पूर्वम्: ६।४।४१
अनन्तरम्: ६।४।४३
 
सूत्रम्
जनसनखनां सञ्झलोः॥ ६।४।४२
काशिका-वृत्तिः
जनसनखनां सञ्झलोः ६।४।४२

झलि क्ङिति इति च अनुवर्तते। जन सन खन इत्येतेषाम् अङ्गानां सनि झलादौ क्ङिति झलादौ प्रत्यये परतः आकार आदेशो भवति। जन् जातः। जातवान्। जातिः। सन् सनि सिषासति। सातः। सातवान्। सातिः। खन् खातः। खातवान्। खातिः। झल्ग्रहणं सन्विशेषणार्थं किमर्थम् अनुवर्त्यते? इह मा भूत्, जिजनिषति। सिसनिषति। चिखनिषति। सनोतेः सनीवन्तर्ध इति पक्षे इडागमः। तदिह सनोत्यर्थम् एव सङ्ग्रहणम्। अत्र झलादौ क्ङिति सनोतेर् विप्रतिषेधादात्वम् अनुनासिकलोपं बाधते। घुमस्थागापाजहातिसां हलि ६।४।६६ इति हल्ग्रहणम् ज्ञापकम् अस्मिन्नसिद्धप्रकरणे विप्रतिषेधो भवति इति।
लघु-सिद्धान्त-कौमुदी
जनसनखनां सञ्झलोः ६७९, ६।४।४२

एषामाकारेऽन्तादेशः स्यात् सनि झलादौ क्ङिति। असात, असनिष्ट॥ क्षणु हिंसायाम्॥ ३॥ क्षणोति, क्षणुते॥ ह्म्यन्तेति न वृद्धिः। अक्षणीत्, अक्षत, अक्षणिष्ट। अक्षथाः, अक्षणिष्ठाः॥ क्षिणु च॥ ४॥ अप्रत्यये लघूपधस्य गुणो वा। क्षेणोति, क्षिणोति। क्षेणिता। अक्षेणीत्, अक्षित, अक्षेणिष्ट॥ तृणु अदने॥ ५॥ तृणोति, तर्णोति; तृणुते, तर्णुते॥ डुकृञ् करणे॥ ६॥ करोति॥
न्यासः
जनसनखनां सञ्झलोः। , ६।४।४२

"झलि क्ङिति चानुवर्तते" इति। यथाक्रमं सनो झलश्च विशेषणम्? सूत्रोपात्तेन तु झल्ग्रहणेन न शक्यते सन्? विशेषयितुम्(), विशेषणं ह्रप्राधानं भवति, विशेष्यन्तु प्रधानम्()। "सञ्झलोः" इति चार्य द्वन्द्वः। तत्र सर्वेषां द्वन्द्वपदानां प्राधान्यादन्योऽन्यं प्रधानगुणभावो नोपपद्यते। सन्ग्रहणञ्चाक्ङिदर्थम्()। "तदिह" इत्यादि। यस्मात्? सनोतेः पक्ष इडागमस्तस्मात्? तत एव परो झलादिः सन्? सम्भवतीति तदर्थमेव सन्ग्रहणम्(), न तु जनखनार्थम्()। न हि ताभ्यां परो झलादिः सन्? सम्भवति, तयोर्नित्यं सेट्त्वात्()। यद्येवं, सनोतेः सनि कृतार्थत्वादात्त्वं न स्यात्(), अन्यत्र निष्ठादौ झलादौ क्ङितिप्रत्यये "अनुदात्तोपदेशः" (६।४।३७) इत्यादिना नलोपः स्यात्()? इत्यत आह--"अन्यत्र" इत्यादि। सनोतेस्तनोत्यादिषु पाठस्यावकाशोऽन्यत्? तनादिकं कार्यम्()--"तनादिभ्यस्तथासोः" २।४।७९ इत्यादि, आत्त्वविधौ च सन्ग्रहणस्यावकाशः--सन्(), सिषासतीति; इहोभयं प्राप्नोति--सातः, सातवानिति। अत्रानुनासिकलोपं बाधित्वाऽ‌ऽत्त्वं भवति विप्रतिषेधेन। ननु चोभयः सिद्धयोर्विप्रतिषेधो भवति, इह च "असिद्धवदत्रा भात्()" ६।४।२२ इत्युभयमप्यसिद्धम्(), तत्? कुतो विप्रतिषेधः? इत्यत आह--"घुमास्थागा" इत्यादि। कथं कृत्वा ज्ञापकम्()? हल्ग्रहणस्यैतदेव प्रयोजनम्()--हलादावीत्त्वं यथा स्यात्(), इह मा भूत्()--"आतोऽनुपसर्गे कः" ३।२।३ गोदाः, कम्बलद इति यदि चात्र विप्रतिषेधः? इत्यत आह--"घुमास्थागा" इत्यादि। कथं कृत्वा ज्ञापकम्()? हल्ग्रहणस्यैतदेव प्रयोजनम्()--हलादावीत्त्वं यथ#आ स्यात्(), इह मा भूत्()--"आतोऽनुपसर्गे कः" ३।२।३ गोदः, कम्बलद इति। यदि चात्र विप्रतिषेधो न स्याद्? हल्ग्रहणमनर्थकं स्यात्()। अस्त्वत्रेत्त्वम्(), तस्यासिद्धत्वाल्लोपो भविष्यत। पश्यति त्वाचार्यः--भवतीह प्रकरणे विप्रतिषेध इति; यतो हल्ग्रहणं करोति। ननु चासति हल्ग्रहणेऽजादावपीत्त्वं स्यात्(), ततश्चेपङः प्रसज्येतेत्यनिष्टं रूपमापद्येत। तस्मादनिष्टनिवृत्त्यर्थत्वाद्धल्ग्रहणस्य न युज्यते ज्ञापकत्वम्()? नैष दोषः; असिद्धत्वादेवेत्त्वस्येयङादेशो न भविष्यति। व्यवस्थार्थं तर्हि हल्ग्रहणं स्यात्(), असति हि तस्मिन्नीत्त्वस्यासिद्धत्वा दाल्लोपः, आकारलोपस्यासिद्धत्वादीत्त्वमीति चक्रवद्व्यवस्था स्यात्()? एतदप्यप्रयोजनम्(), यदि व्यवस्थार्थं हल्ग्रहणं स्यात्(), नैवायं हल्ग्रहहँ कुर्वीत। अविशेषेणेकारमुक्त्वा तस्याजादौ लोपमपवादं विदध्यात्()। तत्? कथमिदमस्तु "आतो लोप इटि च" (६।४।६४) इति? ततः "धुमास्थागापाजहातिसाम्()" ६।४।६६ आकारलोपो भवतीटयजादौ च क्ङिति। किमर्थमिदम्()? प्रत्ययमात्रे ध्वादीनां यदीत्त्वं वक्ष्यते, तस्यायमिट()जादौ च क्ङित्यपदादः, ततः "ईत्()" ६।४।६८ इतीत्त्वं भवति घादीनामनचि क्ङिति, ततः "एर्लिङि" ६।४।३७ "दान्यस्य संयोगादेः" ६।४।६८ "न ल्यपि" ६।४।६९, "मयतेरिदन्यतरस्याम्()" ६।४।७०; ततो यतीत्त्वं भवति--सोऽयमेव लगीयसा न्यासेन सिद्धे यद्धल्ग्रहणं करोति, तज्ज्ञापयत्याचार्यः--"भवतीह विप्रतिषेधः" इति॥
बाल-मनोरमा
जनसनखनां सन्झलोः ५०२, ६।४।४२

