पूर्वम्: ६।४।६६
अनन्तरम्: ६।४।६८
 
सूत्रम्
एर्लिङि॥ ६।४।६७
काशिका-वृत्तिः
एर् लिङि ६।४।६७

घुमास्थागापाजहातिसामङ्गानां लिङि परतः एकारादेशो भवति। देयात्। धेया। मेयात्। स्थेयात्। गेयात्। पेयात्। हेयात्। अवसेयात्। क्ङिति इत्येव, दासीष्ट। धासीष्ट।
लघु-सिद्धान्त-कौमुदी
एर्लिङि ४९२, ६।४।६७

घुसंज्ञकानां मास्थादीनां च एत्वं स्यादार्धधातुके किति लिङि। पेयात्। गातिस्थेति सिचो लुक्। अपात्। अपाताम्॥
न्यासः
एर्लिङि। , ६।४।६७

"पूर्वेणेत्त्वे प्राप्त एत्वं विधीयते। "मेयात्()" इति। "मा माने" (धा।पा।१०६२) इत्यस्येदम्()दाहरणम्(), न तु माङ् मेङोः, तयोह्र्रात्मनेपदित्वात्परस्मैपदं न सम्भवति। "गेयात्()" इति। "कै गै" (धा।पा।९१६,९१७) इत्यस्योदाहरणम्(), न तु गाङः; तस्य परस्मैपदासम्भवात्()। नापीणिगिङादेशानाम्(); तेषामपि लिङ्यसम्भवात्()। इङादेशस्य तु पूर्वस्माच्च हेतोः॥
बाल-मनोरमा
एर्लिङि २११, ६।४।६७

एर्लिङि। "ए"रिति प्रथमान्तम्। "आद्र्धधातुके"इत्यधिकृतम्। "घुमास्थागापाजहातिसा"मित्यनुवर्तते। घु मा स्था गा पा जहाति सा एषां द्वन्द्वात् षष्ठीबहवनचम्। तदाह-- घुसंज्ञानां मास्थादीनामिति। किति लिङिति। "दीङो यु"डित्यतः कितीत्यनुवृत्तेरिति भावः। ङितीति नानुवर्तते, लिङाद्र्धधातुकस्य ङित्त्वाऽसंभावात्।

तत्त्व-बोधिनी
एर्लिङि १८३, ६।४।६७

एर्लिङि। मास्थादीनमिति। मास्थागापाजहातिसामित्यर्थः। मा माने। गामादाग्रहणेष्वविशेषेऽपि माङ्मेङौ नेह गृह्रेते, लिङि कित्त्वाऽसंभवात्। ष्टा गतिनिवृत्तौ। गै शब्दे। गाङ् गतौ इति तु न गृह्रते, लिङि कित्त्वाऽसंभवादेव। पा पाने। ओहाक् त्यागे। षोऽन्तकर्मणि। देयात्। धेयात्। मेयात्। स्थेयात्। गेयात्। पेयात्। हेयात्। अवसंयात्। आद्र्धधातुके किम्?। मायात्। मायाताम्। मायुः। कितीति किम्?। दासीष्ट। इह "दीङो युडची"त्यतः क्ङितीत्यनुवर्तमानेऽपि प्रकृतोपयोगितया कितीत्यस्यैवानुवृत्तिः कृता।