पूर्वम्: ६।४।६
अनन्तरम्: ६।४।८
 
सूत्रम्
नोपधायाः॥ ६।४।७
काशिका-वृत्तिः
नौपधायाः ६।४।७

नान्तस्य अङ्गस्य उपधायाः नामि परतो दीर्घो भवति। पञ्चानाम्। सप्तानाम्। नवानाम्। दशानाम्। नः इति किम्? चतुर्णाम्। नामि इत्येव, चर्माणाम्।
लघु-सिद्धान्त-कौमुदी
नोपधायाः ३००, ६।४।७

नान्तस्योपधाया दीर्घो नामि। पञ्चानाम्। पञ्चसु॥
न्यासः
नोपधायाः। , ६।४।७

अनजन्तार्थ आरम्भः। न इति षष्ठ()एकवचनान्तम्(), सौत्रत्वन्निर्देशस्य यकारलोपस्यासिद्धत्वमनाश्रित्य "आद्गुणः" ६।१।८४ कृतः। न इति वर्णग्रहणम्(), तत्र वर्णग्रहणे सर्वत्र तदन्तविधिं प्रयोजयन्तीति नकारान्तस्याङ्गस्योपधायाः तस्या दीर्घत्वं विज्ञायत इत्याह--"नकारान्तस्याङ्गस्य" इति। "पञ्चानाम्()" इति। "नलोपः प्रातिपदिकान्तस्य" ८।२।७ इति नकारलोपः॥
बाल-मनोरमा
नोपधायाः , ६।४।७

पञ्चन् आम् इति स्थिते "षट्()चतुभ्र्यश्चे"ति नुटि नलोपे तस्याऽसिद्धत्वात् "नामि" इति दीर्घेऽप्राप्ते आह--नोपधायाः। "ने"ति सुप्षष्ठीकम्, अङ्गस्येत्यधिकृतस्य विशेषणम्। तदन्तविधिः। "ढ्रलोपे" इत्यतो "दीर्घ" इत्यनुवर्तते, "नामि" इति सूत्रं च। तदाह--नान्तस्येत्यादिना। नलोप इति। नलोपस्याऽसिद्धत्वात्प्रथमं दीर्घे ततो नलोप इत्यर्थः। परमेति। परमाश्च ते पञ्च चेति विग्रहः। "षड्भ्यो लुक्" इत्यस्य "षट्चतुभ्र्यश्चे"त्यस्य चाङ्गत्वात्तदन्तेऽपि प्रवृत्तिरिति भावः। प्रियाः पञ्च यस्येति बहुव्रीहिः। प्रियपञ्चन्शब्दो विशेष्यनिघ्नः त्रिलिङ्गः। तस्य पुंस्त्वे विशेषमाह--गौणत्वे त्विति। "षड्भ्यो लु"गिति "षट्चतुभ्र्यश्चे"ति च बहुवचननिर्देशेन षट्चतुरर्थप्राधान्यावगमादिति भावः। प्रयिपञ्चेति। सुटि हलादौ च राजवत्। शसादावचि तु "अल्लोपोऽनः" इत्यकारलोप नस्य श्चुत्वेन ञकारः। चकारे तु परेऽनुस्वारस्य परसवर्णे ञकारः स्थित एव। तथाच ञकारद्वयमध्ये चकारः। अष्टन्शब्दो नित्यं बहुवचनान्तः।

तत्त्व-बोधिनी
नोपधायाः ३३१, ६।४।७

नोपधायाः। "ने"ति लुप्तषष्ठीकं पदमङ्गस्य विशेषेणम्। नलोपस्यऽसिद्धत्वात् "नामी"पि दीर्घो न प्रवर्तत इत्ययमारम्भः। गौणत्वे त्विति। बहुवचमनिर्देशस्यार्थप्राधान्यार्थत्वादिति भावः। प्रियपञ्च्ञामिति। ञद्वयमध्ये चकारः।