश्य। चिच्युषः पश्य। लुलुवुषः पश्य। वसुसंप्रसारणम् आल्लोपे यणादेशे उवङादेशे च कर्तव्ये नासिद्धं भवति। आल्लोपादीनि वसौ, वसन्तस्य विभक्तौ संप्रसारणम् इति समानाश्रयत्वं न अस्ति। असिद्धं बहिरङ्गमन्तरङ्गे इति? एतदप्यत्र न भवति। किं कारणम्? एषा हि परिभाषा आभाच्छास्त्रीया। तस्यां प्रवर्तमानायां वसुसंप्रसारणादीनामाभाच्छास्त्रीयाणाम् एव असिद्धत्वादन्तरङ्गबहिरङ्गयोः युगपत् समुपस्थापनं न अस्ति इति परिभाष न प्रवर्तते। वुग्युटावुवङ्यणोः सिद्धौ भवत इति वक्तव्यम्। वुगुवङादेशे बभूव, बहूवतुः, बव्हूवुः। युट् यणादेशे उपदिदीये, उपदिदीयाते, उपदेदीयिरे। आभातित्ययम् अभिविधावाङ्। तेन भाधिकारे ऽप्यसिद्धवद् भवति।
लघु-सिद्धान्त-कौमुदी
असिद्धवदत्राभात् ५६४, ६।४।२२

इत उर्ध्वमापादसमाप्तेराभीयम्, समानाश्रये तस्मिन्कर्तव्ये तदसिद्धम्। इति जस्यासिद्धत्वान्न हेर्लुक्। जहि, हतात्। हतम्। हत। हनानि। हनाव। हनाम। अहन्। अहताम्। अघ्नन्। अहन्। अहतम्। अहत। अहनम्। अहन्व। अहन्म। हन्यात्। हन्याताम्। हन्युः॥
न्यासः
असिद्धवदत्रा भात्?। , ६।४।२२

"असिद्धवद्भवतीत्येवं वेदितव्यम्()" इति। सिद्धशब्दोऽयं परिनिष्पन्नवचनः। यथा--"सिद्ध ओदनः" इति। न सिद्धमसिद्धम्(), सिद्धकार्याकरणसाधम्र्येणासिद्धेन तुल्यं वत्र्तत इत्यसिद्धवत्()। किं पुनस्तत्()? प्राधान्यात्? कार्यमित्येके; शास्त्रं हि कार्यार्थम्(), अतः शास्त्रापेक्षया कार्यस्य प्राधान्यम्(); व्याप्तेन्र्यायात्()। शास्त्रस्यावधित्वेनोपादानाच्च शास्त्रस्यासिद्धवदभावो युक्तः, अन्यथा हि कार्यमेव किञ्चिदवधित्वेनोपादीयेत। अथाभाट्ग्रहणं किमर्थम्(), यावता स्वरितलिङ्गासङ्गादन्तरेणाप्याभाद्ग्रहणमा पादपरिसमाप्तेरसिद्धवदित्यनुवर्त्तिष्यते? इत्याह--"आ भादिति विषयनिर्देशः" इति। असति ह्रा भाद्ग्रहणे न ज्ञायते--कस्मिन्? कत्र्तव्य इदं प्रकरणमसिद्धवद्भवति; तस्मादा भादिति विषयनिर्देशः क्रियते--आ भसंशब्दनाद्यद्वक्ष्यते तस्मिन्? कत्र्तव्यतया विषयभूतेऽसिद्धवद्भवतीत्यस्यार्थस्य परिज्ञानाय। यद्येवम्, अत्रेत्येतपदार्थकलमेतद्विषयनिर्देशार्थं क्रियते, स च विषय आ भादित्यनेनैव निर्दिष्टः? इत्यत आह--"अत्र" इत्यादि। समान एव आश्रयो निमित्तं यस्य तत्? समानाश्रयम्(), तस्य भावः समानाश्रयत्वम्। तस्य प्रसिद्धये परिज्ञानायात्रग्रहणम्, तच्चेदत्रेति भवतीति वाक्शेषः। तदित्यनेन यस्यासिद्धवद्भावो विधीयते तन्निर्दिश्यते। अत्रेत्यनेनापि यत्र ततोऽन्यदाभाच्छास्त्रीयं तत्? तदाश्रयमेव भवतीति। असिद्धवदिति