पूर्वम्: ६।४।५०
अनन्तरम्: ६।४।५२
 
सूत्रम्
णेरनिटि॥ ६।४।५१
काशिका-वृत्तिः
णेरनिटि ६।४।५१

अनिडादावार्धधातुके णेर्लोपो भवति। इयङ्यण्गुणवृद्धिदीर्घाणाम् अपवादः। अततक्षत्। अररक्षत्। आशिशत्। आटिटत्। कारणा। हारणा। कारकः। हारकः। कार्यते। हार्यते। ज्ञीप्सति। अनिटि इति किम्? कारयिता। हारयिता।
लघु-सिद्धान्त-कौमुदी
णेरनिटि ५३१, ६।४।५१

अनिडादावार्धधातुके परे णेर्लोपः स्यात्।
न्यासः
णेरनिटि। , ६।४।५१

"णेः" इति। णिङणिचोर्विशेषकरावनुबन्धावुबन्धावुत्सृ()ज्य यत्? समान्यं णिमात्रं तस्य ग्रहणम्()। इयङादिभिः सर्वस्य विषयस्यावष्टब्धत्वादनवकाशीऽयं णिलोपस्तेषामपवादोऽयं विज्ञायत इत्यत आह--"इयङ्यण्()" इत्यादि। "अततक्षत्(), अररक्षत्()" इति। तक्षिरक्षिभ्यां हेतुमण्णिच्(), तदन्तालुङ्? "णिश्रिदुरुआउभ्यः ३।१।४८ इत्यादिना च्लेश्चङ्(), ङित्त्वाद्? गुणस्य प्रसङ्ग एव नास्तीतीयङादेशः स्यात्()। अतस्तस्यापवादो णिलोपः। "आटिटत्(), आशिशत्()"। अट()शिभ्यां पूर्वं णिजादिषु कृतेषु "अजादेर्द्वितीयस्य" ६।१।२ इति टिशब्दशिशब्दौ द्विरुच्येते। अत्र "एरनेकाचः" ६।४।८२ इत्यादिना प्राप्तस्य यणादेशस्यायमपवादः। "कारणा, हारणा" इति। अत्र "सार्वधातुकार्धधातुकयोः" ७।३।८४ इति प्राप्तस्य गुणस्य। "कारकः, हारकः" इति। अत्र "अचो ञ्णिति" ७।२।११५ इति वृद्धेः। "कार्यते, हार्यते" इति। अत्र "अकृत्सार्वधातुकयोः" ७।४।२५ इति प्राप्तस्य दीर्घस्य। "ज्ञीप्सति" इति। "अज्झनगमां सनि" ६।४।१६ इति प्राप्तस्य दीर्घस्यैव। जानातेर्णिचि "अर्त्तिह्यी" ७।३।३६ इत्यादिना पुक्(), "मारणतोषणनिशामनेषु ज्ञा" (धा।पा।८११) इति घटादिपाठात्? "घटादयो मितः" (ग।सू।धा।पा।८१७) इति मित्संज्ञा, "मितां ह्यस्वः" ६।४।९२ इति ह्यस्वत्वम्(), "अत्र लोपोऽभ्यासस्य" ७।४।५८ इत्यभ्यासलोपः। "कारयिता, हारयिता" इति। "अनिटि" इति वचनादिह न भवति। "अनिटि" इति शक्यमकर्तुम्()। कथम्()? "निष्ठायां सेटि" ६।४।५२ इति नियमार्थं भविष्यति--निष्ठायामेव सेटि, नान्यत्रेति? अयुक्तमेतत्(), विपरीतनियमोऽप्याशङ्क्येत--"सेट()एव निष्ठायाम्()" इति। तथा च सति "कारयिता" इत्यत्र स्यादेव णिलोपः। तस्माद्विपरीतनियमाशङ्कानिरासार्थं "अनिटि" इत्युक्तम्()॥
बाल-मनोरमा
णेरनिटि १५४, ६।४।५१

