पूर्वम्: ६।४।७३
अनन्तरम्: ६।४।७५
 
सूत्रम्
न माङ्योगे॥ ६।४।७४
काशिका-वृत्तिः
न माङ्योगे ६।४।७४

माङ्योगे लुङ्लङ्लृङ्क्षु यदुक्तं तन् न भवति। मा भवान् कार्षीत्। मा भवान् हार्षीत्। मा स्म करोत्। मा स्म हरत्। मा भवानीहिष्ट। मा भवानीक्षिष्ट। मा स्म भवानीहत। मा स्म भवानीक्षत।
लघु-सिद्धान्त-कौमुदी
न माङ्योगे ४४३, ६।४।७४

अडाटौ न स्तः। मा भवान् भूत्। मा स्म भवत्। मा स्म भूत्॥
न्यासः
न माङ्योगे। , ६।४।७४

"अनन्तरस्य वा विधिर्वा भवति प्रतिषेधो वा" (व्या।प।१९) इत्याट एवायं प्रतिषेध इति कस्यचिद्()भ्रान्तिः स्यात्(), अतस्तां निराकर्त्तुमाह--"माङ्योगे लुङलङलृङक्षु परतो यदुक्तं तन्न भवति" इति। एतोनोभयोरप्यडाटोः प्रतिषेध इति दर्शयति। उभावपि तौ लृङ्लङ्()लृङ्क्षूक्तौ। कथं पुनद्र्वयोरपि प्रतिषेधो लभ्यते? आटाप्यत्रानुवृत्तेः। न च तस्मिन्ननुवर्तमाने सत्यजादीनामष्यट्? प्राप्नोतीत्येष दोषः प्रसज्यते; मण्डूकपलुतिन्यायेनात्राटोऽनुवृत्तेः। योगविभागाद्वा, अयमटोऽपि प्रतिषेध इत्यवसीयते; यदि ह्राट एव प्रतिषेधोऽभिमतः स्यात्? तदा "आडजादीनां न माङ्योगे" इत्येकमेव योगं कुर्यात। अथ वा--"लुङ्लङ्लृङ्क्षु" ६।४।७१ इत्येतावन्मात्रमनुवर्तते, तेन लुडादिषु यदुक्तं तस्य सर्वस्य प्रतिषेधो न विज्ञायते। न चैवमतिप्रसङ्ग; यतः प्रत्यागन्तेरस्मिन्नेव लुङलङ्लृङ्प्रकरणे यत्? कार्यं विहितं तस्यैव प्रतिषेधो लभ्यते, न सर्वस्य प्रकरणान्तरविहितस्य। अत्र तु प्रकरणेऽडाटावेव विहितौ, अतस्तयोरेव प्रतिषेधः। "मा भवान्? कार्षीत्()" इति। "माङि लुङ", ३।३।१७५ इति लुङः। "मा स्म करोत्()" इति। "स्मोत्तरे लङः च" ३।३।१७६ इति लङः। "माङ्()" इति ङ्कारानुबन्धवत उपादानम्()--अस्मादादेशी यो माशब्दस्तस्य ग्रहणं मा भूदित्येवमर्थम्(); अन्यथा "भवान्? सुखिनं मात्राकार्षींत्()" इत्यत्रापि प्रतिषेधः स्यादिति केचित्()। लाक्षणिकत्वादेवास्मदादेशस्याग्रहणमित्ययुक्तमेतत्()। निपात एव त्वनयोऽङिन्माशब्दोऽस्ति--"मा बालिपथमन्वगाः"। "मा भवतु तस्य पापम्()" इति तु यस्य प्रयोगस्तद्योगे प्रतिषेधो मा भूदित्येवमर्थं ङिद्विशिष्टस्य ग्रहणम्()। योगग्रहणन्तु--योगमात्रे प्रतिषेधो यथा स्यादिति, तेन व्यवहितेऽपि भवति॥ "अमाङ्योगेऽपि न भवतः" इत्यादिना माङ्योगेऽपीत्यस्यार्थमाचष्टे। अत्र च वाक्यद्वयेऽपि "बहुलं छन्दसि" इत्येतत्सम्बध्यते। "बहुलं छन्दसि" इत्येतावतैव सिद्धेऽमाङ्योगेऽपीति वचनं विस्पष्टार्थम्()। अनुच्यमाने ह्रेस्मिन्? माङ्योगसय प्रकृतत्वात्? तत्रैव छन्दसि बहुलमडाटौ न भवत इत्याशंक्येत। "जनिष्ठाः" इति। जनेर्लुङ्, थास, इट्(), षत्वम्? ष्टुत्वञ्च। "ऊनयीत्(), अर्दयीत्()" इति। "ऊन परिहाणे" (धा।पा।१८८८) "अद्र्द हिंसायाम्()" (धा।पा।१८२८) चुरादी। "ह्रन्तक्षण" ७।२।५ इत्यादिना वृद्धिप्रतिषेधः। "इट ईटि" ८।२।२८ इति सिचो लोपः, गुणायादेशौ। "अवाप्सुः" इति। "आप्लु व्याप्तौ" (धा।पा।१२६०) अवपूर्वः। "सिजभ्यस्तविदिभ्यश्च" ३।४।१०९ इति झेर्जुसादेशः। "मा अभित्थाः" इति। भिदेस्थास्(), "झलो झलि" ८।२।२६ इति सिचो लोपः। "माऽ‌ऽवः" इति। पूर्वमेव व्युत्पादितम्()॥