वक्ष्यमाणेनाभिसम्बध्यते। तदित्यनेन यत्रा भाच्छास्त्रीयं विधीयते तस्य परामर्शः। स आश्रयो निमित्तं यस्य तत्? तदाश्रयम्()। एवकारोऽवधारणार्थः। तदेवासिद्धवद्भवतीति यावत्()। "व्याश्रयस्तु नासिद्धवद्भवति" इति। एवकारेण यद्व्यवच्छिन्नं तद्दर्शयति। यत्र तदाभाच्छास्त्रोयं कार्यं विधीयते ततो भिन्नोऽर्थान्तरभूत आश्रयो यस्य तत्? तथोच्यत इत्यर्थ इति। इतिकरणेनानन्तरं व्याख्यातोऽर्थः प्रत्यवमृश्यते। अत्रग्रहणे समानाश्रयत्वप्रसिद्ध्यर्थे सतद्येषोऽस्य सूत्रस्यार्थः सम्पद्यत इति यावत्()। किमर्थं पुनरसिद्धवद्भवतीत्यत आह--"असिद्धवचनम्()" इत्यादि। उत्सर्गशब्देन स्थान्यत्रोपदिश्यते, उत्सृजयत आदेशेन निवर्त्त्यत इति कृत्वा। उत्सर्गसाधम्र्याद्वोत्सर्गः। यथा ह्रुत्सर्गस्य सामान्येन प्रवृत्तस्य सतः कुतश्चिद्विसेषान्निवृत्तिर्भवति, एवं स्थानिनोऽप्यादेशात्()। उत्सर्गौ लक्षणम्()=निमित्तं यस्य तदुत्सर्गलक्षणम्? आदेशो लक्षणं निमित्तं यस्य तदादेशलक्षणम्(), तयोर्यथाक्रमं भावप्रतिषेधौ यथा स्यातम्()--इत्येवमर्थमसिद्धवचनम्()। "एधि, शाधि" इति। उत्सर्गलक्षणभावस्योदाहरणम्()। "अस भूवि" (धा।पा।१०६५), "शास अनुशिष्टौ" (धा।पा।१०७५), ["शासु" धा।पा।] लोट्(), सिप्(), "सेह्र्रपिच्च" ३।४।८७ इति हरादेशः, अदादित्वाच्छपो लुक्(), श्नसोरल्लोपः" ६।४।१११ इत्यकारलोपः। परत्वान्नित्यत्वाच्च घिभावात्? पूर्वं "ध्वसोरेद्धावभ्यासलोपश्च" ६।४।११९ इत्येत्त्वम्()। शासेरपि नित्यत्वात्? "शा हौ" (६।४।३५) इति शादेशः पूर्वं घिभावात्? तयोरेत्त्वशाभावयोः "हुझल्भ्यो हेर्धिः" ६।४।१०१ इति झलन्तलक्षणं धित्वं न प्राप्नोति, निमित्ताभावात्()। असिद्धत्वाद्भवति। "आगहि, जहि" इति। आदेशलक्षणप्रतिषेधस्योदाहरणम्()। अगाहीति--गमेराङपूर्वाल्लोट्(), सिप्(), तस्य हिरादेशः, "बहुलं छन्दसि" २।४।७६ इति शपो लुक्(), "अनुदात्तोपदेश" ६।४।३६ इत्यादिनानुनासिकलोपः। जहीति--हन्तेरलोडादि पूर्ववत्(), अदादित्वाच्छपो लुक्(), "हन्तेर्जः" ६।४।३६ इति जभावः। अत्रेदानीमनुनासिकलोपजादेशयोरुत्तरकालं "अतो हेः" ६।४।१०५ इति हेर्लोपः प्राप्नोति; असिद्धत्वान्न भवति। "अभाजि" इति। "भन्जो आमर्दने" (धा।पा।१४५३) लुङः, कर्मण्यात्मनेपदम्(), "चिण्बावकर्मणोः" ३।१।६६ इति च्लेश्चिण्(), "चिणो लुक्()" ६।४।१०४ इति तकारलोपः, "भञ्जेश्च चिणि" ६।४।३३ इत्युनुनासिकलोपः। तस्य समानाश्रयस्यापि वृद्धावनाबाच्छास्त्रीयायां कत्र्तव्यायामा भादिति वचनादसिद्धत्वं न भवति। "रागः" इति। रञ्जेर्घञ्(), "घञि च भावकरणयोः" ६।