पूर्वम्: ६।४।३६
अनन्तरम्: ६।४।३८
 
सूत्रम्
अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति॥ ६।४।३७
काशिका-वृत्तिः
अनुदात्तौपदेशवनतितनोत्यादीनाम् अनुनासिकलोपो झलि क्ङिति ६।४।३७

अनुदात्तोपदेशानाम् अङ्गानां वनतेः तनोत्यादीनां च अनुनासिकलोपो भवति झलादौ क्ङिति प्रत्यये परतः। यमु यत्वा। यतः। यतवान्। यतिः। रमु रत्वा। रतः। रतवान्। रतिः। अनुदात्तोपदेशा अनुनासिकान्ता यमिरमिनमिगमिहनिमन्यतयः। वनति वतिः। क्तिनो रूपम् एतत्। क्तिचि तु न क्तिचि दीर्घश्च ६।४।३९ इति भवति। अन्यत्र झलादाविटा भवितव्यम्। तनोत्यादयः ततः। ततवान्। सनोतेरात्वं वक्ष्यति। क्षणु क्षतः। क्षतवान्। ऋणु ऋतः। ऋतवान्। तृणु तृतः। तृतवान्। घृणु घृतः। घृतवान्। वनु वतः। वतवान्। मनु मतः। मतवान्। ङिति अतत। अतथाः। अनुदात्तोपदेशवनतितनोत्यादीनाम् इति किम्? शान्तः। शान्तवान्। तान्तः। तान्तवान्। दान्तः। दान्तवान्। अनुनासिकस्य इति किम्? पक्वः। पक्ववान्। झलि इति किम्? गम्यते। रम्यते। क्ङिति इति किम्? यन्ता। यन्तव्यम्। उपदेशग्रहणं किम्? इह वयथा स्यात्, गतिः। इह च मा भूत्, शान्तः, शान्तवानिति।
लघु-सिद्धान्त-कौमुदी
अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति ५६१, ६।४।३७

अनुनासिकान्तानामेषां वनतेश्च लोपः स्याज्झलादौ किति ङिति परे। यमिरमिनमिगमिहनिमन्यतयोऽनुदात्तोपदेशाः। तनु क्षणु क्षिणु ऋणु तृणु घृणु वनु मनु तनोत्यादयः। हतः। घ्नन्ति। हंसि। हथः। हथ। हन्मि। हन्वः। हन्मः। जघान। जघ्नतुः। जघ्नुः॥
न्यासः
अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति। , ६।४।३७

