पूर्वम्: ६।४।६३
अनन्तरम्: ६।४।६५
 
सूत्रम्
आतो लोप इटि च॥ ६।४।६४
काशिका-वृत्तिः
आतो लोप इटि च ६।४।६४

इट्यजादावार्धधातुके क्ङिति च आकारान्तस्य अङ्गस्य लोपो भवति। इटि पपिथ। तस्थिथ। किति पपतुः। पपुः। तस्थतुः। तस्थुः। गोदः। कम्बलदः। ङिति प्रदा। प्रधा। आर्धधातुके इत्येव, यान्ति। वान्ति। व्यत्यरे। व्यत्यले। रातेर् लातेश्च लङि इटि रूपम्। अचि इत्येव, ग्लायते। दासीय।
लघु-सिद्धान्त-कौमुदी
आतो लोप इटि च ४९१, ६।४।६४

अजाद्योरार्धधातुकयोः क्ङिदिटोः परयोरातो लोपः। पपतुः। पपुः। पपिथ, पपाथ। पपथुः। पप। पपौ। पपिव। पपिम। पाता। पास्यति। पिबतु। अपिबत्। पिबेत्॥
न्यासः
अतो लोप इटि च। , ६।४।६४

"इट()जादावार्धधातुके क्ङिति च" इति। "अजादावार्धधातुके" इति प्रत्येकमभिसम्बध्यते--इट()जादावार्धधातुके, क्ङिति चाजादावार्धधातुक इति। इङ्ग्रहणमक्ङिदर्थम्()। "पपिथ" इति। पातेः विबतेर्वा लिट्(), सिप्(), "परस्मैपदानाम्()" (३।४।८२) इत्यादिना तस्य थल्? "ऋतो भारद्वाजस्य" ७।२।६३ इति नियमादिट्()। "गोदः" इति। "आतोऽनुपसर्गे कः" ३।२।३। "व्यत्यरे, व्यत्यले" ति। "कत्र्तरि कर्मव्यतीहारे" (१।३।१४) इत्यात्मनेपदम्? उत्तमपुरुषैकवचनम्()--इट्(), तस्य "सार्वधातुकमपित्()" १।२।४ इति ङित्त्वम्()। तत्रार्धधातुकत्वं नास्तीति न भवति लोपः। "ग्लायते" इति। भावे लकारः। "दासीय" इति। आशिषि लिङः, आत्मनेपदोत्तमैकवचनम्(), तस्य "इटोऽत्()" ३।४।१०६ इत्यदादेशः। अत्र सीयुटस्तद्भक्तत्वादिटोजादित्वं नास्तीति सत्यपयार्धधातुकाजादीत्वे लोपाभावः॥
बाल-मनोरमा
आतो लोप इटि च २०९, ६।४।६४

दधा--अतुसिति स्थिते-- आतो लोपः। "आद्र्धदातुके" इत्यधिकृतम्। "दीङो यु"डित्यतोऽचि क्ङितीति चानुवर्तते। अचीत्याद्र्धधातुकविशेषणत्वात्तदादिविधिः। क्ङिति अजाद्याद्र्धधातुके इटि च आतो लोप इति लभ्यते। फलितमाह-- अजाद्योरिति। इट आद्र्धधातुकत्वं तु तदवयवत्वाद्बोद्ध्यम्। क्ङितीति च इटो न विशेषणम्, इड्()ग्रहणसामथ्र्यात्। इडित्यनेन उत्तमपुरुषैकवचनम्, इडागमश्च गृह्रते। अजाद्योः किम्?। ग्लैधातोः कर्मणि लटि यकि-- ग्लायते। आद्र्धधातुकयोः किम्?। यान्ति वान्ति। दधौ इत्यत्र तु क्ङित्त्वाऽभावान्नाल्लोपः। सति तस्मिन् औत्वं न स्यात्। ननु धा--अतुसिति स्थिते द्वित्वात्पर्तवादाल्लोपे सति एकाच्त्वाऽभावाद्द्वित्वं न स्यादित्याशङ्क्य परहरति-- द्वित्वादित्यादिना। धेट्धातुरनिट्। भारद्वाजनियमात्थलि वेडित्याह-- दधिथ दधाथेति। इट्पक्षे आल्लोपः। दधथुः। दध। दधौ इति सिद्धवत्कृत्याह--दधिवेति। वसि आत्त्वे क्रादिनियमादिटि आल्लोप इति भावः। एवं दधिमेत्यपि ज्ञेयम्। धातेति। लुटि आत्त्वे तासादीति भावः। धास्यति। धयतु। अधयत्। धयेत्।

तत्त्व-बोधिनी
आतो लोप इटि च १८१, ६।४।६४

आद्र्धधातुक इत्यनुवर्तते। "दीङो युडचि क्ङिती"त्यतोऽचि क्ङितीति च। तदेतत्फलितमाह---अजाद्योराद्र्धधातुकयोरिति। अजाद्योः किम्?। ग्लायते। यक्-- जाग्लायते। यङ्--दासीय। डुदाञो लिङुत्तमैकवचनमिट्। आद्र्धधातुकयोः किम्?। यान्ति। वान्ति। व्यतिरे। कर्मव्यतिहारे रा दाने धातोर्लङुत्तमैकवचनमिट्। [व्यतिरै। लट इट्] दधिश्चेति। एवं च अजाद्याद्र्धधातुकस्य कित्त्वेन दधिव दधिमेत्यादिष्वातो लोपसिद्धावपि दधिथ पपिथेत्यादि रूपसिद्धये सूत्रेऽस्मिन्निटीति ग्रहणमावश्यकमिति ज्ञेयम्। यदि तु इडागम एवात्र गृह्रते व्याख्यानात्तदाऽचि क्ङितीत्येतदाद्र्धधातुकस्यैव विशेषणं , न तूभयोः।