४।२७ इत्यनुनासिकलोपः। तस्यापि समानाश्रयायमपि साप्तमिक्यां वृद्धौ कत्र्तव्यायामा भादति वचनादसिद्धत्वं न भवति। "पपुषः चिच्युषः लुलुवुषः" इति। पातेश्चिनोतेर्लुनातेश्च लिटः क्वसुः, द्विर्वचनम्(), "वसोः सम्प्रसारणम्()" (६।४।१३१) तस्य व्याश्रयत्वात्? इति। पातेश्चिनोतेर्लुनातेश्च लिटः क्वसुः, द्विर्वचनम्(), "वसोः सम्प्रसारणम्()" (६।४।१३१) तस्य व्याश्रयत्वात्? "आतो लोप इटि च" ६।४।६४ इत्यकारलोपः, "एरनेकाचोऽसंयोगपूर्वसय" (६।४।८२) इति यणादेशे "अचि इन्? धातु" ६।४।७७ इत्यादिनोवङादेशे च कत्र्तव्येऽसिद्धवत्त्वं न भवति। ननु च "उस्यपदान्तात्()" (६।१।९६) इत्यनेनैव पररुपेण सरवं सिद्धम्()? नैतदस्ति; प्रतिपदोक्तस्य ह्रुस्शब्दस्य तत्र ग्रहणम्(), लाक्षणिकोश्चात्रोस्()। कथं पुनरत्र व्याश्रयत्वमित्याह--"आल्लोपादीनि हि" ["हि"--नास्ति काशिकायाम्()] इत्यादि। हिशब्दो यस्मादर्थे। इतिकरणस्तस्मादर्थे। नन्वेवमपि "असिद्धं बहरङ्गमन्तरङ्ग" (व्या।प।४२) इति अन्तरङ्गेष्वाल्लोपादिषु बहिरङ्गस्य समप्रसारणस्यासिद्धत्वादाल्लोपादयो न प्राप्नुवन्त्येव। तत्र हि विभक्तेः, पूर्वो वसवन्तो भागः, तदाश्रया लोपादय इति, सम्प्रसारणं तु विभक्त्याश्रयम्(), प्रकृत्याश्रयञ्चान्तरङ्गम्(), प्रत्ययाश्रयं च बहिरङ्गमित्याह--"असिद्धं बहिरङ्गम्()" इत्यादि। "एतदपि" इति। एतदपीति वचनापेक्षया नपुंसकेन निर्वेशः। "एषा हि" इत्यादिना परिभाषाया अप्रवृत्तौ कारणमाह। यत्रान्तरङ्गबहिरङ्गयोर्युगपदुपस्थानं तत्रैषा परिभाषा प्रवत्र्तते, अन्तरङ्गे कत्र्तव्ये बहिरङ्गस्यासिद्धतामापादयितुम्()। इयञ्च परिभाषा "वाह ऊठ्()" ६।१।१२८ इत्यत्राभाच्छास्त्रे ज्ञापितत्वादाभाच्छास्त्रीया। अतोऽस्यां कत्र्तव्यायां "असिद्धवदत्रा भात्()" ६।४।२२ इति "वसोः सम्प्रसारण" ६।४।१३१ स्याल्लोपादीनाञ्चासिद्धत्वादन्तरङ्गबहिरङ्गयोयुर्गपदुपस्थानं नास्तीति न प्रवत्र्तते। तदप्रवृत्तौ नास्ति बहिरङ्गसम्प्रसारणस्यासिद्धत्वम्()। तेन भवन्त्येवाल्लोपदयः। "वुग्युटौ" इत्यादि। वुग्युडित्येतौ यथा क्रममुवङि यणि च कत्र्तव्ये सिद्धौ भवत इत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--इह वतिग्रहणं न कत्र्तव्यम्(), विनापि तेनातिदेशः सिद्ध एव, यथा--"षत्वतुकोरसिद्धः" ६।१।८३, "पूर्वतरासिद्धम्()" ८।२।१ इति च। तत्? क्रियते क्वचित्? स्वाश्रयमपि सिद्धं यथा स्यादित्येवमर्थम्()। तेन वुग्यृटावुवङ्यणोः सिद्धौ भविष्यतः। "बभूव" इति। "भवतेरः" ७।४।