पूर्वम्: ६।४।७४
अनन्तरम्: ६।४।७६
 
सूत्रम्
बहुलं छन्दस्यमाङ्योगेऽपि॥ ६।४।७५
काशिका-वृत्तिः
बहुलं छन्दस्यमाङ्योगे ऽपि ६।४।७५

छन्दसि विषये माङ्योगे ऽपि बहुलम् अडाटौ भवतः, अमाङ्योगे ऽपि न भवतः। अमाङ्योगे तावत् जनिष्ठा उग्रः। काममूनयीः। काममर्दयीत्। माङ्योगे ऽपि भवतः मा वः क्षेत्रे परबीजान्यवाप्सुः। मा अभित्थाः। मा आवः।