"अनुनासिक" इति षष्ठ()आ बहुवचनस्य लुकं कृत्वाऽविभक्तिकोऽयं निर्देशः। अत एवाह--"अनुनासिकान्तानाम्()" इति। "अनुनासिकस्य क्विझलोः क्ङिति" ६।४।१५ इति दीर्घत्वे प्राप्ते लोपोऽयं विधीयते। अत्र लोपे कृते दीर्घत्वं न प्राप्नोति; विहितनिमित्तत्वात्()। "यमि रमि गमि नमि हनि मन्यतयः" इति--"यम उपरमे" (धा।पा।९८४) "रमु क्रीडायाम्()" (धा।पा।८५३) "गन्लृ सृप्लृ गतौ" (धा।पा।९८२,९८३) "णम पह्वत्वे" (धा।पा।९८१) [प्रह्वत्वे शब्दे च--धा।पा] "हन हिंसागत्योः" (धा।पा।१०१२) "मन ज्ञाने" (धा।पा।११७६)। "वतिः" इति। "वन षण सम्भक्तौ" (धा।पा।४६३,४६४)। "तितुत्रतथ" ७।२।९ इत्यादिनेट्प्रतिषेधः। "क्तिनि" इत्यनेन क्तिन्येव वनतेरुदाहरणं सम्भवति, नान्यत्रेति दर्शयति। किं कारमम्()? इत्याह--"क्तिचि तु" इत्यादि। क्तिचि तु "न क्तिचि दीर्घश्च" ६।४।३९ इति प्रतिषेधं वक्ष्यति। ये त्वन्ये झलादयः प्रत्ययास्तेष्वपीटा भवितव्यम्(), ततो झलादित्वाभावाद्वनतेरनुनासिकलोपं प्रति ते निमित्तभावं नोपयान्तीति पारिशेष्यात्? क्तिन्येव वनतेरनुनासिकलोपेन भवितव्यम्()। "सनोतेरात्त्वं वक्ष्यति" इति। तेन तस्यानुनासिकलोपोदाहरणं न भवतीति भावः। आत्त्वं पुनः "जनसनखनाम्()" ६।४।४२ इत्यादिना वक्ष्यति। "क्षतः" इति। "क्षणु हिंसायाम्()" (धा।पा।१४६५)। "ऋतः" इति--"ऋणु गतौ" (धा।पा।१४६७)। "तृतः" इति। "तृणु दाने" ["अदने" धा।पा।] (धा।पा।१४६८)। "घृतः" इति। "घृणु दीप्तौ" (धा।पा।१४६९) "वतः" इति। "वनु याचने" (धा।पा।१४७०) "मतः" इति। "मनु अवबोधने" (धा।पा।१४७१) "अतत, अतथा" इति। तनोतेर्लुङ। आत्मनेपदप्रथममध्यमैकपुरुषवचने। "तनादिभ्यस्तथासोः" २।४।७९ इति सिचो लुक्()। "शान्तः, तान्तः, दान्तः" ति। शमितमिदमीनां रूपाणि। एते नानुदात्तोपदेशाः। "इह च" इत्यादि। गमिरमिभ्यां क्तिनि कृते तयोर्नित्स्वरेणाद्युदात्तत्वेऽनुदात्तत्वाभावादसत्युपदेशग्रहणे लोपो न स्यात्(), अ()स्मस्तु सति भवति। किञ्च--असत्युपदेशग्रहणे शान्तः, दान्त इत्यत्रापि स्यात्()। भवति हि शमिः सतिशिष्टप्रत्ययस्वरे कृते "अनुदात्तं पदमेकवर्जम्()" ६।१।१५२ इति शेषस्यानुदात्तत्वेऽनुदात्तः। उपदेशग्रहणात्तु न भवति, न ह्रमुपदेशेऽनुदात्तः॥
बाल-मनोरमा
अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति २५९, ६।४।३७