७३ इत्यभ्यासस्यात्वम्(), "भुवो वुग्लुङलिटोः" ६।४।८८ इति वुक्()। तत्र यद्यसिद्धं स्यात्? "अचिश्नुधातु" ६।४।७७ इत्यादिना उवङ स्यात्(), तस्य सिद्धत्वान्न भवति। "उपदिदीये" इति। "दीङः क्षये" (धा।पा।११३४) लिट्? तस्य "लिटस्तझयोः" ३।४।८१ इत्यादिनेशु, "दीङो युडचि क्ङिचि" ६।४।६३ इति युट्()। तस्यापि यद्यसिद्धत्वं स्यात्? "एरनेकोचोऽसंयोगपूर्वस्य" ६।४।८२ इति यणादेशः स्यात्()। सिद्धत्वान्न भवति। आ भादित्याङ मर्यादायां वा स्यात्()? अभिविधौ वा? तत्र यद्याद्य पक्ष आश्रीयत भाधिकारीयस्यासिद्धत्वं न स्यात्()। ततश्च "असिद्धं बहिरङ्गमन्तरङ्गे" (व्या।प।४२) इत्यस्याः परिभाषाया अनाभाच्छास्त्रीयत्वादस्थां प्रवत्र्तमानायां वसोः सम्प्रसारणस्याल्लोपादीनां चासिद्धत्वं न स्यात्()। एवमपि वसोः सम्प्रसारणस्य बहिरङ्गस्यान्तरङ्गाणाञ्चालोपादीनां युगपदुपस्थाने सति तया परिभाषया प्रवत्र्तमानया वसोः सम्प्रसारणस्य बहिरङ्गस्यान्तरङ्गाणाञ्चालोपादीनां युगपदुपस्थाने सति तया परिभाषया प्रवत्र्तमानया वसोः सम्प्रसारणस्यासिद्धत्वे उत्पादितेऽन्तरङ्गत्वादल्लोपादयः पपुषः, चिच्युषः, लुलुवष इत्यत्र न स्युः? इतोमं मर्यादापक्षे दोषं वृष्ट्वा द्वितीयं पक्षमाश्रित्याह--"आ भादित्ययमभिविधावाङ्()" इति। गतार्थश्च॥
बाल-मनोरमा
असिद्धमदत्रा भात्। ३२, ६।४।२२

तथा च प्रकृतेऽभ्यासस्य बकारे सति बभूव् अ इति स्थिते "अचि श्नुधात्वि"त्युवङादेशमाशङ्कितुमाह-- असिद्धवदत्रा। षष्ठस्य चतुर्थपादे इदं सूत्रं "श्नान्नलोप" इति सूत्रात्पूर्वं पठितम्। आ भादित्यभिविधावाङ्। भस्येत्यधिकारमभिव्याप्येत्यर्थः। भाधिकारश्च आ पादपरिसमाप्तेरिति सिद्धान्तः। तथा च आ पादपरिसमाप्तेरिति लभ्यते। "विहितं कार्य"मिति शेषः। किमारभ्येत्याकाङ्क्षायामुपस्थित्वादस्मादेव सूत्रादूध्र्वमिति लभ्यते। ततश्चा "श्नान्नलोप" इत्यारभ्या पादसमाप्तेर्विहितं यदाभीयं कार्यं तदसिद्धवद्भवति। प्रवृत्तमप्यप्रवृत्तवद्भवतीत्यर्थः। अधिकारसूत्रमिदमुत्तरत्र "श्नान्नलोप" इत्यादौ प्रतिसूत्रमुपतिष्ठते। तथा च यद्यत्सूत्रे इदमनुवर्तते तत्तदाभीयकार्ये कर्तव्येऽसिद्धमिति लभ्यते। एवं च "श्नान्नलोप" इत्यादि तत्तदाभीयं कार्यं "श्नान्नलोप" इत्याद्याभीये कार्ये कर्तव्येऽसिद्धवदित्यर्थः पर्यवस्यति। अत्रेत्यनेन निमित्तसप्तम्यन्तेन त्वसिद्धीभवतः कार्यस्य यन्निमित्तं तन्निमित्तके कार्ये कर्तव्ये सतीत्यर्थलाभात् "समानाश्रये कार्ये कर्तव्ये सती"ति लभ्यते। एतत्सर्वं भाष्ये स्थितम्। तदाह-- इत