पूर्वम्: ६।४।४९
अनन्तरम्: ६।४।५१
 
सूत्रम्
क्यस्य विभाषा॥ ६।४।५०
काशिका-वृत्तिः
क्यस्य विभाषा ६।४।५०

क्यस्य हल उत्तरस्य विभाषा लोपो भवति आर्धधातुके। समिध्यिता, समिधिता। दृषद्यिता, दृषदिता। समिधमात्मनः इच्छति, समिधम् इव आत्मानम् आचरति इति वा क्यच्क्यङौ यथायोगम् कर्तव्यौ।
लघु-सिद्धान्त-कौमुदी
क्यस्य विभाषा ७२७, ६।४।५०

हलः परयोः क्यच्क्यङारेलोपो वार्धधातुके। आदेः परस्य। अतो लोपः। तस्य स्थानिवत्त्वाल्लघूपधगुणो न। समिधिता, समिध्यिता॥
न्यासः
क्यस्य विभाषा। , ६।४।५०

"क्य" इति क्यच्क्यङोरुत्सृष्टानुबन्धयोः सामान्येन ग्रहणम्(); विशेषानुपादानात्()। "समिधमिवात्मानमाचरति" इति। वेति वाशब्दः समुच्चये वत्र्तमानः समिदिवाचरतीत्यमुमर्थं ग्राहयति। "यथायोगम्()" इति। यदात्मनः समिधमिच्छतीत्यर्थो विवक्ष्यते, तदा "सुप आत्मनः क्यच्()" (३।१।८) इति क्यच्? कत्र्तव्यः, यदा समिधमिवात्मानामाचरतीति तदा "उपमानादाचारे" ३।१।१० इति क्यजेव, यदा समिदिवाचरतीति तदा "कर्तुः क्यङ्? सलोपश्च" ३।१।११ इति क्यङ्--इत्येष यथायोगशब्दार्थः॥
बाल-मनोरमा
क्यस्य विभाषा ४८५, ६।४।५०

क्यस्य विभाषा। "यस्य हलः" इत्यतो हल इति पञ्चम्य्नतमनुवर्तते। "आद्र्धधातुके" इत्यधिकृतम्। तदाह-- हलः परयोः क्यच्क्यङोरिति। क्यष् तु नात्र गृह्रते, "लोहितडाज्भ्यः क्यष्वचन"मिति वक्ष्यमाणतया हलन्तात्तदभावात्। अन्तलोपमाशङ्क्याह-- आदेः परस्येति। तथा च मिध् अ इता इति स्थिते आह-- अतो लोप इति। तथा च समिध् इता इति स्थिते लघूपधगुणमाशङ्क्याह-- तस्य स्थानिवत्त्वादिति। क्यच्सूत्रे "मान्ताव्ययेभ्यः प्रतिषेधः" इति वार्तिकम्। मान्तेभ्योऽव्ययेभ्यश्च प्रतिषेध इत्यर्थे पुत्रमात्मन इच्छति पुत्रीयतीत्यत्र न स्यात्, पुत्राविच्छतीत्यादेव स्यात्। मान्तानि अव्ययानि मान्ताव्ययानि तेभ्य इत्यर्थे स्वरिच्छतीत्यत्र क्यचः प्रतिषेधो न स्यात्। अतस्तद्वार्तिकं विवृण्वन्नाह-- मान्तप्रकृतिकेति।