जनसन।"विडवनो"रितय्त आदित्यनुव्रतते। तदाह--एषामाकारोऽन्तादेश इति। सन् झल् इत्यनयोद्र्वन्द्वात्सप्तमीद्विवचनम्। सनि झलि चेति लभ्यते। "अनुदात्तोपदेशे"त्यतो झलिक्ङितीत्यनुवर्तते। तत्र झलीत्यनुवृत्तेन सन् विशेष्यते। तदादिविधिः। झलादौ सनीति लभ्यते। क्ङितीत्यनुवृत्तं त्वेत्सूत्रस्थेन झला विशेष्यते। तदादिविधिः। झलादौ क्ङितीति लभ्यते। तथाच झलादौ सनीति, झलादौ क्ङितीति च परनिमित्तद्वयं लब्धम्। तदाह--झलादौ सनि झलादौ क्ङिति चेति। सन्विशेषणं झलादाविति किम्?। जिजनिषति। सिसनिषति। चिखनिषति। अथ क्ङितोर्झल्विशेषमस्य प्रयोजनमाह-- जज्ञतीति। जनन् अतीति स्थिते अतेर्ङित्त्वेऽपि झलादित्वाऽभावादात्त्वाऽभावे "गमहने"त्युपधालोपे नकारस्य श्चुत्वेन ञकार इति भावः "जनसनखनां स"नित्याश्रित्य योगविभागेन उक्तार्थसिदिं()ध चाश्रित्य झ्लग्रहणं त्वत्र सूत्रे प्रत्याख्यातं भाष्ये। जजंसीति। "नश्चे"त्यनुस्वारः। जजाथः जजाथ। जजन्मि जजन्वः जजन्मः। जजानेति। जज्ञतुः। सेडयम्। जजनिथ जज्ञथुः।जज्ञिव। जनिता। जनिष्यति। जजन्तु--जजातात्। जजाहि। जजनानि। अजजम् अजजाताम्। अजज्ञुः। अजजनम् अजजन्व। विधिलिङि "ये विभाषे"ति मत्वाह--जजायात् जंजन्यादिति। अजनीत्--अजानीत्।अजनिष्यत्। गा स्तुतौ। देवान् जिगातीति। "भृञामि"दित्यत्र "बहुलं छन्दसी"ति वचनादभ्यासस्येत्त्वमिति भावः। जिगीत इति। "ई हल्यघो"रिति ईत्त्वम्। जिगतीति। अभ्यस्तत्वाददादेशे "श्नाभ्यस्तयो"रित्याल्लोपः। जिगासि जिगीथः जिगीथ। जिगामि जिगीवः। जगौ जगतुः। जगिव। गाता। गास्यति। जिगातु-- जिगीतात् जिगीताम् जिगतु। जिगीहि। जिगानि। अजिगात् अजिगीताम् अजिगुः। अजिगाः। अजिगाम् अजिगीव जिगीयात्। आशिषि--गेयात्। अगासीत्। अगास्यत्। इति जुहोत्यादयः।

॥ इति बालमनोरमायाम् जुहोत्यादयः॥

अथ तिङन्ते कण्ड्वादयः।

तत्त्व-बोधिनी
जनसनखनां सन्झलोः ४३०, ६।४।४२

जनसनखनाम्()। जन जनने, जनी प्रादुर्भावे इत्युभयोरपि ग्रहणम्। झलादौ सनि सिषासति। जज्ञतीति। "गमहने"त्युपधालोपः। जजायादिति। "ये विभाषे"ति वा आत्वम्। एवं जायादित्यत्रापि। जिगातीति। "रबहुलं छन्दसी"ति इत्वम्।

इति तत्त्वबोधिन्याम् जुहोत्यादयः।

अथ कण्ड्वादयः