ऊध्र्वमित्यादिना। तस्मिन्निति। आभीये कर्तव्ये सतीत्यर्थः। एधि शाधीत्युदाहरणम्। अत्र "ध्वसोरेद्धावभ्यासलोपश्चे"त्यस्तेरेत्वस्य "शाहा"विति शास्तेः शाभावस्य चाभीयत्वेनाऽसिद्धत्वात् "हुझल्भ्यो हेर्धि"रिति हेर्धित्वमाभीयं प्रवर्तते। तथा "जङ्घही"त्याद्यप्युदाहरणम्। हन धातोर्यङ्()लुगन्ताल्लोण्मध्यमपुरषैकवचने सिपो हिभावे "अनुदात्तोपदेशे"ति नलोपस्याभीयस्यासिद्धत्वादतो हेरित्याभीयोलुङ् न भवति। समानाश्रय इति किम्?। "पपुष" इत्यत्र पाधातोर्लिटः क्वसौ "लिटि धातो"रिति द्वित्वेऽभ्यासह्यस्वे क्वस्वन्ताद्द्वितीयाबहुवचने सि वसोः संप्रसारणमाभीयम्। "आतो लोप इटि चे"त्याल्लोपे आभीये कर्तव्ये असिद्धं न भञ्जेश्चिणि, रञ्जेर्घञि च कृते, "भञ्जेश्च चिणि", "घञि च भावकरणयो"रिति नलोपस्याभीयस्याऽनाभीयायामुपधावृद्धौ कर्तव्यायां नाऽसिद्धत्वात्। आभादित्यभिविधिः किम्?। भाधिकारात् प्रागित्युक्ते भूयानित्यत्र "बहोर्लोपो भूच बहो"रिति बहोर्भूभावस्य ओर्गुणे कर्तव्ये असिद्धत्वं न स्यात्, भस्येति सूत्रादूध्र्वभावित्यादित्यलम्। इति वुकोऽसिद्धत्वादिति। वुक आभीयस्य अचि श्नुधात्वित्युवङि आभीये कर्तव्येऽसिद्धतया ऊकारस्योवङि लघूपधगुणे बभोवेति प्राप्ते सतीत्यर्थः। वुग्विधिस्तु गुणवृद्धिबाधकत्वेन चरितार्थ इति भावः। वुग्युटावुवड()णोरिति। यथासङ्ख्यमन्वयः। बभूवेति। णलो णित्त्वं तु जगादेत्यादौ वृद्ध्यर्थम्। बभूवतुरिति। तसोऽतुसादेशे वुगादि पूर्ववत्। सकारस्य रुत्वविसर्गौ। बभूवुरिति। जेरुसादेशे वुगादि पूर्ववत्।

तत्त्व-बोधिनी
असिद्धवदवा भात् २६, ६।४।२२

वत्करणं प्रतिपत्तिलाघवाय, अन्यथा सिद्धे असिद्ध इति प्रयुज्यमानमनुपपन्नं सत्सामथ्र्यादसिद्धवदिति कल्पनीयं स्यात्। यथा राजभिन्ने पुरोहिते "राजाऽय"मिति प्रयोगो "राजव" दिति कथंचित्कल्पयति, "राजवदयं पुरोहित" इत्युक्ते तु लघुप्रतिपत्तिर्भवति। तथा चाऽगत्या "षत्वतुकोरसिद्धः" इत्यत्राऽसिद्धवदिति कल्प्यते। "असंयोगल्लिक्टि"दित्यत्रापि किद्वदित्यगत्यैव कल्प्यत इति ज्ञेयम्। आ भादिति। अभिविधावाङ्। भाधिकारमभिव्याप्येत्यर्थः। अधिकारश्चायम्। "अत्र" ग्रहणं समानाश्रयप्रतिपत्त्यर्थम्। आबाद्ग्रहणं विषयनिर्देशार्थम्। भाधिकारस्याऽवधिलाभस्तु "अङ्गस्य", "प्रत्ययः", "परश्चे"त्यादाविव व्याख्यानेनैव सिध्यति। एवं "अनुदात्तोपदेशे"त्यत्रास्योपस्थाने सत्ययमर्थो भवति, "एषामनुनासिकस्य लोपः स्याज्झलादौ क्ङिति परे, स चासिद्धो? भवति, अत्र झलादिक्ङिदाश्रित्यैव यदाभीयं प्राप्नोति तस्मिन्कर्तव्ये सति " इति। जङ्गहि