पूर्वम्: ६।४।४०
अनन्तरम्: ६।४।४२
 
सूत्रम्
विड्वनोरनुनासिकस्यात्॥ ६।४।४१
काशिका-वृत्तिः
विड्वनोरनुनासिकस्य आत् ६।४।४१

विटि वनि च प्रत्यये परतः अनुनासिकान्तस्य अङ्गस्य आकार आदेशो भवति। अब्जा गोजा ऋतजा अद्रिजा। गोषा इन्दो नृषा असि। कूपखाः। शतखाः। सहस्रखाः। दधिक्राः। अग्रेगा उन्नेतृ̄णाम्। जनसनखनक्रमगमो विट् ३।२।६७ इति विट् प्रत्ययः। सनोतेरनः ८।३।११० इति षत्वम् गोषा इन्दो नृषा असि इत्यत्र। वन विजावा। अग्रेजावा। अन्येभ्यो ऽपि दृश्यन्ते ४।३।७५ इति वनिप् प्रत्ययः। अनुनासिकस्य इति वर्तमाने पुनरनुनासिकग्रहणम् अनुनासिकामात्रपरिग्रहार्थम्, अन्यथा हि अनुदात्तोपदेशवनतितनोत्यादीनाम् एव स्यात्।
लघु-सिद्धान्त-कौमुदी
विड्वनोरनुनासिकस्याऽत् ८०४, ६।४।४१

अनुनासिकस्याऽत्स्यात्। विजायत इति विजावा॥ ओणृ अपनयने॥ अवावा। विच्॥ रुष रिष हिंसायाम्॥ रोट्। रेट्। सुगण्॥
न्यासः
विङ्वनोरनुनासिकस्यात्?। , ६।४।४१

"अब्जाः" इति। अप्सु जायत इत्युपपदसमासः, पकारस्य जश्त्वम्()--बकारः। "गोषा" इति। "षणु दाने" (धा।पा।१४६४) "विजवा" इति। "जन जनने" (धा।पा।११०५), "जनी प्रादुर्भावे" (धा।पा।११४९) इति वा। "अग्रेगाव" ["अग्रेजावा" इति काशिका पाठः] इति। "तत्पुरुषे कृति बहुलम्()" ६।३।१३ इति सप्तम्या अलुक्()। अथानुनासिकग्रहणं किमर्थम्(), यावतानुदात्तोपदेशेत्यादेः (६।४।३७) सूत्रादनुनासिकगरहणमनुवर्तत एव? इत्याह--"अनुनासकस्येति वर्तमाने"--इत्यादि। तद्धि प्रकृतमनुनासिकग्रहणमनुदात्तोपदेशग्रहणेन सम्बद्धम्(), अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्()। तस्माददमन्यदनुनासिकग्रहणं क्रियते--अनुनासिकमात्रस्य यथा स्यात्()। अथेह दीर्घोच्चारणं किमर्थम्()? ह्यस्व एवोच्येत, ह्यस्वेऽपि कृते सत्यकः सवर्णे दीर्घत्वेन सिद्ध्यत्येव; "अतो गुणे" ६।१।९४ पररूपत्त्वं प्राप्नोति, अतो न सिद्धयतीत्येतन्नाशङ्कनीयम्(), अकारविधानसामथ्र्यात्(); यदि हि "अतो गुणे" पररूपत्वं स्यात्(), तदा प्रकृतं लोपग्रहणमेव विदध्यात्? ततो ह्यस्व एव कर्तर्व्यः। नैतदस्ति; ह्यत्वे हि सति "घुण धूर्णने" (धा।पा।४३७) ["भ्रमणे"--धा।पा।] इत्यस्माद्वनिपि विहिते "ध्वावा" इति न सिद्ध्येत्()? ततो दीर्घस्यैव विधानं युक्तम्()॥
बाल-मनोरमा
विड्वनोरनुनासिकस्याऽ‌ऽत् ७९२, ६।४।४१

विड्वनोरनुनासिकस्याऽ‌ऽत्। विड्वनोरिति सप्तमी। अनुनासिकस्य-- आदिति छेदः। विजावेति। जनेर्वनिप्। जनेर्नकारस्य आकारः। सवर्णदीर्घः। अवावेति। ओणेर्वनिप्। णकारस्य आकारः। अवादेशः। विजिति। "उदाह्यियते" इति शेषः। रोट् रेडिति। "रुष, रिष हिंसायाम्" विच्। "वेरपृक्तस्ये"ति वलोपः। सुगण्णिति। गमएर्विच्।

तत्त्व-बोधिनी
विड्वनोरनुनासिक्सयाऽ‌ऽत् ६५७, ६।४।४१

अवावेति। अनुनासिकस्य आत्वे अवादेशः। सौ दीर्घनलोपौ। रोट् रेडिति। रुष रिष हिंसायाम्। उपधागुणः। जश्त्वचर्त्वे।