णेरनिटि। आद्र्धदातुक इत्यधिकृतम्। "अतो लोप" इत्यस्माल्लोप इत्यनुवर्तते। "अनिटी"त्यस्य आद्र्धधातुकविशेषणत्वात्तदादिविधिः।तदाह--अनिडादाविति। तथा च णिलोपे काम् अ त इति स्थिते--परत्वादिति। "एरनेकाच" इत्यस्य "णेरनिटी"त्यपेक्षया परत्वाण्णिलोपं बाधित्वा यणि प्राप्ते सतीत्यर्थः। कृते तु यणि लोपे दुर्लभः, णेरभावात्। स्थानिवत्त्वेऽपि यणा बाधितस्य पुनरुन्मेषो दुर्लभः। वस्तुतस्तु स्थानिवत्त्वमेवेह दुर्लभम्, यण्स्थानिनमिकारम् अलं णित्वरूपेणाश्रित्य प्रवर्तमानस्य णिलोपस्याऽल्विधित्वेन तत्र स्तानिवत्त्वाऽसंभवात्। स्पष्टा चेयं रीतिर्भोभगो इति सूत्रभाष्ये इति शब्देन्दुशेखरे विस्तरः। ण्यल्लोपाविति। णिलोप इयङ्यण्गुणवृद्धिदीर्घेभ्यः, अल्लोपस्तु वृद्धिदीर्घाभ्यां पूर्वविप्रतिषेधेनेति विवेकः। तथाच पूर्वविप्रतिषेधादिह यणं बाधित्वा णिलोपो भवतीति स्थितम्। ननु अततक्षत्, आटिटत्, कारणा, कारकः,कार्यते इति वक्ष्यमाणेषु वार्तिकोदाहरणेषु क्रमेण इयड()ण्गुणवृद्धिदीर्घाणामवस्यं प्राप्ेतर्णिलोपस्य निरवकाशत्वादेव इयङादिबाधकत्वसंभवादिदं वार्तिकं व्यर्थम्, सुधियौ, प्रध्यौ, कर्ता, चिकाय, सूयादित्यादौ इयङ्यण्गुणवृद्धिदीर्घाणां सावकासत्वादित्यत आह--णिलोपस्य त्विति। पच्()धातोर्णिचि उपधावृद्धौ पाचीति ण्यन्तात्? "स्त्रियां क्ति"न्निति क्तिनि, "तितुत्रतथसिसुसकरसकेषु चे"तीण्निषेधे, "णेरनिटी"ति णिलोपे, कुत्वे पाक्तिरिति स्थितिः। "क्तिजन्त"मिति पाठे तु "क्तिच्()क्तौ च संज्ञाया" मिति क्तिज्बोध्यः। "पाक्ति"रिति कस्यचित्संज्ञा। अत्र इयङादीनामप्रसक्तेर्णिलोपस्यापि सावकाशत्वं तुल्यम्। तत्र अततक्षदित्यादौ परत्वादियङादिप्राप्तौ तन्निवृत्त्यर्थं वार्तिकमिदमारम्भणीयमिति भावः। वार्तिकं व्यर्थमेवेत्याह-- वस्तुस्त्विति। आद्र्धधातुकमात्रमिति। कृत्स्नमनिडाद्याद्र्धधातुकमस्य णिलोपस्य विषय इत्यर्थः। तथा च अततक्षदित्यादौ परानपि इयङादीन् णिलोपोऽपवादत्वाद्बाधते। परापेक्षयाऽपवादस्य प्रबलत्वात्। परत्वादियङादीनां णिलोपबाधकत्वाभ्युपगमे हि णेरनिटीत्यत्र अनिटीति व्यर्थम्। कारयितेत्यादाविडाद्याद्र्धधातुके गुणेनैव णिलोपस्य बाधसिद्धेः। ततस्च अनिटीति वचनसामथ्र्यादिनिडादावाद्र्धधातुके सर्वस्मिन्परे णिलोप इति विज्ञायते। एवं च अततक्षदित्यादावियङादिप्रवृत्तियोग्येऽप्याद्र्धधातुके सर्वत्र णिलोपैति,-- अस्य निरवकाशत्वादपवादत्वादेव णिलोपेन इयङादिबाधसिद्धेर्वार्तिकमिदं व्यर्थमित भावः। अपवाद एवायमिति। णिलोप इत्यर्थः। अतो लोपस्तु "चिकीर्षक" इत्यत्र वृदिं()ध, "चिकीष्र्या"दित्यत्र "अकृत्सार्वधातुकयो"रिति दीर्घं च बाधित्वा पूर्वविप्रतिषेधाद्भवति। नह्रतो लोपोवृद्धिदीर्घयोरपवादः, गोपायितेत्यादौ वृद्दिदीर्घयोरप्राप्तयोरप्यतो लोपस्यारम्भादित्यलम्। इयङिति। उदाहरणसूचनमिदम्। अततक्षिदिति। तक्षदातोण्र्यन्ताल्लुङस्तिपि इकारलोपे चङि द्वित्वे संयोगपूर्वक्तवादेरनेकाच इति यणभावे इयङि प्राप्ते पूर्वविप्रतिषेधाण्णिलोपे हलादिशेषेऽडागमेऽततक्षदिति रूपम्। यणिति। उदाहरणसूचनम्। आटिटदिति। अटधातोण्र्यन्तादाटीत्यस्माल्लुङि तिपि इकारलोपे चङि "टी" त्यस्य द्वित्वे "एरनेकाच" इति यणं बाधितवा पूर्वविप्रतिषेधाण्णिलोपे आटि वृद्धौ रूपम्। गुण इति। उदाहरणसूचनम्। कारणेति। "स्त्रिया"मत्यधिकारे कृञ्धातोण्र्यन्तात्कारीत्यस्माण्ण्वुलि अकादेशे वृदिं()ध बाधित्वा पूर्वविप्रतिषेधाण्णिलोपे रूपम्। दीर्घ इति। उदाहरणसूचनम्। कार्यत इति। कृञ्धातोर्ण्न्तात्कारीत्यस्मात्कर्मण लटि यकि "अकृत्सार्वधातुकयो"रिति दीर्घं बाधित्वा पूर्वविप्रतिषेधाण्णिलोपः। तथा च प्रकृते काम् इ अ त इत्यत्र "एरनेकाच" ति यणं बाधित्वा णिलोपे काम् अ त इति स्थितम्।

