पूर्वम्: ६।४।२५
अनन्तरम्: ६।४।२७
 
सूत्रम्
रञ्जेश्च॥ ६।४।२६
काशिका-वृत्तिः
रञ्जेश् च ६।४।२६

रञ्जेश्च शपि परतः उपधायाः नकारस्य लोपो भवति। रजति, रजतः, रजन्ति। पृथग्योगकरनम् उत्तरार्थम्।
न्यासः
रञ्जेश्च। , ६।४।२६

अथ पृथग्योगकरणं किमर्थम्(), न पूर्वयोग एव रञ्जेग्र्रहणं क्रियते? इत्याह--"पृथग्योगकरणम्()" इत्यादि। उत्तरसूत्रे रञ्जेरेवानुवृत्तिर्यथा स्यात्? दंशप्रभृतीनां मा भूदिति॥