पूर्वम्: ६।४।५३
अनन्तरम्: ६।४।५५
 
सूत्रम्
शमिता यज्ञे॥ ६।४।५४
काशिका-वृत्तिः
शमिता यज्ञे ६।४।५४

यज्ञकर्मणि शमिता इति इडादौ तृचि णिलोपो निपात्यते। शृतं हविः शमितः। तृचि सम्बुद्ध्यन्तम् एतत्। यज्ञे इति किम्? शृतं हविः शमयितः।
न्यासः
शमिता यज्ञे। , ६।४।५४

"शमितः" इत्यत्र पूर्धवद्? ह्यस्वत्वम्()। "ऋतो ङिसर्वनामस्थानयोः" ७।३।११० इति गुणः, हल्ङ्यादिना ६।१।६६ सुलोपः, रेफस्य विसर्गः। "तृचि सम्बुद्ध्यन्तमेतत्()" इति। निष्ठान्तमेतदिति कस्यचिदाशङ्का स्यात्(), अतस्तां निराकर्तुमिदमुक्तम्()। "शमयितः" इत्येतदपि तृचि सम्बुद्ध्यन्तम्()॥
बाल-मनोरमा
तुरिष्ठेमेयःसु , ६।४।५४

तथाच अगुणवचनादपि कर्तृशब्दादिष्ठन्प्रत्यये "कर्तृ-इष्ठ" इति स्थिते "इष्ठेमेयस्सु" इति विहिते टिलोपे प्राप्ते--तुरिष्ठेयमेयःसु। "तृ" इत्यस्य "तु"रिति षष्ठ()एकवचनम्। एष्विति। इष्ठन्, इमन्, इयस् इत्येतिष्वित्यर्थः। अयं लोपः सामथ्र्यात्सर्वादेशः, अन्त्यस्य ऋकारस्य "टे"रित्येव सिद्धेः। करिष्ठ इति। अयमनयोरति शयेन कर्तेत्यर्थः। दोहीयसी धेनुरिति। इयमनयोरतिशयेन दोग्ध्रीत्यर्थः। इष्ठनि "भस्याढे" इति पुंवत्त्वे ङीपो निवृत्तौ तृप्रत्ययस्य लोपे परनिमित्ताऽभावात् "दादे"रिति घत्वस्य निवृत्तौ उगित्त्वात् ङीपि "दोहियसी"ति रूपम्। "पुगन्ते"ति गुणस्तु न निवर्तते, लुप्तेऽपि तृचि प्रत्ययलक्षणेन तत्सत्त्वात्।