तत्त्व-बोधिनी
णेरनिटि १२८, ६।४।५१

णेरिति णिङ्()णिचोग्र्रहणम्। एवमन्यत्रापि बोध्यम्। "अनिटी"त्यनेनाधिकृतमाद्र्धधातुक इत्येतद्विशेष्यते। "यस्मिन्विदि"रिति तदादिविधिः। "अतो लोपः" इत्यस्माल्लोप इति चानुवर्तते, तदाह--अनिडादावित्यादि। यणि प्राप्त इति। ननु परत्वादियङ्यणादिविधयो यथासंभवमत्र सन्तु नाम, तेषु स्थानिवद्भावाण्णिग्रहणेन ग्रहणाल्लोपो भविष्यतीति चेत्, नैवं शङ्क्यम्, इयङादेशे ह्रन्त्यलोपः प्रसज्येतेति दोषः स्यात्। एतच्च "अतो लोपः"इति सूत्रे भाष्ये स्थितम्। न चाऽत्र "कारणा" "कारक" इत्यादौ गुणवृद्ध्योः कृतयोरन्तरङ्गत्वादयायादेशयोः कृतयोरन्त्यस्य लोपः प्राप्नोतीति कथमियङादेशे एव दोषौक्त इति शङ्क्यं,"वार्णादाङ्गं बलीयःर" इत्ययादौ बाधित्वा णिलोपो भविष्यतीति भाष्याशयात्।

ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेनेति। ण्यल्लोपाविति। णिलोपः इयङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन। अल्लोपस्तु- वृद्धिदीर्घाभ्यामिति विवेकः। णिलोपस्य निरवकाशत्वेन वार्तिकस्योक्तसंभव एव नास्तीत्यत आह-- पाक्तिरित्यादि क्तिजन्तमिति। तत्र "तितुत्रे"तीण्निषेधादिति भावः। वचनसामथ्र्यादिति। अयं भावः-- "णे"रित्येतावति सूत्रे कृतेऽप्याद्र्धधातुक इत्यनुवृत्त्या आद्र्धधातुके परतः प्रवर्तमानो णिलोप इयङ्यणादिभिर्बाधितः सन् परिशेषात् क्तिच्येव स्यादित्यनिटीत्यस्य वैयथ्र्यं प्रसज्येत, तथा चाऽनिडाद्याद्र्धधातुकं सर्वमप्यस्य विषयो, न तु क्तिजन्तमेवेति। अयमिति। णिलोप इत्यर्थः। अल्लोपांशे तु वचनमपेक्षितमेव। तेन "चिकीर्षक" इत्यत्र वृद्धि, चिकीष्र्यादित्यत्र "अकृत्सार्वे"ति दीर्घं च बाधित्वा पूर्वप्रतिषेधेन "अतो लोपः" इति लोपो भवतीत्याहुः।