अनुदात्तोपदेश। "ऊदृदन्तै"रित्यादिभिः सङ्गृहीता अनुदात्तोपदेशाः, वनतिभौवादिकः, तनोत्यादयस्तु "तनु विस्तारे" इत्यादिना पठिष्यन्ते। एतेषामनुनासिकस्य लोपः स्याज्झलादौ क्ङितीति प्रतीयमानार्थः। एवं सति "मुक्त"मित्यादौ मुचादीनामपि मकारादिलोपः स्यात्। तत्राह-- अनुनासिक इति लुप्तषष्ठीकं पदमिति। एवमप्युक्ताऽतिप्रसङ्गतादवस्थ्यादाह--वनतीतरेषां विशेषणमिति। अनुदात्तोपदेशानां तनोत्यादीनां चेत्यर्थः। तथा च विशेषणत्वात्तदन्तविधावनुनासिकान्तानामनुदात्तोपदेशानां तनोत्यादीनां वनतेश्चेत्येषामन्तस्य लोपः स्यादित्यर्थलाभान्मुक्तमित्यादौ नातिप्रसङ्गः। तदाह--अनुनासिकान्तानामित्यादिना। वनधातोस्तु अनुनासिकान्तत्वान्न विशेषणम्, अव्यभिचारादिति भावः। अत्रानुदात्तोपदेशाननुनासिकान्तान्दर्शयति---यमिरमीति। अनुदात्तोपदेशेषु एतेषामेव षण्णामनुनासिकान्तत्वादिति भावः। अथ तनोतीत्यादीननुनासिकान्तान्दर्शयति--तनुक्,णुक्षिण्विति। "मनु" इत्यन्तं समाहारद्वन्द्वात्प्रथमैकवचनम्। एतेऽष्टौ तनोत्यादयोऽनुनासिकान्ता इत्यर्थः। "तनु विस्तारे" इत्यारभ्य "डु कृञ् करणे" इत्यन्ता दश धातवस्तनोत्यादयः। तत्रकरोतिरनुनासिकान्तात्वाऽभावादिह न गृह्रते, "जनसनखनां सन्झलो"रिति सनोतेरात्त्वस्य वक्ष्यमाणत्वात्सोऽप्यत्र न गृहीतः। "वनु याचने" इति तनादौ पठितम्। तस्य उविकरणतया, उदित्त्वेन वनतिग्रहणेनाऽग्रहणात्तनादौ पठितस्यापि पृथग्ग्रहणम्। तत्र तानादिकस्य वनेरुदित्त्वात् "उदितो वे"ति क्त्वायामिड्विकल्पात् "यस्य विभाषे"ति निष्ठायामिडभावे वतः वतवानित्युदाहरणम्। वनतेस्तु भौवादिकस्य उदित्त्वाऽभावान्निष्ठायां सेट्कतवेऽपि क्तिनि वतिरित्युदाहरणम्, तत्र "तितुव्रतथसिसुसरकसेषु चे"ति इण्निषेधादित्यलम्। हत इति। तसि अनुदात्तोपदेशानुनासिकान्तत्वान्नकारलोपः, "सार्वधातुकमपि" दिति तसो ङित्त्वात्। घ्नन्तीति। अजादिङित्परकत्वात् "गमहने"त्युपधालोपे "हो हन्ते" रिति कुत्वेन हस्य घः। हसि हथः हथ।

तत्त्व-बोधिनी
अनुदात्तोपदेशवनतितनोत्यादीनमनुनासिक लोपो झलि क्ङिति २२८, ६।४।३७

अनुदात्तोपदेश। यद्यत्र "एतेषामनुनासिकस्य लोप" इति व्याख्यायेत, तदा मन्यतेर्नमूनह्()मिह्()मुच्()मस्जादीनां चानन्त्यस्यापि लोपः स्यात्, तथा च मतः नतः नद्धः। मीढः मुक्तः मग्न इत्यादि न सिध्येत्। अत आह-- लुप्तषष्ठीकमिति। वनतीतरेषामिति। वनतेरव्यभिचाराद्विशेषणं व्यर्थमिति भावः। वतिः। इहि क्तिनि "नेड्वशि कृती"तीण्निषेधाज्झलि क्ङिति न लोपः। लोपः स्यादिति। "अलोऽन्त्यस्ये"त्यन्त्यस्येति भावः। अनुनासिकान्ताऽनुदात्तोपदेशान्दर्शयति--यमिरमीति। तनोत्यादीनप्यनुनासिकान्तान्दर्शयति--- तनुक्षणुक्षिण्विति। करोतिवर्जितास्तनोत्यादयो नव, तन्मध्ये सनोते। "जनसनखना"मित्यात्वं वक्ष्यतीति न स परिगणितः। ततः क्षतः क्षित इत्यादीन्युदाहरणानि। तनोत्यादीनामुदित्त्वात् क्त्वायामिड्विकल्पनान्निष्ठायां नेट्। अनुनासिकान्तानामिति किम्()। शक्तः। रुद्धः। झलीति किम्?। गम्यते। नम्यते। क्ङितीति किम्?। गन्ता। मन्ता।

तत्त्व-बोधिनी
न संयोगाद्वमन्तात् ३१५, ६।४।३७

यज्वेति। इष्टावान्यज्वा। "सुयजोर्ङ्वनिप्"। ब्राहृणा इति। "सर्वधातुभ्यो मनि" न्निति प्रकम्य "बृंहर्नोऽच्चेत"ति नस्याऽत्वाविधानाह्ब्राहृञ्शब्दोऽयं"निष्पन्नः।