जङ्घहि। "अतो हेः" इति लुग्न भवति, अनुनासिकलोपस्य हिशब्दाश्रितत्वेनाऽसिद्धत्वात्। नन्वस्याधिकारत्वे यत्र यत्रोपस्थानं तत एवारभ्य यदाभीयं तस्मिन्नेव कर्तव्येऽसिद्धत्वं स्यान्न तु ततः पूर्वस्मिन्नपि। ततश्च "ध्वसो"रित्येत्वं पूर्वस्मिन्नपि धित्वे कर्तव्ये नाऽसिद्धं स्यादिति चेत्। भवेदयं दोषः शब्दाधिकारे, अर्थाधिकारस्त्वयम्। ततश्चेह "श्नान्न लोपः" इत्यवधिर्निर्णीतः, स एव प्रतिसूत्रमुपतिष्ठते। तदेतत्सकलमभिप्रेत्याह-- इति ऊध्र्वमिति। अत्रापि शात्राऽसिद्धत्वमेवाऽकरे स्थितम्। तेन एधि शाधीत्यत्र स्थानिनो झलन्तत्वबुद्धेरनिवर्तितत्वात्तन्निबन्धनं "हुलझल्भ्यो हेर्धि"रिति धित्वं सिध्यति। प्राचोक्तकार्याऽसिद्धत्वपक्षे तु न सिध्यति, "देवदत्तस्य हन्तरि हते देवदत्तस्योज्जीवनं ने"ति न्यायेन एत्वविधिना झल्बुद्धौ निवर्तितायां पश्चादेत्वबुद्धिनिवर्तनेऽपि धित्वकार्यस्याऽप्रवृत्तेरित्याहुः। समानाश्रये इति किम्()। पपुषः। चिच्युषः। लुलुवुषः। इह पाधातोश्चिञो लूञश्च परस्य वसोर्यत्संप्रसारणं तत् "आतो लोप इटि च" इत्याल्लोपे "एरनेकाचः" इति यण्युवङि च कर्तव्ये नाऽसिद्धम्। आल्लोपादीनि हि क्वसौ, संप्रसारणं तु विभक्ताविति व्याश्रयत्वात्। न च बहिरङ्गत्वेनाऽसिद्धताऽस्त्विति शङ्क्यं, "नाऽजानन्तर्ये" इति निषेधात्। "वाह ऊठ्" सूत्रस्थबहिरङ्गपरिभाषाया अप्याभीयत्वेनाऽ‌ऽल्लोपादिषु कर्तव्येष्वसिद्धत्वाच्च। न चोक्तपरिभाषाया आल्लोपादीनां च समानाश्रयत्वं नेति शङ्क्यम्, वसोः संप्रसारणे कृते ह्रजाद्याश्रयेणाल्लोपादीनि प्रवर्तन्ते, तेषु कर्तव्येषु संप्रसारणस्याऽसिद्धत्वात्तद्विषये बहिरङ्गपरिभाषाऽपि प्रवर्तत इति तेषां तत्सत्त्वादिति दिक्। विषयलाभार्थमाभाद्ग्रहणं किम्?। आभीयं प्रत्येवाऽभीयमसिद्धं नान्यं प्रतीति यथा स्यादित्येवमर्थम्। तेन "अभाजि", "राग" इत्यत्र "भञ्जेच चिणि", "रञ्जेश्च", "घञि च भावकरणयोः" इति नलोपे कृते तस्याऽसिद्धत्वाऽभावात् "अथ उपधायाः" इति वृद्धिर्भवतीत्याहुः। स्यादेतत्--- देभतुः देभुरित्यत्र "श्रन्थिग्रन्थिदम्भी"ति वक्ष्यमाणवचनेन लिटः कित्त्वान्नलोपेप्येत्वाभ्यासलोपौ न स्यातां, नलोपस्याऽसिद्धत्वात्। अत्राहुः--- "श्नसोरल्लोपः" इति तपरकरणाल्लिङ्गादाभीयाऽसिद्धत्वमनित्यमिति नास्त्यत्र दोषः। तपरकरणं हि आस्तामित्यत्राऽ‌ऽडागमस्य लोपो माभूदित्येतदर्थम्। यद्याडागमः श्नसोरलोपं प्रत्याभीयत्वेनाऽसिद्धः स्यात्तर्हि किं तेन तपरकरणेन?। एवं च "दम्भेश्चे"ति वक्ष्यमाणं नाऽपूर्वं वार्तिकं, किं त्वनित्यत्वबललभ्यमेवेति॥

