पूर्वम्: ६।४।३८
अनन्तरम्: ६।४।४०
 
सूत्रम्
न क्तिचि दीर्घश्च॥ ६।४।३९
काशिका-वृत्तिः
न क्तिचि दीर्घश् च ६।४।३९

क्तिचि परतो ऽनुदात्तोपदेशादीनाम् अनुनासिकलोपः दीर्घश्च न भवति। यन्तिः। वन्तिः। तन्तिः। अनुनासिकलोपे प्रतिषिद्धे अनुनासिकस्य क्विझलोः क्ङिति ६।४।१५ इति दीर्घः प्राप्नोति, सो ऽपि प्रतिषिध्यते।
न्यासः
न क्तिचि दीर्घश्च। , ६।४।३९

"यन्तिः" इत्यादि। "क्तिच्कतौ च संज्ञायाम्()" ३।३।१७४ इति क्तिच्()। अत्र चानुदात्तोपदेशादिप्रहणमनुवर्तते, तेन "कान्तिः शान्तिः" इत्यत्र धीर्घप्रतिषेधो न भवति। अनुनासकलोपस्य त्वत्र प्राप्तिरेव नास्ति; उदात्तोपदेशत्वात्()। "अनुनासिकलोपे प्रतिषिद्धे" इत्यादिना दीर्घग्रहणस्य प्रयोजनमाचष्ठे। ननु च प्रकरणापेक्षया यदस्मिनप्रकरणे विहितं तन्न भवतीति विज्ञायमानेऽन्तरेणापि दीर्घग्रहणं दीर्घस्यापि प्रतिषेधो भविष्यति, तत्? किं दीर्घग्रहणेन? एवं तह्र्रतज्ज्ञापयति--अस्तीयं परिभाषा "अनन्तरसय विधिर्वा भवति प्रतिषेधो वा" (व्या।प।१९) इति॥
तत्त्व-बोधिनी
न क्तिचि दीर्घश्च १५८४, ६।४।३९

दीर्घानुनासिकेति। "अनुनासिकस्य क्विझलो"रिति दीर्घस्य र"अनुदात्तोपदेशे"त्यादिनानुनासिकलोपस्य च प्राप्तरिति बोध्यम्। यन्तिरित्यादि। यम उपरमेष रम क्रीडायाम्, वनु याचने, तनु विस्तारे।