पूर्वम्: ६।४।६४
अनन्तरम्: ६।४।६६
 
सूत्रम्
ईद्यति॥ ६।४।६५
काशिका-वृत्तिः
ईद्यति ६।४।६५

ईकारः आदेशो भवति आकारन्तस्य अङ्गस्य यति परतः। देयम्। धेयम्। हेयम्। स्तेयम्।
लघु-सिद्धान्त-कौमुदी
ईद्यति ७७७, ६।४।६५

यति परे आत ईत्स्यात्। देयम्। ग्लेयम्॥
न्यासः
ईद्यति। , ६।४।६५

"क्ङिति" इत्युत्तरार्थमनुवर्तमानमपीह नाभिसम्बध्यते; यत क्ङित्त्वासम्भवात्()। तकार उच्चारणार्थः; अनण्त्वादेव हि सवर्णग्रहणं न भविष्यति। असत्यपि वा जातिपक्षे सवर्णग्रहण आन्तरम्याद्दीर्घ एव भविष्यति; न ह्यस्वः। दीर्घोच्चारणमुत्तरार्थम्()। इह तु गुणेन भवितव्यम्()। न चात्र दीर्घस्य ह्यस्वस्य वा गुणे कृते कश्चिद्विविशेषोऽस्ति। "देयम्()" इति। "अचो यत्()" ३।१।९७
बाल-मनोरमा
इद्यति ६६४, ६।४।६५

इद्यति। आत इति। "आतो लोप इटि चे"त्यतस्तदनुवृत्तेरिति भावः। गुण इति। दाधातोः "अचोय"दिति यति अत ईत्त्वे "सार्वधातुकाद्र्धधातुकयो"रिति गुण इति भावः। ग्लेयमिति। "ग्लै हर्षक्षये" इति धातोर्यति "आदेचः" इत्यात्त्वे ईत्त्वे गुण इति भावः। तकिशसीति। तकि,शसि , चति , यति, जनी प्रादुर्भावे" इति धातवः। अत्र सर्वत्र अकर्मकेभ्यो भावे प्रत्ययः। सकर्मकेभ्यस्तु कर्मण्यपीति विवेकः। ननु "अर्हे कृत्यतृचश्चे"त्यर्हेऽपि जनेण्र्यताऽपि जन्यमिति रूपसिद्धेर्जनिग्रहणं व्यर्थमित्यत आह--स्वरार्थ इति। "यतोऽनावः" इत्याद्युदात्तार्थ इत्यर्थः। ननु ण्यति उपधावृद्धिः स्यादतस्तदभावार्थमिह जनेर्यद्विधिस्त्वित्याशङ्क्य निराकरोति-- न च वृद्धिप्रसङ्ग इति। कुत इत्यत आह-- जनिवध्योरिति। हनो वेति। हनधातोर्यद्वा स्यात्, "प्रकृतेर्वधादेशश्चेत्यर्थः। पक्षे इति। यदभावपक्षे इत्यर्थः। घात्य इति। ण्यति "हनस्तोऽचिण्णलो"रिति नस्य तः। कुत्वम्। उपधावृद्धिः। वधादेशस्तु यत्संनियोगशिष्टत्वान्नेति भावः।

तत्त्व-बोधिनी
ईद्यति ५५३, ६।४।६५

* हनो वा यद्वधश्च वक्तव्यः। हनो वा यदिति। हन्तेर्वा यत्स्यात्। यत्संनियोगेन वधादेशस्तु नित्य एव। यद्यपि वधमर्हतीति वध्य इति "शीर्षच्छेदाद्यच्चे"त्यतो यदित्यनुवर्तमाने "दण्डादिभ्यः" इति तद्धितेन यताऽपि सिध्यति तथाप्यसिवध्यो मुसलवध्य इति समासो न सिध्येत्। कृति पुनः "कर्तृकरणे कृता" इति सिध्यति। न चासिवधमर्हतीति विग्रहे कृतसमासादेव तद्धितोऽस्त्विति वाच्यम्। दण्डादिषु केवलस्य वधशब्दस्य पाठात्प्रत्ययविधौ तदन्तविदेश्च प्रतिषेधात्, स्वरे भेदाच्च। असिवधशब्दाद्यति हि सति "तित्स्वरित"मिति स्वरितः प्रसज्येत। कृदन्तेन समासे तु कृदुत्तरपदप्रकृतिस्वरेण वध्यशब्द आद्युदात्तः। अतएव वध्यशब्देन तद्धितान्तेन सह सुप्सुपेति समास इत्यपि न वाच्यम्, अन्तोदात्तत्वप्रसङ्गादिति दिक्। घात्य इति। "हनस्तोऽचिण्णलोः" इति तत्वम्। "हो हन्तेः" इति कुत्वम्।