बुग्युटावुवड()णोः सिद्धौ वक्तव्यौ। "वुक्" शास्त्रस्य। एवमग्रेऽपि। युट उदाहरणं "दितीये"। बभूवेति। अत्र प्राचा-- "इन्धिभवतिभ्यां च"ति सूत्रं पितोऽ#एपि लिटः कित्त्वार्थमिति व्याख्याय "अचोऽञ्णिती"ति वृद्धिप्राप्तौ "क्ङिति चे"ति निषेध" इत्युक्तं, तदुपेक्षितम्। "इग्लक्षणयोरेव गुणवृद्ध्योर्निषेध" इति सिद्धान्तात्। अन्यथा इक्स्थानिकयोर्निषेधे "लैगवायन" इत्यत्रापि वृद्धिर्न स्यात्। न चाऽत्र कित्त्वसामथ्र्यादनिग्लक्षणाया अपि वार्तिकम्--"इन्धेश्छन्दोविषयत्वाद्भुवो वुको नित्यत्वात्ताभ्यां लिटः किद्वचनानर्थक्य"मिति। यद्यपीह शब्दान्तरकप्राप्त्या वुको नित्यत्वं नास्ति, तथापि कृताऽकृतप्रसङ्गित्वमात्रेणापि क्वचचिन्नित्यता स्वीक्रियत इति पक्षोऽप्यस्मादेव वार्तिकादवगम्यते, तेन रधेर्णिचि परामप्यपधावृदिं()ध बाधित्वा नित्यत्वात् "रधिजभोरची"ति नुमि कृते रन्धयतीति सिद्धम्। नन्वेवमपि संयोगात्परस्य लिटः कित्त्वार्थमिन्धेश्चेत्यंशोऽपेक्षित एव। अन्यथा "समीधे दस्यु हन्तम"मित्यत्रेन्धेर्नलोपो न स्यात्। मैवम्। "छन्दस्युभयथे"ति सूत्रेण हि सार्वधातुकसंज्ञा आद्र्धधातुकसंज्ञा च विधीयते, तेन "सार्वधातुकमपि"दिति ल#इटो ङित्त्वे स्यादेव नलोप इति वार्तिकाशयात्। अतर् नव्याः-- "बभूवे"त्यत्र "द्विर्वचनेऽची"त्यजादेशस्य निषेधाद्गुणवृद्धिभ्यां प्रगेव वुकः प्रवृत्त्या "भुवो वुको नित्यत्वा"दिति वार्तिके "नित्यत्वा"दिति हेतूपन्यासो निष्प्रयोजनः, शब्दान्तरप्राप्त्या वुको नित्यत्वं नास्ती"त्याशङ्क्य कृताऽकृतप्रसङ्गित्वमात्रेणापि क्वचिन्नित्यत्वं स्वीक्रियत इत्यादिसमाधानमपि व्यर्थमेवेत्याक्षिप्य स्वयमेव समादधुः-- षाष्ठद्वित्वप्रकरणान्ते हि वार्तिककृता पूर्वविप्रतिषेधः पठ()ते "द्विर्वचनं यणयवायावादेशाल्लोपोपधालोपकिकिनोरुत्वेभ्यः" इति। तथा च "द्विर्वचनेऽची"ति सूत्रं नारम्भणीयमित्याशयेन नित्यत्वादिति हेतुरुपन्यस्त" इति। "द्विर्वचनेऽचीति सूत्रेणाऽरजादेशस्य स्थानिवद्भावो विधीयतर" इति पक्षे तु द्वित्वात्प्रागेव वृद्ध्याद्यादेशस्य स्वीकृतत्वादादेशानन्तरमपि वुकः प्रवृत्तिरस्तीति भुवो वुको नित्यत्वादित्यादिग्रन्थः सम्यगेव। न चैवमपि नामधातुषु त्वापयति मापयतीत्यत्र "मपर्यन्तस्य त्वमौ, पररूपात्पूर्वं नित्यत्वाट्टिलोप" इति ग्रन्थः कथं सङ्गच्छेतेति वाच्यं,"प्रकृत्यैका"जिति सूत्रं भाष्ये प्रत्याक्यातमित्याशयेन तत्प्रवृत्तेः। अत एव त्वादयति मादयतीत्येव न्याय्यमिति तत्रोक्तमिति दिक्॥